________________
पिण्डनिर्युक्तिः- मूलसूत्र
२५२
तदनन्तरं ग्लानानां ततोऽप्यनन्तरं शैक्षकादीनां, तत्र शैक्षा- अभिनवप्रव्रजिता आदिशब्दाद्वालादिपरिहग्रहः सूत्रे च' सेइमाईण' इत्यत्रमकारोऽलाक्षणिकः, 'ततः' तदनन्तरमात्मानः, इहसर्वेषामपि गुर्वादीनां यथायोगंत्रिवि - धान्यपिप्रक्षालनीयवस्त्राणि सम्भवन्ति, तद्यथा यथाकृतान्यल्पपरिकर्माणि बहुपरिकर्माणि च तत्रयानि परिकर्म्मरहितान्येव तथारूपाणि लब्धानि तानि यथाकृतानि यानि चैकं वारं खण्डित्वा सीवितानि तान्यल्परिकर्म्माणि, यानी च बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि, ततस्तत्रापि धावनक्रममाह'पुव्वमाहागडे 'यत्ति, ‘पूर्वे' प्रथमं सर्वेषामपि यथाकृतानिवासांकिधावयेत्, पश्चात्क्रमेण इतरे द्वे, किमर्थमिति चेत् ? उच्यते-विशुद्धाध्वयसायस्फातिनिमित्तं, तथाहि यान्यल्पपरिकर्माणि तानि बहुकम्मपिक्षया स्तोकसंयमव्याधातकारीणि भवन्तीति तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थदोषकारित्वाभावात्, ततो यथा यथापूर्वं पर्वं शुद्धानिप्रक्ष्याल्यन्ते तथा तथा संयमबहुमानवृद्धिभावतो विशुद्धाध्यवसायस्फातिरिति पूर्वं यथाकृतानीत्यादिक्रमः ।। सम्प्रतिप्रक्षालनक्रियाविधिमुपदर्शयतिमू. (४५) अच्छोडपिट्टणासु य न धुवे धोए पयावणं न करे ।
परिभोग अपरिभोगे छायावह पेह कल्लाणं ॥
वृ. इह वस्त्राणि धावन आच्छोटनपिट्टनाभ्यां न धावेतं, तत्र आच्छोटनं रजकैरिव शिलायामास्फालनं पिट्टनं- धनही नरण्डारमणीभिरिव पुनः पुनः पानीयप्रक्षेपपुरस्सरमुद्वत्त्यत्प्रिट्टनेन कुट्टनं, सूत्रे च सप्तमी तृतीयाऽर्थे, यथा 'तिसु तेसु अलङ्किया पुहवी' इत्यादौ, तुशब्दोऽनुक्तसमुच्चयार्थः, स च पाणिपादेन प्रमुज्य प्रमुज्य यतनया प्रक्षालयोदिति समुचिनोति, ततो 'धौते' प्रक्षालिते, धावन जलस्पर्शजनितशीतापनोदायात्मनो वस्त्रस्य वा शोषणायाग्रेः प्रतापनंन कुर्यात्, माभूत् धावनजलाद्रींभूतहस्तादितो वस्त्रतोवा कथिञ्चबिन्दुनिपातेनाग्रिकायविराधना, यद्येवं तर्हिकथंवस्त्रस्य शोषणकर्त्तव्यभिति शोषणविधिमाह - परिभोग्यानि अपरिभोग्यानि च यथाक्रमं छायाऽऽतयोः शोषयेत्स, सूत्रे च विभक्ति लोप आर्षत्वात्, परिभोग्येषु हि वस्त्रेषु तथापूर्वं शोधितेष्वपिकथञ्चित् षट्पदिका - सम्भवन्ति, साचप्रक्षालनकाले तथापमर्दिताऽपि कथञ्चिज्जीविता सती दिनकराऽऽतपसम्पर्के भ्रियन्ते, ततस्तद्रक्षणार्थं तानि छायां शोषयेत्, इतराणि त्वातपे, दोषाऽभावत्, तानि च छायायामातपे च शोषार्थं विसारितानि निरन्तरं 'पेहि' त्ति प्रेक्षेत, येन परास्कदिनो नापहरन्ति, इह पूर्वोक्ताविधिना यतनापुरस्सरमपि धाव्यमाने वस्त्रेषु कथञ्चिद्वायुविराधनारूपः षदिकोपमर्दादिरूपो वाऽसंयमोऽपि सम्भाव्यते, ततस्तच्छुद्धयर्थं तस्य साधोर्गुरुणा कल्याणसंज्ञं प्रायश्चितं देयम् ॥ तिविहो तेडक्काओ सच्चित्तो मीसओ य अच्चित्तो ।
मू. (४६)
सच्चित्तो पुन दुविहो निच्छयववहारओ चेव ॥
वृ. त्रिविधस्तेजस्कायः, तद्यथा- सचित्तों मिश्रोऽचित्तश्र, सचित्तः पुनर्द्विविधः- निश्रयतो व्यवहारतच । निश्रयव्यवहाराभ्यामेव सचित्तस्य द्वैविध्यमाह
मू. (४७/१) इट्टगपागाईणं बहुमज्झे विज्जुमाइ निच्छयओ । इंगालाई इयरोत्ति
वृ. इष्टकापाकः प्रतीतः, आदिशब्दात् कम्भकारपाकेक्षुरसकथनतुल्या (चुल्ल्या) दिपरिग्रहः, तेषां च बहुमध्यर्भागे विद्युदादिश्र, विद्युदुल्लाप्रमुखेतजस्कायो निश्रयतः सचित्तः, शेषस्त्वङ्गारादिकाः, 'अङ्गार' ज्वालारहितोऽग्निः, आदिशब्दाद् ज्वालादिपरिग्रहः, व्यवहारतः सचित ॥ सम्प्रति मिश्रं तेजस्कायमाहमुम्मुरमाईउ मिस्सो उ ।
मू. (४७/२)
वृ. 'मुर्मुरः' कारीषोऽग्निः, आदिशब्दादर्द्धविध्यातादिपरिग्रहः इत्यंभूतो मिश्र इति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org