________________
मूलं - ३२
तावत्तमभिधित्सुराहमू. (३३)
अप्पत्तेच्चिय वासे सव्वं उवहिं धुवति जयणाए । असइए उदवस्स य जहन्नओ पाय निज्जोगो ||
वृ. 'अप्राप्ते एव' अनायाते एव 'वर्षे' वर्षाकाले, वर्षाकालात्मनागर्वाक्तने काले इत्यर्थः, जलादिसामग्य्रां सत्यां 'उवधिम्' उपकरणंयतनया यतय- प्रक्षालयन्ति, 'द्रवस्य' जलस्य पुनः 'असति' अभावे, जधन्यतोऽपि पात्रनिर्योगोऽवश्यं प्रक्षालनीयः इहनिस्पूर्वोयुजिरुपकारे वर्त्तते, तथा चोक्तं- 'पाठो दूखले निज्जोगो उवयारो' इति, ततो निर्युज्यते - उपक्रियतेऽनेनेति निर्योग-उपकरणम्, अकर्त्तरीत्यनेन धञ् प्रत्यय- पात्रस्य निर्योगः पात्रनिर्योगः- पात्रोपकरणं पात्रकबन्धिदिः, उक्तं च- "पेत्तं पत्ताबंधी पायद्ववणं च पायके सरिया । पडलाइं रत्ताणं च गोच्छओ पायनिज्जोगो ||" इति । आह- किं सर्व्वेषामेव वस्त्राणि वर्षाकालदर्वागेव प्रक्ष्याल्यन्ते ? किं वाऽस्ति केषाञ्चिद्विशेषः ?, अस्तीति ब्रूमः ।। केषामिति चेदत आहआयरिण गिलाणाय य मला मइला पुणोऽवि धावंति ।
मू. (३४)
माहु गुरूण अवण्णो लोगंभि अजीरणं इयरे ॥
T:
वृ. इहये कुतपूर्व्विणो भगवत्प्रणीतप्रवचनानुगताचारादिशाशास्त्रोपधानानि अधीतिनः स्वसमयशास्त्रेषु ज्ञातिनः सकलस्वपरसमयशास्त्रार्थेषु कृतिनः कारितिनश्चपञ्चविधेष्वाचारेषुप ३ वचनार्थव्याख्याधिकारिणः सद्धम्मदिशनाऽभियुक्तः सूरयस्ते आचार्याः, आचार्यग्रहणमुपलक्षणं तेनोपाध्यायादीनां प्रभूणां परिग्रहः, तेषां तथा 'ग्लानाः', मन्दाः तेषांच, पुनः पुनः मलिनानिवस्त्राणि 'धाव्यन्ते' मिचार्यपीति, प्रस्तुतेऽर्थेकारणमाह'माहु' इत्यादि, माभवतु, हु' निश्रितं, गुरूणां मलिनवस्त्रपरिधाने लोके 'अवर्ण’अश्लाधा, यथा-1 - निराकृतथोऽमी मलदुरभिगन्धोपदिग्धदेहास्तत- किमेतेषामुपकण्डं गतैरस्माभिरिति, तथा 'इतरस्मिन्' ग्लाने मा भवत्वजीर्णमिति भूयो भूयो मलिनानि तेषां प्रक्षाल्यन्ते ॥ सम्प्रति ये उपधिविशेषा न विश्रम्यन्ते तन्नामग्राहं गृहीत्वा तेषां धावने विधिमाह--:
मू. (३५)
२४९
पायस्स पंडोयारो दुनिसिज्ज तिपट्ठ पोत्ति रयहरणं ।
एए उन वीसामे जयणा संकाममा धुवणं ॥
Jain Education International
वृ. प्रत्यवतार्यते पात्रमसिमन्निति प्रत्यवतारः- उपकरणं पात्रस्य प्रत्यवतारः-पात्रवर्जः पात्रनिर्योगः षड्विधः, तथा रजोहरणस्य सक्ते द्वे निपद्ये, तद्यथा बाह्या अभ्यन्तरा च, इह सम्प्रति दशिकाभिः सह या दण्डिका क्रियते सा सूत्रनीत्वा केवलैव भवतिनसदशिका, तस्यानिपद्यात्रयं, तत्रयादण्डिकाया उपरिएकहस्तप्रमाणायामा तिर्यग्वेष्टकत्रयपृथुत्वा कम्बलीखण्डरूपा सा आद्या निपद्या, तस्याश्राग्रे दशिकाः सम्बध्यन्ते, तां च सदिशिकामग्रे रजोहरणशब्देनाचार्यो ग्रहीष्यति, ततो नासाविह ग्राह्या, द्वितीया तु एनामेव निषद्यां तिर्यग वबुभिर्वष्टकरांवेष्टयन्ती किचिदधिकहस्तप्रमाणायामा हस्तप्रमाणमात्र पृथुत्वा वस्त्रमयी निषद्या सा अभ्यन्तरा निषद्योच्यते, तृतीया तु तस्या एवाभ्यन्तरनिषद्यायास्तिर्यग्वेष्टकान् कुर्वबी चतुरङ्गुलाधिकैकहस्तमाना चतुरस्रा कम्बलमयी भवति, सा चोपवेशनोपकारित्वादधुना पादप्रोञ्छनकमिति रूढा, साबाह्या निषद्येत्यभिधीयते, मिलितं च निषद्यात्रयं दण्डिकासहितं रजाहरणमुच्यते, ततो रजोहरणस्य सक्ते द्वे निषद्ये इति न विरुध्यते, तथा त्रयः पट्टाः, तद्यथा-संस्तारकपट्ट उत्तरपट्टश्रोलपट्टश्च, एते च सुप्रतीताः तथा 'पोत्ति' त्ति मुखपोतिका, मुखपिधानाय पोतं - वस्त्र मुखपोतं मुखपोतमेव हस्वं चतुरङ्गुलाधिकवितास्तिमात्रप्रमाणत्वात् मुखपोतिका, मुखवस्त्रिकेत्यर्थः, 'अतिवर्त्तन्तेस्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी' ति वचनाच्च प्रथमतो
For Private & Personal Use Only
www.jainelibrary.org