________________
२२
आघनियुक्तिः मूलसूत्र
ततः सूत्रपारुषीमकृत्वैव स्वपिते, एतत्पौरूषीकरणमकरणं चेति । पुनरपि च तेन गच्छताऽऽचार्यः प्रच्छनीयः प्रत्यूषसि - यास्याम्यहमिति, अथ न पृच्छत्यतः 'दोच्चऽपुच्छणे दोस' त्ति द्वितीयवारामपृच्छति दोषाःवक्ष्यमाणाः, के च ते ? इत्याह- 'सरण' गाहद्धं, स्मरणामाचार्यस्यैव संजातं, एवंविधमन्यथा व्यवस्थितं कार्यमन्यथा कथंचित्संदिष्टं, 'सुय' त्तिश्रुतमाचार्यैर्यथा ते तत्राचार्यान विद्यन्तेयन्निमित्तं चासौ प्रेष्यते, तद्वा कार्य तत्र नास्ति, 'साहु' त्ति अथवा विकाले साधुः कचित्तस्मात्स्थानादागतस्तेन कथितं यथा स आचार्यस्तत्र नास्तीति ‘सन्नि’त्ति अथवा सञ्जी - श्रावक आयातस्तेनाख्यातं, 'अंतो' त्ति अभ्यन्तरतः, कस्य?. प्रतिश्रयस्य. केनचिदुल्लपितं, यथा-अस्माकमप्येवंविधाः साधव आसन्, ते च ततो गता मृता वा, 'बहि' त्ति बाह्यतः प्रतिश्रयस्य श्रुतमन्यस्मै कथ्यमानं केनचित् 'अन्नभावणं' त्ति योऽसौ गन्ता सोऽन्यभावः उन्निष्क्रमितुकामः, एतच्चचार्याय तत्सङ्घाटकेनाख्यातं. ततश्रासौ ध्रियते केनचिद्व्याजेन ।। यदिपुनरसी गन्तानप्रबोधयायात्ततःमू. (४५) बोहण अप्पडिवुद्धे गुरुवंदन घट्टणा अपडिबुद्धे । निज्वलणिसन्नझाई दट्टं चिट्टे चलं पुच्छे ॥
वृ. अचेतयति सति तस्मिन् गन्तरि बोधनं गीतार्थः करोति ।। ततः साधुरुत्थायाचार्याभ्यासमेति, गत्वा चयद्याचार्यो विबुद्धस्ततोऽसौ गुरवे वन्दनं करोति, अथाद्यापि स्वपितिततः संघट्टना चाचार्यपादयोः शिरसा घट्टना-चलनं क्रियते, अथासौ प्रतिबुद्ध एव किन्तु निलो निषन्नः - उपविष्टो ध्यायतीति, ततस्तमेवंभूतं निश्चलं निषन्नध्यायिनंदृष्ट्वा किंकर्तव्यमित्याह- 'चिट्टे' स्थातव्यं, तेनगुरुध्यानव्याघातेनमहाहानिसंभवात्. 'चलं पुच्छेंत्ति अथ छलोऽसौ ततः प्रष्टव्यः- भगवन् ! स एषोऽहं गच्छामीति । ततश्चासावाचार्येण संदिष्टःइदमेवं त्वया कर्त्तव्यमिति व्रजति, स चेदानीं गन्तुं प्रवृत्त इत्येतदेवाह
मू. (४६)
अप्पाहि अणुन्नाओ स सहाओ नीड़ जा पहायंति । उवओगं आसन्ने आसने करेइ गामस्स सो उभए ।
वृ. सन्दिष्टः प्राग् पश्चादनुज्ञातो वेति ततो गच्छति, कथम् ? - ससहायः, कियन्तं कालं यावत्ससहायो व्रजति ? - 'यावत्प्रभात' - जातसूर्योदय इत्यर्थः, ससहायथ प्रभातं यावद्भजति श्वापदादिभयात्, एवमसौ साधुव्रर्जन ग्रामसमीपं प्राप्तः सन् किं करोतीत्याह- उपयोगं करोति, किंविषयम् ? - उभयविषयं मूत्रपुरीपपरित्याग इत्यर्थः, कस्मादेवं चेत् ग्रामसन्निधान एव स्थण्डिलसदभावाद् गवादिसंस्थानात ॥
अथ रात्रौ गच्छतः कचिदपायः संभाव्येत तनः प्रभातं यावत्स्थातव्यं तथा चाहमू. (४७) हिमतेन सावयभया दारा पिहिया पहं अयाणतो ।
अच्छइ जाव पभायं वासियभत्तं च से वसभा ।।
वृ. हिमं शीतं स्तेना:- चौराः श्वापदानि - सिंहादीनि, एतद्भयात्प्रभातं यावदास्ते, यदि पुरस्य द्वाराणि पिहितानि ग्रामस्य फलहकं पथानं वाऽजानंस्तिष्ठति यावत्प्रभातमिति । एवं च प्रभातं यावत्स्थिते गन्तरि 'वासिकभक्तं' दोषानं से' तस्य 'वसभा' गीतार्था आनयन्ति । अथ केम्यस्तदानीयते ?मू. (४८)
ठवणकुल संखडीए अणहिंडते सिनेह पयवज्जं ।
भत्तअस्स गमनं अपरिणए गाउयं वहड़ ||
वृ. स्थापनाकुलेभ्यः तथा 'संखडीए' त्ति सामयिकी भाषा भोजनप्रकरणार्थे तस्य वा, के पुनस्तदानयन्त्यत आह- 'अनहिंडते' येभिक्षांनपर्यटितवन्तः, कस्मात्पुनस्ते भक्तमानयन्ति ?, उच्यते, तेषामहिण्डकानां गृहस्था गौरवेण प्रयच्छन्ति, कीदृशं पुनस्तैर्भक्त मानयनीयम् ? - 'सिनेहपयवज्जं तिस्नेहन- धृतादिना
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International