________________
२४६
पिण्डनियुक्ति:- मूलसूत्रं
पाश्र्वर्तिवृत्ताकारतोयाः ये च 'करकाः ' घनोपलाः तथा 'समुद्रहृदानां' लवणादिसमुद्रपद्मादिहृदानां च बहुमध्यभागे येऽकाप्याः 'अह' त्ति एष सर्वोऽप्यकाप्यो 'निश्चयसचित्तः' एकान्तसचित्तः शेषस्तु 'अवटादि' अवटवापीतडागादिस्थः, इहावटादिस्योऽवटादिशब्देनोक्त:, तात्स्थ्येन तद्वयपदेशप्रवृत्तेः, यथा मञ्चाः क्रोशन्तीत्यादौ, तत्रावटः कूपस्तदादिगतोऽप्कायो 'व्यवहारनस्य' व्यवहारनयमतेन सचित्तः ॥ मू. (२५) उसिणोदगमनुवत्ते दंडे वासे य पडियमित्तंमि ।
मोत्तूणादेसतिगं चाउल उदगेऽबहुपसन्नं ॥
वृ. अनुद्धृते दण्डे, अत्र जातावेकवचनं, ततोऽयमर्थः-अनुद्धृत्तेषु त्रिषु दण्डेषु उत्कालेषु यदुष्णोदकं तन्मिश्रमिति प्रस्तावाद्गम्यते, तथाहि प्रथमे दण्डेजायमाने कश्चित्परिणमतिकश्चिन्नेतिमिश्रः, द्वितीयेप्रभूतः परिणमतिस्तोकोऽवतिष्ठते, तृतीयेतुसर्वोप्यचित्तोभवति, ततोऽनुद्धृतेषु त्रिषुदण्डेपूष्णोदकं (मिश्र) सम्भवति, तथावर्षे-वृष्टौपतितमात्रेयज्जलंग्रामनगरादिषु प्रमूततिर्यग्मनुष्यप्रचारसम्भविषु भूमौ वर्त्तते तद्यावन्नाद्याप्यचितीभवति तावन्मिश्रमवगन्तव्यं, ग्रामनगरादिभ्योऽपि बहिस्ताद्यदिस्तोकं मेघजलं निपताति तदानीं तदपि पतितमात्रं मिश्रमवसेयं, पृथिवीकायसम्पर्कतस्तस्य परिणममानत्वात्, यदाऽप्यतिप्रभूतं जलं मेघो वर्षति तदाऽपि प्रथमतो निपतत् पृथिवीकायसम्पर्कतः परिणममानं मिश्रं, शेषं तु पश्चान्निपतत् सचित्तमिति, तथा ‘मुक्त्वा' परिहृत्य ‘आदेशत्रिकं' मतत्रिकं, तदुक्ता मिश्रता न ग्राह्येति भावार्थः, 'चाउलोदकं तण्डुलोदकम् 'अबहुप्रसन्नं' नातिस्वच्छीभूतं, मिश्रमिति गाथार्थः । अबहुप्रसन्नमित्यत्रादावकारलोप आर्षत्वात् ॥ मू. (२६) भडंगपासवलग्गा उत्तेडा बुब्बुया न संमंति ।
जातावमीसंग तंदुला य रज्झतिजावऽन्ने ॥
वृ. तण्डुलोदकेतण्डुलप्रक्षालनभाण्डादन्यस्मिन् भाण्डेप्रक्षिप्यमाणेये त्रुटित्वा भाण्डकस्यपार्श्वेषु 'उत्तेडा' बिन्दवो लग्ग्राः तेयावन्न‘शाम्यन्ति' विध्वंसमुपगच्छन्ति तावत्तत्तण्डुलोदकं मिश्रमित्येके १, अपरे पुनराहुःतण्डुलोदके तण्डुलप्रक्षालनभाण्डकादपरस्मिन् भाण्डके प्रक्षिप्यमाणे ये तण्डुलोदकस्योपरि समुद्भूता बुद्बुदास्ते यावदद्यापि 'नशाम्यन्ति' न विनाशिमियति तावत्तत्तण्डुलोदकं मिश्रमिति २, अन्ये पुनरेवमाहुःतण्डुलप्रक्षालनानन्तरं तण्डुला राख्छुमारब्धास्ततस्ते यावन्न राध्यन्ति, यावन्नाद्यापि सिध्यन्तीति भावः तावत्तत्तण्डुलोदकं मिश्रमिति ३ || एषां त्रयाणामप्यादेशाना दूषणान्याह -
मू. (२७)
एए उ अनाएसा तिन्निवि कालनियमस्सऽसंभवओ । लुक्खेयरभंडगपवणसंभवासंभवाईहिं ॥
वृ. एतं त्रयोऽप्यादेशा अनादेशा एव, तुशब्द एवकारार्थो भिन्नक्रमश्र, कुतोऽनादेशाः ? इत्याहकालनियमस्यासम्भवातं, न खलु बिन्द्वपगमे बुबुदापगमे तण्डुलपाकनिष्पत्तौ वा सदा सर्वत्रं प्रतिनियत एव कालः येन प्रतिनियतकालसम्भविनां मिश्रत्वाद्र्द्धमचित्तत्त्वस्याभिधीयमानस्यनव्यभिचारसम्भवः कथं प्रतिनियतः कालो न घटते ? इति कालनियमासम्भवाह- 'लुक्खयरें त्यादि, रूक्षंतरभाण्डपवनसंभवादिभिः, अत्रादिशब्दाच्चिरकालसलिलभिन्नत्वादिपरिग्रहः, इयमय भावना - इह यदापाकतः प्रथममानीतं चिरानीतं वा स्नेहलादिना न भिन्नं भाण्डं तद्र्क्षमुच्यते, स्नेहादिना तु भिन्नं स्निग्धं तत्र ख्क्षं भाण्डे तण्डुलोदके प्रक्षिप्यमाणे ये बिन्दवः पार्थेषु लग्नास्ते भाण्डस्य रूक्षतया झटित्येव शोषमुपयान्ति, स्निग्धे तु भाण्डे भाण्डस्य स्निग्धतया चिरकालं, ततः प्रथमादेशवादिनां मते रूक्षेभाण्डेबिन्दूनामपगमे परमार्थतो मिश्रस्याप्यचित्तत्त्वसम्भावनया ग्रहणप्रसङ्गः, स्निग्धे तु भाण्डे परमार्थतोऽचित्तस्यापि बिन्दूनामनपगमे मिश्रत्वेन सम्भावनया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International