________________
मूलं - २०
२४५
2
मधुरादिक्षेत्रोत्पन्नस्य च चतुल्य वर्णस्य भूम्यादेः पृथिवीकास्य परस्परं सम्पर्केणाचित्तताभवनं तदा तत् क्षेत्रत, क्षेत्रस्य प्राधान्येन विवक्षणात्, यद्वा मा भूदपरक्षेत्रोद्भवेन पृथिवीकायान्तरेण सह मीलनं, किन्त्वन्यत्र क्षेत्रे योजनशतात्परतो यदा नीयते तदा सव्र्वोऽपि पृथिवीकायः सर्वस्मादपि क्षेत्राद्योजन शताद्वर्द्धमानीतो भिन्नाहारत्वेन शीतादिसम्पर्कपश्चावश्यमचित्तीभवति, इत्थं क्षेत्रादिक्रमेणाचित्तीभवनमप्कायादीनामपि भावनीयं, यावद्वनस्पतिकायिकानां, तथा च हरीतक्यादयो योजनशताद्वर्द्धमानीताऽचित्तीभूतत्वादौषषाद्यर्थे साधुभिः प्रतिगृह्यते इति । कालतस्तचित्तता स्वभावतः स्वायुः क्षयेण सा च परमार्थतोऽतिशयज्ञानेनैव सम्यक्परिज्ञायतेनछाद्मस्थिकज्ञानेनेतिनव्यवहारपथमवतरति, अतएव च तृषाऽतिपीडितानामापिसाधूनां स्वभावतः स्वायुःक्षयेणाचित्तीभूपतमपि तडागोदकं पानाय वर्द्धमानस्वामी भगवान् नानुज्ञतवान्, इत्थंभूतस्याचित्तीभवनस्यछद्मस्थआनांदुर्लक्षत्वेनमाभूतु सर्वत्रापितडागोदकेसचित्तेऽपिपाश्रात्यसाधूनां प्रवृत्तिप्रसङ्ग इतिकृत्वा, भावतोऽचित्तीभवनं पूर्ववर्णादिपरित्यागतोंऽपरवर्णादियता भवनं । पूर्ववर्णादिपरित्यागतोऽपरवर्णादियता भवनं । तदेवमुक्तोऽचित्तोऽपि पृथिवीकायः । एतेन चाचित्तेन साधूनां प्रयोजनं, तथा चाह- 'वुक्कंत' इत्यादि, व्युत्क्रान्ताः- अपगता योनिः - उत्पत्तिस्थानं यत्र तेन विध्वस्तयोनिना- प्रासुकेन 'इदं' वक्ष्यमाणस्वरूपं प्रयोजनं साधूनां भवति ।। तदेवोपदर्शयति
मू. (२१)
अवरद्धिगविसंबंदे लवणेन व सुरभिउवलएणं वा ।
अच्चित्तरस्स उ गहणं पओयणं तेणिमं वऽन्नं ॥
वृ. अपराधनम् अपराद्धं- पीडाजनकता तदस्यास्तीति अपराद्विको लूतास्फोटः सप्र्पादिदंशो वाविधंप्रतीतं तच्च दद्रूप्रभुतिषु चारितं सम्भवति तयोरुपशमनाय बन्ध इव बन्धः - ! - प्रलेस्तस्मिन् कर्त्तव्येऽचित्तपृतिवीकायस्य गौरमृत्तिकाकेदारतरिकादिरूपस्यग्रहणंप्रयोजनं, यद्वालवणेनप्रतीनेन' अच्चित्तस्स' त्तिविभक्तिपरिणामेनेह तृतीयान्तं सम्बध्यते, अचित्तेनालवणभक्त भोजनादौ प्रयोजनम्, अथवा सुरभ्युपलेन-गन्धपाषाणेन गन्धरोहकाख्येन प्रयोजनं, तेन हि पामाप्रसूतवातघातादि क्रियते, वाशब्दो विकल्पार्थः, अथवा तेन पृथिवीकायनेदमन्यत्प्रयोजनम् ॥ तदेवाह
मू. (२२)
ठाणनिसियणतुट्टण उच्चाराईण चेव उस्सग्गो । घुट्टगडगलगलेवो एमाइ पओयणं बहुहा ।।
वृ. इह साधुभिः सचित्तमिश्रपरिहारद्वारेणाचित्ते भूतलप्रदेशे यत् स्थानं कायोत्सर्गो विधीयते यच्च निषीदनम्-उपवेशनंयच्चत्वग्वर्त्तनं स्वापः, यश्र उचारादीनां पुरीष प्रस्त्रवणश्लेषमनिष्ठयूतानामुत्सर्गः, तथा यो घुट्टको केपितपात्रसृणताकारकः पाषाणो ये च डगलकाः-पुरीषोत्सर्गानन्तरमपानप्रोञ्छनकपाषाणादिखण्डरूपायश्च लेपो-भोगपुरपाषाणादिनिष्पन्नस्ताम्वकपात्राभ्यन्तरं दीयते, एवमादि 'बहुधा बहुप्रकारम अचित्तेन पृथिवीकायन प्रयोजनम् ॥ उक्तः सचित्तादिभेदभिन्नमाह
मू. (२३)
आउक्काओ तिविहो सच्चितो मीसओ य अच्चित्तो।
सच्चित्तो पुन दुविहो निच्छयववहारओ चेव ॥
वृ. अप्कायस्त्रिविधः, तद्यथा- सचित्तो मिश्रोऽचित्तश्र, नत्र सचित्तो द्विधा - निश्रयतो व्यवहारतश्र ।। मू. (२४) घनउदही धनवलया करगसमुद्दद्दहाण बहुमज्झे । अह निच्छयसच्चित्तो ववहारनयस्स अगडाई ॥
वृ. 'घनोदधयः' नरकपृथ्वीनामाधारभूताः कठिनतोयाः समुद्राः, 'धनवलयाः' तासामेव नरकपृथिवीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org