________________
मूलं- ७
२४१
तत्र पिण्ड इति नाम क्रियानिमित्तं, पिण्डन्नमिति व्युत्पत्तेः तत उदाहरणान्यपि क्रियानिमित्तान्येव दर्शयति- 'तं पुन' इत्यादि, तत्पुनगौणं नाम क्षपण इत्यादि, तत्र क्षपयति, कर्म्माणीति क्षपणः क्षपकर्षिः इहं क्षपकर्षेः क्षपणलक्षणां क्रियामधिकृत्य क्षपण इति नाम प्रवृत्तमतौ गौणम्, एवं शेषेष्वप्युदाहरमेषु भावना कार्या, तथा ज्वलतीतिज्वलनो-वैश्वानरः, तपतीतिपनो रविः, पक्ते पुनातीतिवापवनो वायुः, प्रदीप्यते इति प्रदीपः दीपकलिका, चकारोऽन्येषामप्येवंजाती यानामुदाहरणानां समुचयार्यः । तदेवं सामान्यतो गौणं नाम व्याख्यातं । मू. (८) पिंडण बहुदव्वाणं पडिवक्खेणावि जत्थ पिंडक्खा । समय पिंडोह सुत्तं पिंडपडियाई ।।
[भा. २]
वृ. बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणां यत् पिण्डनम् एकत्र संश्लेषस्तत्र पिण्ड इति नाम प्रवर्त्तमानं गौणमिति शेषो, व्युत्पत्तिनिमित्तस्य तत्र विद्यमानत्वात् तथा प्रतिपेक्षणाप्यत्र, प्रकरणात्प्रतिपक्षशब्दः कठिनद्रव्यसंश्लेषाभाववाची, ततोऽमर्थः यत्र प्रतिपक्षेणापि बहूनां द्रव्याणां मीलनमन्तरेण तावत्पिण्ड इति नाम प्रवर्त्तत एव, न काचित्तत्रव्याहतिरित्यपिशर्थ, समयप्रसिद्धया 'पिण्डाख्या' पिण्ड इति नाम, सपिडाख्यावान्नामपिण्डः समयकृत इत्युच्यते, तत्रनामनामव-तोरेभेदोपचारादेवं निर्देशः, उपचाराभावे त्वयमर्थः- तत्रवस्तुनितत्पिण्डइति नामसमयकृतमिति, एतदेव दर्शयति- 'जहसुत्तपिंडपड़ियाई' यथेत्पुदर्शने पिण्डति पिण्डपातग्रहणं, तत एवं गाथायां निर्देशो द्रष्टव्यः 'पिंडवायडिपाए' इत्यादि, आदिशब्दात् 'पविट्ठे समाणे' इत्यादिसूत्रपरिग्रहः तञ्चप्रागेव दर्शितम्, इयमंत्र भावना अत्र सूत्रे प्रभूतकठिनद्रव्यपरस्परसंश्लेषाभावेऽपि पानीये पिण्ड इति नामान्वर्यरहितं समयप्रसिद्धया प्रयुज्यते; अत इदं समयजमभिधीयते इति ॥ सम्प्रत्युभय पिण्ड इति नाम दर्शयतिमू. (९)
जस्स पुन पिंडवाया पविठ्ठस होइ संपत्ती । गुडओयणपिंडेहिं तं तदुभवयपिंडमाहंसु ॥
[भा. ३] वृ. यस्य पुनः कस्यचित्पिपण्डपातार्यतया-पिण्डपातः- आहारलाभस्तदर्यतया साधोगृहपतिगृहं प्रविष्टस्यसतोभवतिआसम्प्राप्तिः, 'गुडओअणपिंडेहिं' ति 'व्यत्ययोऽप्यासा' मिमितप्राकृतलक्षणवशात्षष्ठ्यर्थे तृतीया, ततोऽयमर्थो - गुडौदनपिण्डओर्गुऽपिण्डस्यौदनपिण्डस्य चेत्पर्थः, गुडौदनग्रहणमुलपक्षणं, तेन सक्तु पिण्डादेच या सम्प्राप्तिस्तं गुडपिण्डादिकं तदुभयपिण्डं गुणनिष्पन्नसमयप्रसिद्धपिण्डशब्दवाच्यमुक्तवन्तस्तीर्थकरगणधराः, इहापि नामनामवतोरभेदोपचारादेवं गाथायां निर्देशः, उपचाराभावे त्वयं भावार्थ:- तद्विषयं पिण्ड इति नाम उभजयम्, अन्वर्ययुक्त त्वात्समप्रसिद्धत्वाश्चेति ॥ उभयाइरित्तमहवा अन्नं पि हु अत्थि लोइयं नाम ।
मू. (१०)
ताभिप्पायकयं जह सीहगदेवदत्ताई ॥
[भा. ४] वृ. ' अथवे 'ति नामप्रकारान्तरताद्योतकः, 'उभयातिरिक्तं ' गौणसमयजविभिन्नम्, अन्यदप्यस्ति लौकिक' लोकेप्रसिद्धमात्माभिप्रायकृतं नाम, अनुभयजीमति भावार्थः, तदेवोदाहरेणसमर्थयमान आह-यथा सिंहकदेवदत्तादि, आदिशब्दाघज्ञदत्तादिपरिग्रहः, इदं हि सिंहदेवदत्तादिकं नाम शौर्यक्रौर्यादिगुणनिबन्धनोपचाराभावे देवा एनं देयासुरितिव्युत्पत्त्यार्थासम्भवे च यस्य कस्याचिदात्माऽभिप्रायतः पित्रादिभिद्दीयमानं गौणमन्वार्थविकलत्वान्नापि समयप्रसिद्धमत उभयातिरिक्त मिति, एवं पिण्ड इत्यपि नाम उभयातिरिक्तं भावनीयं ॥ ननु पिण्डइति नामनियुक्ति गाथायामुमयातिरिक्तं नोपन्यस्तं, तत्कथं भाष्यकृता व्याख्यायते ?, तदुयुक्तं, नोपन्यस्तमित्यसिद्धेः, अपिशब्देन तत्र सूचितत्वात्, तथा चाह भाष्यकृत्
261 16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org