________________
पिण्डनिर्युक्तिः- मूलसूत्र
खुरककुदलाङ्गुलसास्नादिमत्त्वं प्रवृत्तिनिमित्तमुपलक्ष्यते इति गच्छत्यगच्छति वा गोपिण्डे गोशब्दस्य प्रवृत्तिः, एवं सर्वेष्वपि जातिशब्देषु नामसु व्युत्पत्तिनिमित्तवत्सु भावनीयं, ये तु जातिशब्दा व्युत्पत्तिरहिता यथाकथञ्चिज्जातिमत्सु रूढिमुपागतास्तेषु व्युपत्तिनिमित्तमेव नास्तीति कुतस्तत्र जोतर्व्युत्पतितिनिमित्तत्वप्रसङ्ग ?, तस्माज्जातिः परतन्त्रापि न शब्दस्य व्युत्पत्तिनिमित्तमिति न सा गुणग्रहणेन गृह्यते, ये तु गोत्वविशिष्टागोमानित्यादयो जातिव्युत्पत्तिनिमित्ता नते नामरूपातितैर्व्यभिचार, ततो गुमदागतंगौणं, व्युत्पत्तिनिमित्तं द्रव्यादिरूपं गुणमधिकृत्य यद्वस्तुनि प्रवृत्तं नाम तद्वौणनामेति भावार्थः, एतदेव च नाम लोके यथार्थमित्याख्यायते, तथा समयजं यदन्वर्थरहितं समय एव प्रसिद्ध यथौदनस्य प्राभृतिकेति नाम, उभयजं यद्गुणनिष्पन्नं समयप्रसिद्धं च, यथा धर्मव्वजस्य रजोहरणमिति नाम, इहं हि समयप्रसिद्धमन्वर्थयुक्तं, च, तथाहि बाह्ययाभ्यन्तरं रजो हियेत अनेनेति रजोहरणं, तत्र बाह्यरजोऽपहारित्वमस्य सुप्रतीतम्, आन्तररजोऽपहरणसमार्थश्च परमार्थतः संयमयोगाः, तेथां च कारणमिदं धर्मलिङ्गिमिति कारणे कार्योपचाराद्रजोहरणमित्युच्यते, उक्तं च
हरेइ रओ जीवाणं बज्झ अब्भितरं च जं तेणं । रयहरणंति पवुश्चइ कारणकज्नोक्याराओ ||
संयजोगा इत्थं रओहरा तेसि कारणं जेणं । रयहरणं उवयारा भन्नइ तेणं रओ कम्पं ॥
२४०
अनुभयजं यदन्वर्थरहितं समयाप्रसिद्धं च, यथा कस्यापि पुंसः शौर्यक्रौर्यादिगुणासम्भवेनोपचाराभावे सिंह इति नाम, यद्वा देवा एन देयासुरिति व्युत्पत्तिनिमित्तासम्भवे देवदत्त इति नाम । एवं पिण्ड इति वर्णावलीरूपमापिनामगौणादिभेदाश्रुतुर्द्धा, तत्रयदाबहुनांसजातीयानां विजातीयानांवा कठिनद्रव्याणामेकत्र पिण्डने पिण्ड इति नाम प्रचर्त्तते तद्द्रौणं, व्युत्पत्तिनिमित्तस्य वाच्ये विद्यमानत्वात्, यदा तु समयपरिभाषया पानीयेऽपि पिण्ड इति नाम प्रयुज्यते तदा समयजं, लोके हि कठिनद्रव्याणामेकत्र संश्लेषे पिण्ड इति प्रतीतं, न तु द्रव्यद्रव्यसङ्घाते, ततः पिण्डनं पिण्ड इति व्युत्पत्तयर्थाघटनान गौणम्, अथ च समये प्रसिद्धं, तथा च आचाराङ्गे द्वितीये श्रुतस्कन्धे प्रथमे पिण्डैषमाभिधानेऽध्ययने सप्तमोद्देशकसूत्रे 'से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अनुपविट्ठेसमाणे जंपुणपापणंपासेज्जा, तंजहा तिलोदगं तुसोदगं वा' इत्यादि, अत्र पानीयमपि पिण्डशब्देनाभिहितं, ततः पानीये पिण्ड इति नाम समयप्रसिद्धं, न चान्वर्थयुक्त भिति समयजमित्युच्यते, यदा पुनर्भिक्षुर्भिक्षुकी वा भिक्षार्थं प्रविष्टा सती गृहपतिकुले गुडपिण्डमोदनपिण्डवालभते तदा पिण्डशब्दस्तत्र प्रवर्त्तमान उभयजः, समयप्रसिद्धत्वादन्वर्थयुक्त त्वांश्च यदा पुनः कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते नच सरीरावयवसङ्ख्या विवक्षा तदा तदनुभयजं ।। सम्प्रति गाथाक्षराणि विव्रियन्तेयत्पिणंड इति नाम गौणं, यद्वा समयकृतं समय- प्रसिद्धं, यद्वा भव्वेत्तदुभयकृतम्, उभयं गुणः समयश्च तच तदुभयं च तदुभयं तेन तं तदुभयकृतं, समयप्रसिद्ध मन्वर्ययुक्तं चेत्यर्थः, अपिशब्दाघद्राऽनुभयजमन्वथःविकलं समयाप्रसिद्धं च तन्नामपिण्डं ब्रुवत तीर्थकरगण-धराः, अत ऊर्ध्वं स्थापनापिण्डमहं वक्ष्ये ॥ एनामेव गाथां भाष्यकृत्सप्रपञ्चं व्याचिख्यासु प्रथमं गौणं नाम -
मू. (७)
•
गुणनिफन्नं गोणं तं चैव जहत्थमत्थवी बेंति ।
तुं पुन खवणो जलनो तवणो पवनो पईवाय ॥
[भा. ? ] वृ. गुणेन परतन्त्रेण व्युत्पत्तिनिमित्तेन द्रव्यादिना यन्निष्पन्नं नाम तद्गौणं, यश्च (स्य) गुणैर्निष्पन्नं `तद्गुणात्तस्मिन् वस्तु न्यागतमिति “ततजागत” इत्येननाण्प्रत्ययः, तदेव च गौणं नाम 'अर्थविदः' शब्दार्थविदो गथार्थे ब्रुवते, गौणं च नाम त्रिधा, तद्यथा द्रव्यनिमित्तं गुणनिमित्तं क्रियानिमित्तं च, एतच्च प्रागेव भावितं,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International