SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ मूलं-३ वस्तुनि निक्षेपो न सम्यग् विस्तरतोऽवगम्यतेऽवगतो वा विस्मृतिपथमुपगतस्तत्राप्पवश्यं नामस्थापनाद्रव्यभावरूपचतुष्कको निक्षेपः कर्त्तव्य इति प्रदर्शनार्थे चतुष्ककग्रहणं, यत्र तु तथाविधगुरुसम्पदायतः सविस्तरमधिगतोभवतिनाप्यधिगतोविस्मतियमुपगतस्तत्रसविस्तरंनिक्षेपोवक्तव्यइतिन्यायप्रदर्शनार्थे षट्ककग्रहणं, तथा चोक्तं. जत्थ यजंजाणिज्जा निक्खेवं निक्खिवे निरवसेसं। जत्थ वि जाणिज्जा चउक्कयं निक्खिवे तस्य॥ ततश्चैतदत्रोक्तं भवति-यदो षट्को निक्षेपः सम्यगधिगतो भवति अधिगतोऽपि च न विस्मृतस्तदा षट्करूपोनिक्षेपःकर्तव्यः,अन्यथातुनियमतश्चतुष्करूपइति।एवंचनिक्षेपंकृत्वातस्यपिण्डस्यप्ररूपणाकर्त्तव्या, येन पिण्डेनेहाधिकारःस पिण्डतप्ररूपणीय इतिभावार्थः। इदमेवचनामादिभेदोपन्यासेनव्याख्यायाः फलं यदुत यावन्तो विवक्षितशब्दवाच्याः पदार्था घटन्ते तान् सर्वानपि यथास्वरूपं वैविकत्येनोपदश्य येन केनचिन्नामाद्यन्ततमेनप्रयोजनंसयुक्ति पूर्वमधिक्रियते।शेषास्त्वप्राक्रियन्तेतथाचोक्तम्- 'अप्रस्तुतार्थापा. करणात्प्रस्तुतार्थव्यायुरणाञ्च निक्षेपः फलवानि ति, इह 'चतुष्कः, षट्को वा निक्षेपः कर्त्तव्य' इत्युक्तं तत्र नानिर्दिष्टस्वरूपंचतुष्कंषटकंवा निक्षेपंशिष्याःस्वयमेवावगन्तुमीशास्ततोऽवश्यंतत्स्वरूपंनिर्देष्टव्यं, तत्र षट्केनिर्दिष्टेतदन्तर्गतत्वाच्चतुष्कोऽान्निहिष्टोभवति,तत-सएवषटकनिक्षेपोनिर्दिश्यतेइति, मू. (४) कुलए उचउब्भागस्स संभवो छक्कए चउण्हं च। नियमेन संभवो अत्थि छक्कगं निक्खिवे तम्हा॥ वृ.यथा कुलके' चतुःसेतिकाप्रमाणेचतुर्भागस्यसेतिकाप्रमाणस्यसम्भवो-विद्यमानताऽवश्यंभाविनी, एवं षदके निक्षिपे चतुर्णा निक्षेपस्य चतुष्करूपस्य निक्षेपस्य नियमेन-अवश्यंतया सभ्मवोऽस्ति, ततस्तमेव षट्ककमहि निक्षिपामि-षट्करूपमेव निक्षेपं परूपणामि, तस्मिन् प्ररूपिते तस्यापि चतुष्करूपस्य निक्षेपस्य प्ररूपितत्वभावादितिभावार्थः॥ प्रतिज्ञातमेव निर्वाहयतिमू. (५) नाम ठवणापिंडो दव्वे खेत्ते यकालभावे य। एसो खलु पिंडस उ निक्खेवो छव्विहो होइ॥ वृ. 'नाम' ति नामपिण्डः स्थापनापिण्डः 'द्रव्ये' द्रव्यविषयः पिण्डो द्रव्यपिण्डः, द्रव्यस्य पिण्ड इत्यर्थः, तथा क्षेत्रे' क्षेत्रस्यपिण्ड,एवंकालापिण्डोभावपिण्डश्च, एषः' अनन्तरोक्तःखलु पिण्डस्य पिण्डशब्दस्य निक्षेपो भवति ॥ तत्र नामापिण्डस्य व्याख्यानाय स्थापनापिण्डस्य तु सम्बन्धयानाहमू. (६) गोण्णं समयकयं वाजं वाविहवेज्जतदभएणकयं। तं बिंति नामपिंडं ठवणापिंडं अओ वोच्छं॥ वृ. इह यत पिण्ड इति वर्णावलीस्पं नाम सनामापिण्डः, नाम चासौ पिण्डश्च नामपिण्ड इतिव्युत्पत्तेः, नामचचतुर्दा,तद्यथा-गौणसमयजंतद्भयजमनुभयजंच, तत्रगुणादागतंगौणम.अथकोऽसौगुणः? कथं च तत आगतम् ?, उच्यते, इह शब्दस्य व्युत्पत्तिनिमित्तं योऽर्थो यथा ज्वलनस्य दीपनं 'ज्वल दीप्ता' विति वचनात्सगुणःगुणवेहपरतन्नो विवक्षितोनपारिभाषिको रूपादिः, तेनयद्यच्छब्दस्यवस्तुनिप्रवर्त्तमानस्य व्युत्पत्तिनिमित्तंद्रव्यंगुणःक्रियावासगुणइत्यभिधीयते,तत्रद्रव्यंव्युत्पत्तिनिमित्तंश्रृङ्गीदन्तीविषामीत्यादौ, गुणोजातरूपंसुवर्णेस्वादुरसाश्वेतइत्यादौ, क्रियातपनःश्रमणोदीप्रोहिंस्रोज्वलन इत्यादौ,जातिश्चनाम्नो व्युत्पत्तिनिमित्तं न भवति, किन्तु प्रवृत्तिनिमित्तं यथा गोशब्दस्य गोजातिः, तथाहि-गोशब्दस्य गमनक्रिया व्युत्पतिनिमित्तं न गोत्वं गच्छतीति गौरिति व्युत्पत्तेः, केवलमेकार्थसमवायबलाद्गमनक्रियया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy