SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३८ . पिण्डनिर्युक्तिः- मूलसूत्रं अन्वेषणे एषणा - अभिलाषा गवेषणैषणा, एवं ग्रहणैषणा ग्रासैषणाऽपि भावनीये, तत्र गवैषणैषणा उद्गमोत्पादनाविषयेतितद्ग्रहणैनैव गृहीता द्रष्टव्या, ग्रासैषणा त्वभ्यवहरारविषया, ततः संयोजनादिग्रहणेन सौ गृहीष्यते, तस्मादिहपारिशेष्यादेषणाशब्देन ग्रहणैषणागृहीताद्रष्टव्या, ग्रहणैषणाग्रहणेच ग्रहणैषणागता दोषा वेदितव्याः, तथाविवक्षणात, ततोऽयं भावार्थ: उत्पादनादोषानिधानानन्तरं ग्रहणैषणागता दोषाः शङ्कितम्रक्षितादयोऽमिधातव्या, ततः संयोजना वक्तव्या, तत्र संयोजनं संयोजना - गृद्ध्या रसोत्कर्षसम्पादनाय सुकुमारिकादीनां खण्डादिभिः सह मीलनं, सा द्रव्यभावभेदाद् द्विधा, वक्ष्यति च- 'दव्वे भावे संयोजणा य' इत्यादि, ततः प्रमाणं कवलसङ्ख्यालक्षणं वक्तव्यं, चकारः समुञ्चये, स च भिन्नकमत्वात्कारणशब्दानन्तरं द्रष्टव्यः, ततः, ' इंगाल धूम' त्ति अङ्गारदोषो 'धूमदोषश्च तथा भवति तथा वक्त व्यं, तदनन्तरं 'कारण' त्ति यैः कारणैराहारो यतिभिरादीयते यैस्तु न तानि कारणानिचवक्तव्यानि, सूत्रे च विभक्ति लोप आर्षत्वात्, तदेवम 'अष्टविधा' अष्टप्रकारा अष्टमिरर्थाधिकारैः सम्बद्धेति भावार्थः, पिण्डनिर्युक्तिः पिण्डैषणानिर्युक्तिः ॥ स्यादेतद्, एतेऽष्टावप्यर्थाकिराः किं कुतश्चित्सम्बन्धविशेषायाताः उत यथाकथञ्चिद्वक्तव्याः, ? उच्यते, सम्बन्दविशेषादायाताः तथाहिपिण्डैषणाऽध्ययनर्निक्तिर्वक्तुमुपक्रान्ता, पिण्डैषणाऽध्ययनस्य चत्वार्यनुयोगद्वाराणि, तद्यथा - उपक्रमो निक्षेपोऽनुगमो तयश्च, तत्र नामनिप्पन्ने निक्षेपे पिण्डैषणाऽध्ययनमिति नाम, ततः पिण्ड इति अध्ययनमिति च व्याख्येयं, तत्राध्ययनमिति प्रागेवद्रुमपुष्पिकाऽध्ययनेव्याख्यातम्, इहतुपिण्डइति व्याख्येयं, ततएवएषणा, एषणा च गवेषणैषणा ग्रहणैषणा ग्रासैषणा च, गवेषणैषणादयश्च उद्गमादिविधयास्ततस्ते वक्तव्याइत्यष्टौ पिण्डदयोऽर्थाधिकाराः। तत्र प्रथमतः पिण्ड इति व्याख्यायते, व्याख्या च तत्त्वभेदपर्यायः, अतः प्रथमतपिण्डशब्दस्य पर्यायानभिधित्सुराहमू. (२) पिंड निकाय समूहे संपिंडण पिंडणा य समवाए । समुसरण निचय उवचय चए ये जुम्मे य रासी य ॥ वृ. एते सर्वेऽपिसामान्यतः पिण्डाशब्दस्य पर्यायाः, विशेषापेक्षयातु कोऽपिक्वापिरूढः, तत्रपिण्डशब्दो गुडपिण्डादिरूपे सङ्घाते रूढो, निकायशब्दो भिक्षुकादिसङ्घाते, समूहशब्दोमनुष्यादिसमुदाये, संपिण्डनशब्दः सेवादीनां खण्डपाकादेश्च परस्परं सम्यक्संयोगे, पिण्डनाशब्दोऽपि तत्रैव, केवल मीलनमात्रे संयोगे, समवायशब्दो वणिगादीनां सङ्घाते, समवसरणशब्दः तीर्थकृतः सदेवमनुजासुराणां पर्षदि, निचयशब्दः सूकारादिसङ्घाते, उपचयशब्दः पूर्वावस्थात- प्रचुरीभूते सड्वातविशेषे, चयशब्द इष्टिकारचनाविशेषे, युग्मशब्दः पदार्थद्वयसङ्घाते, राशिशब्दः पूगफलादिसमुदाये, तेदवमिहयद्यपिपिण्डादयः शब्दाः लोके प्रतिनियत एव सङ्घातविशेषे रूढाः, तथाऽपि सामान्यतो यद् व्युत्पत्तिनिमित्तं सङ्घातत्वामात्रलक्षणं तत्सर्वेषामप्यंविशिष्टमितिकृत्वा सामान्यतः सर्वे पिण्डादयः शब्दा एकार्यिका उक्ताः, ततो न कश्चिद्दोषः ।। तदेवं पिण्डशब्दस्य पर्यायानभिधाय सम्प्रतिभेदानाचिख्यासुराह मू. (३) पिंडस्स उ निक्खेवो चउक्कओ छक्कओ व कायव्वो । निक्खेवं काऊणं पव्वणा तस्स कायव्वा ॥ वृ. 'पिण्डस्य' प्रागुक्त शब्दार्थस्य तुशब्दः पुनरर्थे, स च निक्षेपशब्दानन्तरं योज्यो, 'निक्षेपो' नामादिन्यासरूपः, पुनश्रुतुष्ककः, षट्कको वा कर्त्तव्यः, तत्र चत्वारः परिमाणमस्येति चतुष्कः, “सङ्ख्याऽतेश्चाशत्तिष्टेः कः” इति कः प्रत्ययः, तो भूयः स्वार्थिककप्रत्ययविधानाञ्चतुष्ककः, एवं षट्ककोऽपि वाच्यः, इह यत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy