________________
२३६
आधनियुक्तिः मूलसूत्रं प्रयत्नपरो मरणाराधनयुक्तः, स एवंविधचन्द्रकवेधं समानयति' करोतीत्यर्थः । अत्र च कथानकं राधावेधे आवश्यकादवसेयमिति। किञ्च-आराधनया युक्तः प्रयत्नपरः सम्यक् कृत्वा सुविहितः कालं पुनश्च उत्कृष्टतः' अतिशयेन सम्यगाराधनां कृत्वा त्रीन भवान् गत्वा निर्वाणं' मोक्षमवश्यं प्रान्पोतीति, एतदुक्तं भवति-यदि परमसमाधानेन सम्यक कालं करोति ततस्तृतीये भवेऽवश्यं सिद्ध्यतीति । आह परः- उत्कृष्टतोऽएभवाभ्यन्तरे सामायिकं प्राप्य नियमात्सिद्ध्यतीति, जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्य सिद्व्यतीत्युक्तं ग्रन्थान्तरे, ततश्च यदुक्तं त्रीन् भवानतीत्य सिद्ध्यतीति तदेतन्नाप्युत्कृष्टं नापि जघन्यंततश्च विरोध इति, उच्यते, अनालीढसिद्धान्तसद्भावेन यत्किश्चिदच्यते, यत्तदुक्तं जघन्यत एकेनैव भवेन सिद्ध्य-तीति तद्वज्रर्षभनाराचसंहननमङ्गीकृत्योक्तं, एतच्च छेवट्टिकासंहननमङ्गीकृत्योच्यते, छेवट्टिकामंहननो हि यद्यतिशयेनाराधनं करोति ततस्तृतीये भवे मोक्षप्रान्पोति, उत्कृष्टशब्दयात्रातिशयार्थे द्रष्टव्यो न तु भवमङ्गीकृत्य, भवाङ्गीकरणे पुनरष्टभिरेवोत्कृष्टतो भवे छेवट्टिकासंहननो सिद्ध्यतीति। मू. (११६३) एसा सामायारी कहिया भे धीरपुरिसपन्नत्ता।
संजमतवड्डगाणं निग्गंथाणं महरिसीणं । मू. (११६४) एयं सामायारिं जुजंता चरणकरणमाउत्ता।
साहू खवंति कम्मं अनेगभवसंचियमनंतं॥ मू. (११६५) एसा अनुग्गहत्था फुडवियडविसुद्धवंजणाइन्ना।
इक्कारसहिं सएहिं एगुणवन्नेहिं सम्मत्ता ॥ नियुक्तिगाथा-८११, भाष्यगाथा-३२२, प्रक्षेपगाथा-३२
मुनि दीपरत्नसागरेण संशोधिता संपादिता ओधनियुक्तिः मूल सूत्रस्य
द्रोणाचार्य विरचिता टीका परिसमाप्ता।
| ४१ द्वितीय मूलसूत्र-ओघनियुक्तिः समाप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org