________________
मूलं-१९५८
र्भवतीति । एवं तावन्मूलगुणोत्तरगुणेषु छलितेनालोचना दातव्या । इदानीं यस्मै आलोचना दीयते तेनाप्यालोचयितव्यमिति. एतदेवप्रदर्शयन्नाह-जातिकुलबलस्पादिषटत्रिशद्रणसमन्वितेनाप्यवश्यं परसाक्षिकी शुद्धिः कर्त्तव्या सुष्ठ्वापिज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति। अत्रोदाहरणं दीयते- यथा कुशलोऽपि वैद्योऽन्यस्मै वैद्याय कथयति आत्मव्याधि, श्रुत्वा च तस्य वैद्यस्य सोऽपि वैद्यो यस्मै कथितं स प्रतिकर्म आरभते । एवं जानताऽपि प्रायश्चित्तविधिमात्मनः सम्यक्करणेन तथाऽपि प्रकुटतरमलोचयितव्यमवश्यमिति। किच्च-सुगमा। 'नहुँ नैव शुद्ध्यति सशल्यः पुरुषः, कथं पुनःशुद्ध्यति?, यथा भणितं धुतरजसा शासने तथा शुद्ध्यति, कथं पुनः शुध्यति अत आह-उद्धृतसर्वशल्यो जीवः शुद्ध्यति धुतक्लेश इति, तस्माद्यद्यपि कथमपि किश्चिदकार्य कृतं तथाऽप्यालोचयितव्यम् । कथं पुनस्तत्कृतं भवतीत्यत आह-'सहसा' अप्रतर्कितमेव प्राणिवधादिकमकार्यं यदि कृतं ततस्तस्मात्प्रतिक्रमितव्यमित्येतत् द्वितीयगाथायां वक्ष्यते, अज्ञानेन च कृतं न तंत्र प्राणी ज्ञातो व्यापादितश्च, भीतेन आत्मभयात् मा भूदयं मां मारयिष्यतीत्यतः प्राणव्यपरोपणं यदि कृतं, प्रेरितेन वा परेण यदि कृतं. व्यसनेन वा आफ्दा यदि कृतं आतङ्कन वावरादयुपसर्गेण यदि कृतं मूढेन वा-रागद्वेषर्यत्कृतं किश्चिदकार्यततः यत्किश्चित्कृतमकार्यतत्पुनः 'नहु' नैव समाचरितुंलब्भाउपलभ्येत यथा तथा प्रतिक्रमितव्यं, एतदुक्तं भवति-किश्चिदकार्यं कृत्वा पुनर्यथा नैव क्रियते तथा तस्य प्रतिक्रमितव्यं, न पुनस्तदकार्य हृदयेन वोढव्यं, सर्वमालोचयितव्यमित्यर्थः । कथं पुनस्तदालोचयितव्यमित्यत आह-तस्य च साधोर्यत्प्रायश्चितं मार्गविदो गुख उपदिशन्ति तत्प्रायश्चितं 'तथा' तेनैव विधिनाऽऽचरितव्यं, कथम् ?,अनवस्थाप्रसङ्गभीतेन सताऽऽलोचयितव्यम्, अनवस्था नाम यद्यकार्यसमाचरणात्प्रायश्चित्तं न दीयते क्रियते वा ततोऽन्योऽपि एवमेव समाचरति यद्त प्राणिव्यपरोपणादौ न किञ्चित्प्रायश्चित्तं भवति ततश्च समाचरणे न कश्चिद्दोष इति, एवमनवस्थाप्रसङ्गभीतेन साधुना प्रायश्चितं समाचरितव्यमिति। इतथालोचयितव्यम्-न तत्करोति दुःखं शस्त्रं नापि विषं नापि दुष्प्रयुक्तः दुःसाधितो वेतालः यन्त्रं वा दुष्प्रयुक्तं सर्पो वा क्रुद्धः प्रमादिनः पुरुषस्य दुःखं करोति यत्करोतिभावशल्यमनुसृतम् 'उत्तमार्थकाले' अनशनकाले, किं करोतीत्यत आह-दुर्लभबोधिकत्वं अनन्तसंसारित्वं चेति, एवन्महादुःखं करोति भावशल्यं अनुद्धृतं, शस्त्रादिदुःखानि पुनरेकभव एव भवन्ति, अतः संयतेन सर्वमालोचयितव्यम्। मू. (१९५९) तो उद्धरंति गारवरहिता मूलं पुनब्भवलयाणं।
मिच्छादसणसल्लं मायासल्लं नियाणं च॥ . उद्धरियसव्वसल्लो आलोइयनिंदिओ गुरुसगासे।
होइ अतिरेगलहुओ ओहरियभरो व्व भारवहो॥ मू. (११६१) उद्धरियसव्वसल्लो भत्तपरिन्नाएँ धणियमाउत्तो।
___ मरणाराहणजुत्तो चंदगवेझं समानेइ॥ मू. (१९६२) आराधनाइ जुत्तो सम्म काऊण सुविहिओ कालं।
उक्कोसं तिन्नि भवे गंतूण लभेज्न निव्वाणं॥ वृ. तत एवमालोच्य गारवरहिता मुनयः ‘उद्धरन्ति' उत्पाटयन्ति मूलं पुनर्भवलतानां येन मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं चोद्धरन्तीति । सुगमा, नवरम् अतिरेकम् अत्यर्थं लघुर्भवति, 'ओहरितभारो' उत्तारितभार: 'भारवहः' गर्दभादिः स यथा लघुर्भवति एवमालोचिते सति कर्मलघुत्वं भवतीति। तश्चैवंविधः स उद्धृतसर्वशल्यः भत्तपरिन्नाए' भक्तप्रत्याख्याने धनिकम्' अत्यर्थम् आयुक्तः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org