________________
मूल- ११३८
वृ. सुगमा । उक्तमायतनद्वारम, इदानीं प्रतिसेवनाद्वाख्याचिख्यासया सम्बन्धप्रतिपादनायाहमू. (१९३९) एवं खलु आययणं निसेवमाणस्स हुज्ज साहुस्स । कंटगपहे व छलणा रागद्दोसे समासज्ज ॥
वृ. ' एवम् उक्तेन न्यायेन आयतनं सेवमानस्यापि साधोभवेत् कण्टकपथ इव छलना, किमासाद्य ?, अत आह- रागद्वेषौ समाश्रित्य । सा च रागद्वेषाभ्यां प्रतिसेवना द्विविधा भवति, एतदेवाहपडिसेवणा य दुविहा मूलगुणे चैव उत्तरगुणे य ।
मू. (१९४०)
मूलगुणे छट्टाणा उत्तरगुणि होइ तिगमाई ॥
वृ. प्रतिसेवनाऽपि द्विविधा मूलगुणे उत्तरगुणे च, तंत्र गूलगुणविषये प्रतिसेवना 'षट्स्थाना' प्राणातिपातादिलक्षणा वक्ष्यति च, उत्तरगुणविषया च प्रतिसेवना भवति त्रिकादिका, तच्चेदं त्रिकम् - उद्गम उत्पादना एषणा च. एतदेव त्रिकमादिर्यस्या उत्तरगुणप्रतिसेवनायाः सा तथाविधा, आदिग्रहणात्समितयो भावना तपो द्विविधमित्येवमादीनि गृह्यन्ते । इदानीं मूलगुणान व्याख्यानयन्नाहहिंसालियचोरिक्के मेहुन्नपरिग्गहे य निसिभत्ते ।
मू. ( ११४१ )
छट्टाणा मूले उग्गमदोसा य इयरंमि ॥
२३३
वृ. हिंसाऽलीकं चौर्यमैथुनं परिग्रहः तथा निशिभक्तं चेति, एवं षट्स्थाना मूलगुणप्रतिसेवना द्रष्टव्या, उन्मदोषादिका चेतरा उत्तरगुणप्रतिसेवना द्रष्टव्या आदिग्रहणादुत्पादनैषणादयः परिगृह्यन्ते । पडिसेवणा मइलणा भंगो य विराहणा य खलणा य ।
मू. (१९४२)
उवघाओ य असोही सवलीकरणं च एगट्टा ||
वृ. प्रतिसेवणा मइलणा भङ्गो विराधना खलना उपघातः अशोधिः शबलीकरणं चेत्येकार्थिकाः शब्दा इति । उक्तं प्रतिसेवनाद्वारम्, इदानीमालोचनाद्वारसंबन्धप्रतिपादनायाह
मू. (११४३)
छट्टाणा तिगठाणा एगतरे दोसु वावि छलिएणं ।
कायव्वा उ विसोही सुद्धा दुक्खक्खयट्टाए ॥
वृ. 'षट्स्थाने' प्राणातिपातादिके' उगमादिके च त्रिके, अनयोरेकतरे द्वयोर्वा 'छलितेन' स्खलितेन सता साधुना कर्त्तव्या विशुद्धिः, किंविशिष्टा ?- 'शुद्धा' निष्कलङ्का दुःखक्षयार्थं कर्त्तव्येति । सा च विशुद्धिरालोचनापूर्विका भवतीतिकृत्वाऽऽलोचनां प्रतिपादयन्नाह
मू. (१९४४)
आलोयणा उ दुविहा मूलगुणे चेव उत्तरगुणे य ।
एक्केक्का चउकन्ना दुवग्ग सिद्धावसाना य ॥
Jain Education International
वृ. आलोचना च द्विविधा मूलगुणालोचना उत्तरगुणालोचना चेति, सा द्विविधाऽप्येकैका - मूलगुणालोचना, उत्तरगुणालोचना च चतुष्कर्णा भवति 'दुवग्ग' त्ति द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य चतुष्कर्णा भवति, एक आचार्यो द्वितीयश्रालोचकः साधुः एवं साधुवर्गे चतुष्कर्णा भवति, साध्वीवर्गेऽपि चतुष्कर्णा भवति, एका प्रवर्त्तिनी द्वितीया तस्या एव या आलोचयति साध्वी, एवं साधुवर्गे साध्वीवर्गे च चतुष्कर्णा भवति, अथवा एकेका मूलगुणे उत्तरगुणे च चतुष्कर्णा द्वयोश्र साधुसाध्वीवर्गयार्मिलितयोरष्टकरण भवति, कथम् ?. आचार्य आत्मद्वितीय, अहवा छकन्ना होज्जा यदा बुड्ढो आयरिओ हवड़ तटा एगस्सवि साहुणीदुगं आलोएड एवं छकन्ना हवति, सव्वहा साहुणीए अप्पबितियाए आलोएव्वं न उएगागिनीएत्ति । एवं तावदुत्सर्गत आचार्याय आलोचयति, तदभोव सर्वदेशेषु निरूपयित्वा गीतार्थायालोचयितव्यं, एवं तावद्या
For Private & Personal Use Only
www.jainelibrary.org