________________
मूलं- १९०८
२२९
कर्मबन्धकारणानि । येऽपि सत्त्वा न व्यापाद्यन्ते तेषामप्यसौ नियमाद्धिंसकः, कथं ?, 'सावज्जो उपयोगेण' सहावद्येन वर्त्तत्त इति सावद्य:- सपाप इत्यर्थः, ततश्र सावद्यो यतः 'प्रयोगेण' कायादिना 'सर्वभावेन' सर्वैः कायवाङ्गनोभिः, अतः अव्यापादयन्नपि व्यापदक एवासौ पुरुषः संपापयोगत्वादिति । यतत्रैवमतःमू. (१९०८) आया चेव अहिंसा आया हिंसत्ति निच्छओ एसो । जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो ||
वृ. आत्मैवाहिंसा आत्मैव हिंसा इत्यंय निश्रय इत्यर्थः । कथमसावहिंसकः कथं वा हिंसकः ? इत्यत आह- 'जो हो' इत्यादि, यो बवति 'अप्रमत्तः ' प्रयत्नवानित्यर्थः स खल्वेवंविधोऽहिंसको भवति, 'हिंसओ इयरो' त्ति 'इतर' प्रमत्तो यः हिंसको भवतीत्ययं परमार्थः । अथवाऽनेनाभिप्रायेणेयं गाथा व्याख्यायते, तत्र नैगमस्य जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो लोके दष्टाः, यदुत जीवोऽनेन हिंसितो - विनाशितः, तथा घटोऽनेन हिंसितो - विनाशितः, ततश्च सर्वत्र हिंसाशब्दानुगमात् जीवेष्वजीवेषु च हिंसा नैगमस्य. अहिंसाऽप्येवमेवेति, संग्रहव्यवहारयोः षट्सु जीवनिकायेषु हिंसा, सङ्गचात्र देशग्राही द्रष्टव्यः सामान्यरूष्य नैगमान्तर्भावी, व्यवहारथ स्थूलविशेषग्राही लोकव्यवहरणशीलक्षश्चायं, तथा चाह-लोको बाहुल्येन षट्स्वेव जीवनिकायेषु हिंसामिच्छतीति, ऋजुसूत्रच प्रत्येकं प्रत्येकं जीवे जीवे हिंसां व्यतिरिक्त मिच्छतीति, शब्दसमभिरूढैवंभूताश्च नया आत्मैवाहिंसा आत्मैव हिंसेति, एतदभिप्रायेणैवाह - 'आया चेव' इत्यादि, आत्मैवा हिंसा आत्मैवं हिंसा इत्यं निश्चयनयाभिप्रायः कुतः ?, यो भवत्प्रमत्तो जीवः स खल्वहिंसक, तिरश्र प्रमत्त, ततश्च स एव हिंसको भवति, तस्मादात्मैवाहिंसा आत्मैव हिंसा अयं निश्चयं परमार्थं इति । इदानीं प्रकारान्तरेण तथाविधपरिणामविशेषाद् हिंसाविशेषं दर्शयन्नाहजोय गं जुड़ हिंसत्थं जो य अन्नभावेणं । अमनो उ जो पउजड़ इत्थ विसेसो महं वृत्तो ॥ हिंसत्थं जुंजतो सुमहं दोसो अनंतरं इयरो । अमनो य अप्पदोसो जोगनिमित्तं च विन्नेओ ॥ रत्तो वा दुट्ठो वा मूढो वा जं पउंजइ पओगं । हिंसावि ताय तम्हा सो हिंसओ हो ||
मू. (१९०९)
मू. (१९१०)
मू. १११)
वृ. यश्च जीवप्रयोगं मनोवाक्कायकर्मभिहिंसार्थं युनिक्ति - प्रयुङ्क्ते यश्चान्यभावेन. एतदुक्तं भवतिलक्ष्यवेधनार्थं काण्ड क्षिप्तं यावताऽन्यस्य मृगादेर्लग्न, ततश्रान्यभावेन यः प्रयोगं प्रयुङ्क्ते तस्यानन्तरोक्ते न पुरुषविशेषेण सह महान् विशेषः । तथा 'अमनस्कथ' मनोरहितः - संमूर्च्छज इत्यर्थः, स च यं प्रयोगंकायादिकं प्रयुङ्क्ते, अ त्र विशेषो महानुक्तः, एतदुक्तं भवति- यो जीवो मनोवाक्कायौहिंसार्थं प्रयोगं प्रयुक्ते तस्य महान कर्मबन्धो भवति, यश्चान्यभावेन प्रयुङ्क्ते तस्याल्पतरः कर्मबन्धः यश्रामनस्कः प्रयोगं प्रयुङ्क्ते तस्याल्पतमः कर्मबन्धः, ततश्रात्र विशेषो महान् दृष्ट इति । एतदेव व्याख्यानयन्नाह - हिंसार्थं प्रयोगं प्रयुञ्जन् सुमहान् भवति. इतर योऽन्यभावेन प्रयुङ्क्ते तस्य मन्दतरो दोषो भवत्यल्पतर इत्यर्थः, तथा 'अमनस्कन' संमूर्च्छनजः प्रयोगं प्रयुञ्जन अल्पतरतमदोषो भवति । अतो 'योगनिमित्तं' योगकाणिकः कर्मबन्धो विज्ञेय इति । किच- 'रक्तः आहाराद्यर्थं सिंहादि:, 'द्विष्ट: ' सर्पादि:, 'मूढ' वैदिकादिः, स एवंविधो रक्तो वा छिटो वा मूढो वा यं 'प्रयोग' कायादिकं प्रयुङ्क्ते तत्र हिंसाऽपि जायते, अपिशब्दादनृतादि चोपजायते, अथवा हिंसाऽप्येवं रक्तादिभावेनोपजायते न तु हिंसामात्रेणेति वक्ष्यति, तस्मात्स हिंसको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org