SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२४ आधनियुक्तिः मूलसूत्रं यदि न संस्तरतिन सरति ग्लानवृद्धादीनां, ततोऽसंस्तरणे सति ग्लानवृद्धादिशेषार्थं तावत्पर्यटन्ति यावत्पर्याप्तं भक्तं ग्लानार्दानां भवतीति । अथवाऽनेन प्रकारण मात्रकग्रहणं संभवतिमू. (१०७४) संसत्तभत्तपानेसु वावि देसेसु मत्तए गहणं। पुव्वं तु भत्तपानं सोहेउ छुहंति इयरेसु॥ वृ. यत्र प्रदेशेषु स्वभावनव संसक्तभक्त पानं सम्भाव्यते, तेषु संसक्तभक्तापानेषु देशेषु सत्सुप्रथम मात्रके ग्रहणं क्रियते, पुनश्च तत्पूर्वमेव भक्त पानं शोधयित्वा इतरेषु प्रतिग्रहकेषु, ततश्चैवं वा मात्रकग्रहणं संभवति । इदानीं चोलपट्टकप्रमाणप्रतिपादनायाहमू. (१०७५) दुगुणो चउम्गुणो वा हत्था चउरंस चोलपट्टो उ। .. थेरजुवाणाणट्टा सण्हे थुल्लंमि य विभासा॥ वृ. द्विगुणश्चतुगुणा वा कृतः सन् यथा हस्तप्रमाणचतुरस्रथ भवति तथा चोलपट्टकः कर्त्तव्यः. कस्यार्थमित्यत आह- 'थेरजवाणाणट्टा' स्थविराणां यूनां चाय कर्त्तव्यः, स्थविराणां द्विहस्तो यूनां च चतुर्हस्त इति भावना, सण्हे थल्लंयि विभास'त्ति. यदि परमयं विशेषः, यदत स्थविराणांश्लक्ष्णोऽसावेव चोलपट्टकः क्रियते यूनां पुनः स्थूल इति किमर्थं पुनरसौ चोलपट्टकः क्रियते?, आह. मू. (१०७६) वेउव्विवाउडे वातिए हिए स्वद्धपजणणे चेव। तेसिं अनुग्नहत्था लिंगुदयट्ठाय पट्टो उ॥ १. यस्य साधोः प्रजननं वैक्रियं भवति विकृतमित्यर्थः, यथा दाक्षिणात्यपुरुषाणां वेण्टार्थ विध्यतेप्रजननं तच्च विकृतं भवति ततश्च तत्प्रच्छादनार्थमनुग्रहाव चोलपट्टः क्रियते, तथाऽप्रावृत्ते कश्चिद् वातिको भवति वातेन तत्प्रजननमूच्छूमं भवंति ततश्च तदनुग्रहायानुज्ञातः, तथा 'हीकः' लज्जालुः कश्चिद्भवति तदर्थं, तथा 'खद्धं ति बृहत्प्रमाणं स्वमानेनैव कस्यचित्प्रजनं भवति ततश्चैतेषामनुग्रहार्थं, तथा लिङ्गोदयार्थं च, कदाचिस्त्रियं दृष्ट्वा लिङ्गस्योदया भवति, अथवा तस्या एव स्त्रिया लिङ्गं दृष्टा उदयः स्वलिङ्गस्य भवति-तं प्रत्यमिलाषो भवतीत्यर्थः, ततश्चैतेषामनुग्रहार्थं चोलपट्टकग्रहणमुपदिष्टमिति । उक्त आधापधिःमू. (१०७७) संस्थारुत्तरपट्टो अड्डाइज्जा य आयया इत्था। दोण्हंपि य वित्थारो हत्थो चुरंगुलं चेव ॥ वृ. संस्तारकस्तथोत्तरपट्टकच. एतौ द्वायप्येकैकोऽर्द्धतृतीयहस्ती दैर्येण प्रमाणतो भवति. तथा द्वयोरप्यनयोर्विस्तारो हस्तश्चत्वारि चाङ्गुलानि भवतीति । आह-किं पुनरभिः प्रयोजनं संस्तारकादिभिः? मू. (१०७८) पाणादिरेणुसारक्खणट्ठया होंति पट्टगा चउरो। छप्पड्यरक्खणट्टा तत्थुवरि खोमियं कुज्जा ।। वृ. प्राणिरेणुसंरक्षणार्थं पट्टका गृह्यन्ते. प्राणिनः पृथिव्यादयः रेणुश्च-स्वतः शरीर लगति अतस्तद्रक्षणार्थं पट्टकग३हणं, ते चत्वारा भवन्ति, द्वौ संस्तारकोत्तरपट्टकावुक्तावेव, तृतीया रजोहरणबाह्यनिषद्यापट्टकः पूर्वोक्त एव, चतुर्थः क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाणकः, एते चत्वारोऽपि प्राणिसंरक्षणार्थं गृह्यन्तं, तत्र षट्पदीरक्षणार्थं तस्य कम्बलीसंस्तारकस्योपरि खोमिय-संस्तारक पट्टकं कुर्याद येन शरीरकम्बलीयमयसंस्तारकसंघर्षेण न षट्पद्यो विराध्यन्त इति। मू. (१०७९) रयहरणपट्टमेत्ता अदसागा किंचि वा समतिरेगा। __ एकगुणा उनिसेज्जा इत्थपमाणा सपच्छागा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy