________________
मूलं- १०६७
वर्षाकालऋतुबद्दकालयोर्यदाचार्यादिप्रायोग्यद्रव्य
किं प्रयोजनमित्यत आह- दोसुवि' द्वयोरपि वर्षावर्षयोः ग्रहणं कियते अयमधिकारस्तस्य मात्रकस्येति इदं प्रयोजनमित्यर्थः । अथवेदमन्यत्प्रमाणमुच्यतेसूवोदणस्स भरिडं दुगाउअद्वाणमागओ साहू । मुंज एगट्टा ये किर मत्तयपमाणं ॥
मू. (१०६८)
वृ. सूपस्य च ओदमस्य च भृतं द्विगव्यूताध्वानादीगत- साधुभङ्क्ते यदेकस्मिन् स्थाने तदेतत् किल मात्रकस्य द्वितीयं प्रमाणमुक्त आह- कस्मादुक्त प्रमाणाल्लघुतरं न क्रियते ?, उच्यते, लघुतरे दोषा भवन्तिमू. (१०६९) संपाइमतसपाणा धूलिसरिक्खे य परिगलंतंभि । पुढविदगअगणिमारुयउद्धंसणखिंसणाडहरे ||
२२३
वृ. अतिलघुनि मात्रके च आहारेण भृते सति यदि तदाच्छादनमुत्क्षिप्यते ततः शुषिरेण संपाति-मत्रसप्राणा धूलिश्च सरजस्कः-चा (क्षा) : एते प्रविशन्ति तथा परिगलमाने च तद्रव्यसंपातेन पृथिव्युदकाग्निमारुतानां वधः संभाव्यते. उद्धरणो-वधा भवति, तथा 'खिसणा' परिभवो भवतीति यदुतातेन प्रवजितेन अतृप्तेनैतावद्भहीतं येनैतद्भक्त मितश्रेतश्च विक्षिपन प्रयातीति, ततश्र डहरके एते दोषा यतो भवन्तीति ततः पूर्वोक्त प्रमाणयुक्त मेवे ग्राह्यमिति । इदानीमाचार्यादि प्रायोग्यग्रहणनिमित्तं मात्रकस्यानुज्ञाआयरिए य गिलाणे पाहुणए दुल्लभे सहसदाने । संसत्तभत्तपामे मत्तगपरिभोग अणुनाओ ॥
मू. (१०७०)
वृ. आचार्य प्रायोग्यग्रहण तथा ग्लानप्राधूर्णकप्रायोग्यग्रहणे तथा दुर्लभधृतादिद्रव्यग्र हणे सहसादानग्रहणे तथा संसक्त भक्त पानग्रहणे च मात्रकस्य परिभोगोऽनुज्ञातो नान्यदेति, तस्य च मात्रकस्यानेन क्रमेण परिभोगः कर्त्तव्यः, यद्याचार्यस्य तस्मिन् क्षेत्रे ध्रुवलम्भः प्रायोग्यस्य तदा एक एव सङ्ग्राटकः प्रायोग्यं गृह्याति न सर्वे । तत्र चैकस्य सङ्घाटकस्याचार्यप्रायोग्यं गृह्यतः को विधिरित्यत आहमू. (१०७१) एक्कमि उ पाउग्गं गुरुणो बितिओग्गहे य पडिकुट्टे ।
गिहण संधाडेगो धुवलंभे सेस उभयंपि ॥
वृ. एकस्मिन् प्रतिग्रहके प्रायोग्यं गुरोर्गृह्णाति 'बितिउग्गहे य'त्ति द्वितीयप्रतिगहके' 'पडिकुटुं' ति प्रतिषिद्धं यत्संसक्तादि तद्ह्णाति, अथवा 'पडिकुट्टं' विरुद्धं यत्काञ्जिकाअम्बिलादि तद्वितीयप्रतिमग्रहके गृह्णाति एक एव सङ्गाटक- । कदा पुनरयं विधिरित्यत आह- 'ध्रुवलम्भे' ध्रुवे- अवश्यम्भाविनि प्रायोग्यलाभ सत्ययं विधिः, 'सेस उभयंपि 'ति शेषा-येऽन्ये सङ्घाटकास्ते आत्मार्थमुमयमपि भक्तं पानकं च गृह्यन्ति, एकः पानकमेकस्मिन् प्रतिग्रहके गृह्याति द्वितीयस्तु भक्तं गृह्याति, एवं सर्वेऽपि सङ्घाटका भिक्षामन्टन्तीति, ततश्रवं मात्रकग्रहणं न संजातमिति । अथ ध्रुवलम्भः प्रायोग्यस्य न तस्मिन् क्षेत्रे ततः को विधि: ? मू. (१०७२ ) . असई लाभ पुन मत्त य सव्वे गुरुण गेण्हति ।
एसेव कमो नियमा गिलाणसेहाइएसुंपि ॥
वृ. असति लम्भे पुनः प्रायोग्यस्य सर्व एव सड्वाटका मात्रकेषु गुरोः प्रायोग्यं गृह्यान्ति, यतो न ज्ञायते कः किंचिल्लप्स्यते आहोश्रिन्नेत्यतां गृह्यान्ति, एष एव क्रमो नियमत एव ग्लानशिष्यकादिष्वपीति । मू. (१०७३) दुल्लभदव्वं व सिया घयाड़ तं मत्तएस गेण्हति ।
लदेवि उपज्जत्ते असंथरे सेसगट्टाए ।
वृ. दुर्लभं वा द्रव्यं स्याद् घृतादिन्मात्रकेषु गृह्यन्ति । तथा लब्धेऽपि भक्ते पर्याप्त आत्मार्थ तथाऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org