________________
मूलं-१०५६
पायाहिणं करतं मझे चउरंगुले कमइ॥ वृ. 'मान' प्रमाणं रजस्त्राणस्य 'भाजनप्रमाणेन पात्रकमानेन भवति, एतदुक्तं भवति-पात्रकानुरूपं रजस्त्राणंभवति, तच्च रजस्त्राणं पात्रकस्य कथं दीयत? अत आह-प्रदक्षिणां कुर्वाणं सत्तिर्यग दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्गुलानि क्रामति' गच्छति प्रदक्षिणां कुर्वाणमिति। इदानीं कल्पप्रमाणप्रमाणप्रतिपादनायाहमू. (१०५७) . मूसयरजउक्केरे वासे सिण्हा रए य रक्खट्टा।
होति गुणा रयताणे पादे पाद य एक्ककं ॥ व. तच्च रजस्त्राणं दीयते भूषिकरजउत्केरसंरक्षणार्थे, वर्षोदकसंरक्षणार्थं, सिला अवश्यायस्तत्संरक्षणार्थे, भवन्ति गुणा रजस्त्राणस्यैते, तच्च पात्रे पात्रे चैकेकं भवति।
इदानी कल्पप्रमाणप्रमाण-प्रतिपादनायाहमू. (१०५८) कप्पा आयपमाणा अड्डाइज्जा उ वित्थडा हत्था।
दो चेव सोत्तिया उन्निओ य तइओ मुणेयन्यो। वृ. कल्पा आत्मप्रमाणाः, एतदुक्तं भवति-यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमर्द्धतृतीयांस्तु विस्तृता हस्तान् तत्र द्वौ सूत्रिको भवतः ऊर्णिकथ तृतीयो विज्ञेयः।
इदानीं तत्प्रयोजनप्रतिपादनायाहम. (१०५९) तणगहणानलसेवा निवारणा धम्मसुक्कझाणट्टा ।
- दिटुं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥ · वृ. तृणग्रहणनिवारणार्थं गृह्यन्ते, अनलः- अग्निस्तत्सेवानिवारणार्थं च, एतदुक्तं भवति-कल्पाग्रहणे तृणग्रहणमग्निसेवनंचभवति, तन्निवारणार्थंकल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थंकल्पग्रहणं भवति, एतदुक्तं भवति-शीतादिना बाद्यमानो धर्मशुक्ले ध्यान ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्याति, अत एवमर्थं दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थं मरणार्थ मृतस्योपरि दीयते कल्पः एतदर्थं च च ग्रहणमिति । इदानीं रजोहरणवरूपप्रतिपादनायाहमू. (१०६०) घनं मूले थिरं मझे, अग्गे मद्दवजुत्तया।
एगंगिय अझुसिरं, पोरायामं तिपासियं ।। वृ. मूलदण्डपर्यन्ते. 'घन' निबिडं भवति ‘मध्ये' मध्यप्रदेशे स्थिरं कर्त्तव्यम ‘अग्गे' दसिकापर्यन्ते 'मार्दवयुक्तं' मृदुकर्त्तव्यम्, एकाङ्किकं' तज्जातदसिकं सदसिकाकम्बलीखण्डनिष्पादितमित्यर्थः । 'अन्झुसिरं' अग्गंथिला दशिका निषद्या च यस्य तदशुषिरम्, 'पोरायामंति अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावमन्मानं शुषिरं भवति तदापूरकं कर्त्तव्यं, दण्डिकायुक्ता निषधा यथा तावन्मानं पूरयति तथा कर्तव्यम. 'त्रिपासितं' त्रीणि वेष्टनानि दवरकेन दत्त्वा पासितं पाशबन्धनेन । किञ्च-. मू. (१०६१) अप्पोल्लं मिउ पम्हं च, पडिपुन्नं हत्थपूरिमं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गह।
भा. ३२२] वृ. अमुमेव श्लोकं भाष्यकारो व्याचष्टे - अप्पोल्लं' दृढवेष्टनाद घनवेष्टनात कारणात. मृद पक्ष्म च कर्त्तव्यं मृदूनिदाशिकापक्ष्माणि क्रियन्ते। प्रतिपूर्ण' सद् बाह्येन निषद्याद्वयेन युक्तं सत हस्तं पूरयति यथा तथा कर्त्तव्यम । तथा रत्निप्रमाणमात्र' यथा दण्डो हस्तप्रमाणो भवति तथा कर्त्तव्यम् । 'कुज्जा पोरपरिग्गहंति पारम-अङ्गुष्ठपर्व तस्मिन्नङ्गुष्ठपर्वणि लग्नया प्रदेशिन्या यदभवति छिद्रं तद्यथा पूर्यते तेन दण्डकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org