________________
मुलं- ९९०
૨૬o
कालः, 'भीतः ' त्रस्तो वा यदि भवति तथाऽपि व्याहन्यते, क्षुते वा व्याहन्यते, छिनत्ति वा यदि मार्जारश्वादिस्तिर्यक् छिन्दन् व्रजति ततश्रैभिरनन्तरोदितैः कालस्य वधो भङ्गो भवतति ।
मू. (९९१)
आगम इरियावहिया मंगल आवेयणं तु मरुनायं । सव्वेहिवि पट्टविएहि पच्छा करणं अकरणं वा ॥
वृ. आगत्य च गुरुसमीपमीर्यापथिकां प्रतिक्रामति. कायोत्सर्गं चाष्टोच्छ्वासं पञ्चनमस्कारं चिन्तयति, तेनैव चोत्सारयति, मङ्गलमिति पञ्चनमस्कार उच्यते, तत ईर्यापथिका प्रतिक्रम्य गुरोः 'आवेदयति' निवेदयति कालमित्यर्थः । अत्र मरुओ-बंभणो तेनैव ज्ञातं दृष्टान्तः, तंजहा - कम्हिइ पट्टणे धिज्जायाणं राइणा दिन्नं, तेसिं च घोसावियं जो सामन्नो सो गेण्हड आगंतूणं भागं एत्थ, एवं हक्कारिए जो आगतो तेन लदो भागो, जो पुन गामाई तो सो चुक्को, एवं साहूवि दंडधारिणा घोसिए जे उवउत्ता ठिया निवेदिए य काले जेहिं सज्झाओ पट्टविओ ताणं स जाओ दिज्जड़, जे पुन विकहादिणा दिया ताणं सज्झाओ दिज्जइ, जे पुन विकहादिणा ठिया ताणं सजझायकरणं न दिज्जइ । एतदेवाह सर्वः साधुभिः स्वाध्याये प्रस्थापिते सति पथा- तेभ्यः स्वाध्यायकरणं दीयते, ये पुनः कालग्रहणवेलायामुपयुक्ता न स्थिताः न स्वाध्यायप्रस्थापनवेलायां सन्निहिता भूतास्तेभ्य . स्वाध्यायकरणं न दीयते । इदानिं मरुककथानकम्
मू. (९९२)
सन्निहियाण वडारो पट्टविय पमाय नो दए कालं । बाहिठिए पडियर पविसइ ताहेव दंडधरों ॥
वृ. सन्निहितानां त्रैविद्यब्राह्मणानां 'वडारो' वण्टकः आकरणं आह्वानं यथासन्निहितानां, ये तु नागतास्तेषां न वण्टको विभागो जातः, एवमत्रापि 'पट्टविय'त्ति स्वाध्यायपयस्थापनं यैः कृतं तेभ्यो दीयते स्वाध्यायः, ये पुनः प्रमादिनस्तेभ्यो न दीयते काल इति, काले गृहीते स्वाध्यायो भवति, पुनश्च निवेदिते सति काले पुनर्बहिरन्यः प्रतिजागरकः प्रेष्यते, पुनश्च तत्र बहिः स्थिते प्रतिजागरके सति ततो दण्डधारी प्रविशतीति ।
मू. (९९३)
Jain Education International
पट्टविय बंदिए या ताहे पुच्छेइ किं सुयं भंते ! । तेवि य कहंति सव्वं जं जेन सुयं व दिट्टं वा ॥
वृ. पुनश्चासौ प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा साधून पृच्छति दण्डधारी, यदुत हे भदन्त ! भवतां मध्ये केन किं श्रुतं ?. तेऽपि च साधवः कथयन्ति सर्वं यद्येन श्रुतं गर्जितादि दृष्टं वा कपिमुखादि । पुनश्च तत्र केषाञ्चिद्गर्जितादिशङ्का भवति ततश्र को विधिरित्यत आह
मू. (९९४)
एक्कस्स दोण्ह स संकियंमि कीरइ न कीरए तिन्हं ।
सगणंमि संकिए परगणंमि गंतुं न पुच्छंति ॥
वृ. एकस्य गर्जितादिशङ्किते क्रियते स्वाध्यायः, द्वयोर्वा, त्रयाणां पुनर्गर्जिताद्याशङ्कायां न क्रियते स्वा ध्यायः, एवं यदि स्वगणे शङ्का भवति ततश्चैवंविधायां स्वगणे शङ्कायां सत्यां 'परगणे' अन्यगच्छे गत्वा न पृच्छन्ति, किं कारणं ?, यत इह कदाचित्स कालग्राहकः साधू रुधिरादिनाऽनायुक्त आसीत् ततश्च देवता कालं शोधयितुं न ददाति तत्र तु परगणे नैवं. अथवा परगण एव कदाचिदनायुक्तः कचिद्भवति इह तु नैवं, तस्मात्परगणो न प्रमाणमिति । इदानीं यदुक्त मासीत् 'कालचतुष्के नानात्वं वक्ष्यामः' तत्प्रदर्शयन्नाह - मू. (९९५) कालचउक्के नाणत्तयं तु पादोसियंमि सव्वेवि । समयं पट्टवयंती सेसेसु समं व विसमं वा ॥
For Private & Personal Use Only
www.jainelibrary.org