SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आधनियुक्तिः मूलसूत्र तहेव भमति । इदानीं स गृह्णन् कालं यद्यवं गृह्णाति ततो व्याहन्यते, कथमित्यत आह. मू. (९८७) भासंतमूढसकियइंइदयविसए य होइ अमणुन्ने । बिंदू य छीयऽपरिणय सगणे वा संकियं तिहं । वृ. भाषमाणः ओष्ठसधारेण पठन यदि कालं गृह्णाति ततो व्याहन्यते कालः, मूढो दिशि अध्ययने वा यदि भवति ततो व्याहन्यते कालः. शङ्किता वा-न जानाति किं मया द्रुमपुष्पिका पठिता न वेत्येवंविधायां शङ्कायांच्याहन्यते कालः, इन्द्रियविषयाथ अमनोज्ञाः' अशोभनाः शब्दादयजो यदि भवन्ति ततो व्याहन्यत कालः, सोइंदिए छिंद भिंद मारेह विस्सरं बालाईणं रोवणं वा स्वंवा पेच्छति पिसायाईणं बीहावणयं, गंधे य दुरभिगंधे, रसोवि तत्थेव, जत्थ गंधो तत्थ रसो, फासो बिंदुलिट्ठपहाराई, एवमेतेष्वमनोज्ञेषु विषयेषु सत्सुव्याघातो भवति, तथा बिन्दर्यधुपरि पतति शरीरस्योपधेर्वा कालमण्डलके वा ततो व्याहन्यते, तथा क्षुतं यदि भवति ततो व्याहन्यते, 'अपरिणत' इति कालग्रहणभावोऽपगतोऽन्यचित्तो वा जातस्ततश्च व्याहन्यते कालः. तथा शङ्कितेनापि गर्जितादिना व्याहन्यते कालः, कथं ?, यद्येकस्य सांधोगर्जितादिशङ्का भवति ततो नव्याहन्यते कालः, द्वयोरपि शङ्किते न भज्यते कालः, त्रयाणां तु यदि शङ्का गर्जितादिजनिता भवति ततो व्याहन्यते, तच्च 'स्वगणे' स्वगच्छे त्रयाणां यदि शङ्कितं भवति. न परगणे, ततो व्याहन्यते। इदानीमस्या एव गाथाया भाष्यकारः किञ्चिद्व्याख्यानयन्नाहमू. (९८८) मूढो व दिसज्झयणे भासंतो वावि गिण्हइ न सुज्झे। अन्नं च दिसज्झयणं सदंकतोऽनिट्ठविसयं वा॥ भा. ३०९] वृ. मूढो यदा दिशि भवति अध्ययने वा तदा व्याहन्यते, भाषमाणो वा ओष्ठसञ्चारेण यदि गृह्णाति कालं ततो नशुद्ध्यति, अन्यां वा दिशं संक्रान्तो मोहात्, अध्ययनं वाऽन्यत् सङ्क्रांतं द्रुमपुष्पिकांमुक्त्वा सामन्नपुव्वए गओ उत्तराए वा दिसाए दिक्खिणं गतो, यद्वाऽन्यां दिशंशङ्कमानः अन्यद्वाऽध्ययनं शङ्कमानो यदा भवति तदा न शुद्धयति, 'अनिष्टे' अशोभने वा शब्दादिविषयसन्निधाने व्याहन्यते कालः, ततो आवस्सियंकाऊणनीसरति कालमंडलाआ, एवं गृहीतेऽपिकाले यदि कालमण्डलकान्निर्गच्छन्नावश्यकादि न करोति ततो व्याहन्यत एव काल इति। किञ्चमू. (९८९) जो वच्चंतमि विहीं आगच्छंतमि होइ सोचेव। .. जं एत्थं नाणत्तं तमहं वुच्छं समासेणं॥ वृ. य एव प्रथमं वसतेव्रजतो विधिरुक्तस्तद्यथा-यदि कविहसियं वा उक्का वा पडति गज्जति वा, एवमाईहिं उवधाओ गहियस्सवि कालस्य होइ आगच्छंतस्स वसहिं, ततश्च यो विधिव्रजतः कालभूमावुक्तः आगच्छतोऽपि पुनर्वसतौ स एव विधिर्भवति, यत्पुनरत्र वसती प्रविशतो नानात्वं भेदस्तदहं नानात्वं वक्ष्ये समासतः' संक्षेपेण । इदानी नानात्वं प्रतिपादयन्नाह- . मू. (९९०) निसीहिया नमुक्कारं आसज्जावडपडणजोडक्खे। .. . अपमज्जियभीए वा छीए छिन्नेव कालवहो॥ _ वृ. कालं गृहीत्वा गुरुसकाश प्रविशन यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोक्कार' नमो खमासमणाणं इत्येवं यदि न प्रविशन् भणति ततो गृहीतोऽपि कालो व्याहन्यते. तथा आसज्जासज्जत्येवं तु यदि न करोति ततो व्याहन्यते गृहीतोऽपि, तथा साधोः कस्यचिदावडणे-आभिडणे कालो व्याहन्यते, पतनं लेष्टादेरात्मनो वा, ज्योतिष्कस्पर्श वा व्याहृन्यते, तथा यदि प्रमार्जयन न प्रविशति ततश्च व्याहन्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy