________________
२०८
ओधनियुक्तिः मूलसून एवमेभियाघातो भवति। तथा इंदिय'त्ति श्रवणेन्द्रियादीनामिन्द्रियाणां ये विषयास्ते अननुकूला भवन्ति ततो नगृह्यते. एतदक्तं भवति-यदि छिन्धि भिन्धीत्येवमादिश्रृण्वन्तिशब्दततो निवर्त्तते. एवं गन्धश्चाशुभो यदि भवति, यत्र गन्धस्तत्र रस इति. विरूपं पश्यन्ति रूपं किश्चिद, एवं सर्वत्र योजनीयं ततो निर्गच्छन्ति। तथा दिग्मोहश्च यदि भवति ततो न गृह्यते, तारकाच यदि पतन्ति वर्षणं वा यदि भवति तत एभिरनन्तरोक्त वर्याघातैः कालो नगृह्यते, अस्वाध्यायिकं च यदि भवति, तथा यदि पुनव्रजतां क्षुतं ज्योतिर्वाअग्निः उद्योतो वा भवति ततो निवर्तन्ते, यदा तु पुनरुक्त लक्षणो व्याघातो न भवति तदा निव्याघाते सति द्वावेव तिष्ठतो दिशो निरूपयन्तौ क्षणमात्रं । तथा एभिश्च कालभूमौ गतानामुपघातो भवति-यदि तत्र कालमण्डलके गौरुपविष्टः, आदिग्रहणान्महिषादि उपविष्टो भवति ततो व्याघातः, कदाचिद्वा तस्या कालभूमौ संसर्पगाः' पिपीलिकादय उत्तिष्ठेरन् ततश्च व्याघातः, कदाचिद्वा कपिहसितं-विरलवानरमुखहसितं भवति, अथवा कपिहसितं-उदित्तयं वा दीसइ जलं वा विद्यत वा भवति, उल्कापातो वा भवति. गर्जितध्वनिर्वा श्रूयते, एभिः सर्वैयाघातः कालस्य, न गृह्यत इत्यर्थः । मू. (९८०) सज्झायमचितत्ता कणगं दट्टण तो नियत्तति ।
वेलाए दंडधारी मा बोलं गंडए उवमा॥ व.एवं ते कालवेलानिरूपणार्थं निर्गताः स्वाध्यायमकुर्वाणा एकाग्राः कालवेलां निरूपयन्ति, अथ तत्र कनकं पश्यन्ति ततः प्रतिनिवर्तन्ते, कनगपरिमाणंच वक्ष्यति "तिपंचसत्तेव घिसिसिरवास"इत्येवमादिना, अथ तन्न वर्तते तदा कालग्रहणवेलायां जातायां दण्डधारीप्रविश्य गुरुसमीपे कथयति, यदुत कालग्रहणवेला वर्तते मा बोलं कुरुत अल्पशब्दैरवहितैश्च भवतिव्यं, अत्र च गण्डकदृष्टान्तः, यथा हि गण्डकः कस्मिंश्चि
कारणे आपन्ने उत्कुरुटिकायामारुह्य घोषयति यामे-इदं प्रत्यूषसि कर्त्तव्यं, एवमसावपि दण्डधारीभणति यदुत कालग्रहणवेला वर्तते ततश्च भवद्भिरपि गर्जितादिषूपयुक्तैर्भवितव्यमिति। मू. (९८१) आघोसिए बहहिं सुयंमि सेसेसु निवडइ दंडो।
अह तं बहूहिं न सुयं दंडिज्जइ गंडओ ताहे ॥ वृ. एवमाघोषिते सति दण्डधारिणा बहुभिश्च श्रुतं, शेषाश्च स्तोकास्तैर्न श्रुतं ततश्च तेषामुपरि दण्डो निपतति-सूत्रार्थकरणं नानुज्ञायते, अथेदृशं तदा घोषितं यद्बहुभिनं श्रुतं स्तोकैः श्रुतं ततश्च तस्यैव दण्डधारिणो निपतति-तस्यैव स्वाध्यायजनरोधः क्रियते. कथं गण्डकस्येव ?. यथा गण्डटकेनाघोषिते बहुभिामणीकैः श्रुतं सति यः स्तोर्न श्रुतं ते दण्ड्यन्ते, अथाघोषिते स्तोकः श्रुतं बहुभिर्न श्रुतं ततो गण्डके एव दण्डो निपततीति। मू. (९८२) कालो सञ्झा य तहा दोवि समप्पंति जह समं चेव।
तह तं तुलंति कालं चरिमादिसंवा असञ्झागं॥ वृतौ च प्रत्युपेक्षकों कालः सन्ध्या च यथा द्वे अपि समकमव समाप्ति व्रजतस्तथा तं कालं तुलयतः, एतदक्तं भवति-यथा कालसमाप्तिर्भवति सन्ध्या च समाप्तिं याति तथा तुलयतः प्रत्युपेक्षको, ‘चरिमदिसं वा असम्झागं'ति चरिमा-पश्चिमा दिग् 'असन्ध्या' विगतसन्ध्या भवति तथा कालच समाप्यते तथा गृह्णन्ति । इदानीं किंविशिष्टेन पुनः कालः प्रतिजागरणीयः ? इत्यत आह. मू. (९८३) पियधम्मो दढधम्मो संविग्गो चेवऽवज्जभीरू य।
खेयन्नो य अभीरू कालं पडिलेहए साहू ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org