________________
२०६
ओघनियुक्तिः मूलसूत्र वृ. पुनश्च यस्य साधोर्यथैव प्रत्युपेक्षणा भवति 'कृता' परिनिष्ठता स तथैव पठति परिवर्त्तयति वागुणयति वा पूर्वपठितं प्रयतः प्रयत्नेन करोति चान्यसाधुना समभ्यर्थितः सन् व्यापारं-किश्चिदितिकर्मयोग, यदिवाऽन्य व्यापार तर्णनादि करोति। मू. (९६८) चउभागवसेसाए चरिमाए पडिक्कमित्तु कालस्स।
उच्चारे पासवणे ठाणे चउवीसई पेहे॥ मू. (९६९) अहियासिया उअंतो आसन्ने मज्झि तह य दरे य।
तिन्नेव अनहियासी अंतो छच्छच्च बाहिरओ॥ . मू. (९७०) एवम य पासवणे बारस चउवीसइंतु पेहिता।
कालस्सवि तिन्नि भवे अह सूरो अस्थमुवयाई ।। वृ. एवं स्वाध्यायादि कृत्वा पुनश्चतुर्भागावशेषायां चरमपारुष्यांप्रतिक्रम्य कालस्य ततः स्थण्डिलानि प्रत्युपक्ष्यन्ते, किमर्थम?. उच्चारार्थ तथा प्रश्रवणार्थं चस्थानानि चतुर्विशतिपरिमाणानि प्रत्युपेक्षन्ते। इदानी क्वताःस्थण्डिलभूमयः प्रत्युपेक्षणीयाः? इत्यह आह-अधिकासिका भूमयो याः सञ्जावेगेनापीडितः सुखेनैव गन्तुं शक्नोति ता एवंविधाः 'अन्तः' मध्ये गणस्य तिस्रः प्रत्युपेक्षीयाः कथम्?, एका स्थण्डिलभूणिर्वसतेरासन्ना मध्येऽन्या अन्या दूरे, एवमेतास्तिस्रः स्थण्डिलभूमयो भवन्ति, तथाऽन्यास्तिस्र एव तस्मिन्नेवा
ङ्गणे आसन्नतरे भवन्ति अनधिकासिकाः-सञ्जावेगोत्पीडितः सन् या याति ताः तिस एव भवन्ति, एका वसतेरासन्नतरे प्रदेशेऽन्या मध्येऽन्या दूरे एवमेता अन्तः-मध्येऽङ्गणस्य षड् भवन्ति, तथा षट् च बाह्यत इति-अङ्गणस्य बहिः षडेवमेव भवन्ति। एवमेव प्रश्रवणे' कायिकायांद्वादशभूमयः प्रत्युपेक्ष्यन्ते, षडङ्गणमध्ये षट् चाङ्गणबाह्यत एव, एताः सर्वा एव उच्चारकायिकाभूमीश्चतुविंशतिं प्रत्युपेक्ष्य पुनश्च कालस्यापि ग्रहणे तिस एव भूमयः प्रत्युपेक्षणीया भवन्ति, ताच कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते, एवमनेन प्रकारेण कृतेन अथ सूर्यो यथाऽस्तमुपयाति तथा कर्त्तव्यं । मू. (९७१) जइ पुन निव्वाघाओ आवासं तो करेंति सव्वेवि।
सड्डाइकहणवाघायताए पच्छा गुरू ठति॥ वृ. एवं सूर्यास्तमयानन्तरं यदि निर्व्याघातो गुरुः-क्षणिक आस्ते ततः सर्व एवाऽऽवश्यं प्रतिक्रमणं . कुर्वन्ति. अथ श्राद्धधर्मकथादिना व्याघातो गुरोर्जातः-अक्षणिकत्वं ततः पश्चाद्गुरुरावश्यकभूमौ संतिष्ठन्ते। मू. (९७२) सेसा उ जहासत्ती आपुच्छित्ताण ठंति सट्टाणे।
. सुत्तत्थझरणहेडं आयरिऍ ठियंमि देवसियं॥ वृ.शेषास्तु साधवो यथाशक्त्याऽऽपूच्छयगुरुं स्वस्थाने यथारत्नाधिकतयाऽऽवश्यकभूमा तिष्ठन्ति. किमर्थं ?, सूत्रार्थक्षरणहेतोः सूत्रार्थगुणनानिमित्तं तस्यामावश्यकभूमौ कायोत्सर्गेण तिष्ठन्ति, तत्र केचिदेवं भणन्त्याचार्याः-यद्त ये साधवः सामायिकसूत्रं पठित्वा कायोत्सर्गेण तिष्ठन्ति, कायोत्सर्गस्थिताथ ग्रन्थार्थान् चिन्तयन्तस्तिष्ठन्ति तावद्यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य देवसिकमतिचारं चिन्तयति. तेऽपि गुरौ तथास्थिते तूष्णींभावेन कायोत्सर्गस्था एव देवसिकमतिचारं चितयन्ति । अन्ये त्वाचार्या एवं ब्रुवते. यदुतते साधवः सूत्रार्थं क्षरन्तस्तावत् तिष्ठन्ति यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रं पठति, तेऽपि कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति, ततः सामायिकं पठित्वाऽतिचार चिन्तयंति, आयरिओ अप्पणो अतियारं द्विगुणं चिंतइ, किंनिमित्तं ?, ते साहुणा बहुगं हिंडिया ततो तत्तिएण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org