SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ मुलं-९६२ पडिलेहणमप्पत्तं नाऊण करेड़ सज्झायं ।। वृ. एवं च साधुः सञ्ज्ञां व्युत्सृज्यागतः पुनः 'चरमपौरुषी' चतुर्थप्रहरं ज्ञात्वा 'अवगाढा' अवतीर्णं, ततः किं करोतीत्यत आह-प्रत्युपेक्षणां करोति, अथासौ चरमपौरुषी नाद्यापि भवति ततोऽप्राप्तां चरमपौरुषी मत्वा स्वाध्यायं तावत्करोति यावच्चरमपौरुषी प्राप्ता । मू. (९६३) मू. (९६४) मू. (९६५) मू. (९६६) वृ. अत्र च प्रत्युपेक्षणायां पूर्वोद्दिष्ट एव विधि:, 'मुखवस्त्रिकादिका प्रत्युप्रेक्षणा' एवमादि:, तथा पात्रस्यापि "सोत्ताइओवउत्तो तल्लेसो" इत्येवमादिः इहापि स एव प्रत्युपेक्षणायां विधिर्द्रष्टव्यः, यदत्र नानात्वं-योऽतिरिक्तो विधिर्भवति तं विधिमहं वक्ष्ये 'समासेन' सङ्क्षेपेण, तत्र ये ते प्रत्युपेक्षकास्ते द्विविधाःभक्तार्थिका भुक्ता: 'इरा य' इतरे च उपवासिकाश्र ज्ञातव्याः, 'द्वयोरपि' भक्तार्थिकाभक्तार्थिकयोः 'आदौ ' प्रथमं प्रत्युपेक्षणा तुल्या इयं वेदितव्या, 'मुहनंतगसषकायं' प्रथमं मुखवस्त्रिकां प्रत्युपेक्षन्ते ततः ‘स्वकार्य’ निजदेहं प्रत्युपेक्षन्ते मुखवस्त्रिकया, इयं तावद्भक्त भक्तार्थिकयोस्तुल्या प्रत्युपेक्षणा, इदानीमभक्तार्थिकानां प्रत्युपेक्षणायां विधिं प्रदर्शयति, तत्र 'ततः' मुखवस्त्रिकाकायप्रत्युपेक्षणानन्तरं 'गुरु' त्ति गुरोः संबन्धिनीमुपधिं प्रत्युपेक्षन्ते, 'परिन्न' त्ति परिज्ञा - प्रत्याख्यानम्, एतदुक्तं भवति - अनशनस्थस्य संबन्धिनीमुपधिं प्रत्युपेक्षन्ते तथा शैक्षकः- अभिनवप्रव्रजितः शिक्षणार्थं अर्पितः तदीयामुपि तस्यैवाग्रतः प्रत्युपेक्षंते, आदिग्रहणात् वृद्धादिसंबंधिनीमुपधिं प्रत्युपेक्षते, येऽभक्तार्थिनस्ते एवमनेन क्रमेण कुर्वन्ति प्रत्युपेक्षणां, ततो गुरुं संदिशापयित्वा 'संदिसह इच्छाकारेण ओहियं पडलिहेमि' एवं भणित्वा 'पात्र' पतदग्रहंप्रत्युपेक्षन्ते. मात्रकं चात्मीयं प्रत्युपेक्षन्ते, ततश्च सकलमुपधिं प्रत्युपेक्षन्ते तावद्यावच्चोलपट्टकश्चरमपि प्रत्युपेक्षन्ते । एसो ताव अभत्तुट्टियाण पडिलेहणविही । इदानीं भुक्तानां विधिं प्रतिपादयन्नाह - मुखवस्त्रिकां प्रत्युपेक्ष्य तयैव कार्य प्रत्युपेक्ष्य ततः 'पट्टगं' ति चोलपट्टगं प्रत्युपेक्षन्ते, पुनच गोच्छको यः पात्रकस्योपरि दीयते पच्छा पडिलेहणीयं पत्ताबंधो पडलाई स्यत्ताणं पत्तयं चैव, यदि मत्तओ अरिक्को तो एवं, अह रिक्को सो चेव पढमं निक्खिप्पड़, पुनश्र मात्रकं निक्षिप्य स्वकीयमवग्रह-पतद्रहं पत्युपेक्षते, ततो गुरुप्रभृतीनां सत्का उपधयः प्रत्युपेक्ष्यन्ते भक्तार्थिकैः, 'अणुन्नवण'त्ति ततो गुरुमनुज्ञापयति, यदुत 'संदिसह ओहियं पडिलेहेमो' त्ति ततः शेषाणि गच्छसाधारणानि पात्राणि वस्त्राणि च अपरिभोग्यानि यानि तानि प्रत्युपेक्षन्ते, ततः स्वकीयं पायपुंछणगं-रजोहरणं च प्रत्युपेक्षन्ते, भक्तार्थिन एवमनेन क्रमेण प्रत्युपेक्षणं कुर्वन्ति ॥ मू. (९६७) Jain Education International सुव्वो य विही इइप पडिलेहणाड़ सो चेव । जं एत्थं नाणत्तं तमहं वुच्छं समासेणं ॥ पडिलेहगा उ दुविहा भत्तट्टियएयरा य नायव्वा । दोहवि य आइपडिलेहणा उ मुहनंतगसकायं ॥ तत्तो गुरू परिन्ना गिलाणसेहाति जे अभत्तट्ठी ॥ संइदसह पायमत्ते य अप्पणो पट्टगं चरिमं ।। पट्ट मत्तय सयमोग्गहो य गुरुमाझ्या अणुन्नवणा । तो सेस पयवत्थे पाउंछणगं च भत्तट्टी ॥ जस्स जहा पडिलेहा होइ कया सो तहा पढइ साहू । परियट्टे व पयओ करेड़ वा अन्नवावारं ॥ २०५ For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy