________________
२०४
ओघनियुक्तिः मूलसूत्रं चत्वारि। मू. (९५५) अनावायमसंलोगं निहोसं बितियचरिम जयणाए।
पउरदवकुरुकुयादी पत्तेयं मत्तगा चेव॥ मू. (९५६) तइएवि य जयणाए नाणत्तं नवरि सद्दकरणंमि।
भावासन्नाए पुण नाणत्तमिणं सुणसुवोच्छं। वृ. अत्रानापातमसंलोकंच स्थण्डिलं निर्दोष, द्वितीयतृतीयचरमेषु भङ्गकेषु यतनया व्युत्सृजनं कर्त्तव्यं, का चासौ यतना?, प्रचुरद्रवेण कुरुकुचादिकं कर्त्तवयं प्रत्येकं प्रत्येकं च मात्रकाणि सपानकानि भवन्तीति । किं सर्वेष्वेव स्थण्डिलेषु कुरुकुचैव यतना कर्तव्या उत कचिद्विशेषः ?, उच्यते, अस्ति विशेषः, तृतीयेऽपि स्थण्डिले यतनाया नानात्वमेतावद्यदि परं यदुत शब्दकरणं, एतदुक्तं भवति-तृतीये स्थण्डिले आपातासंलोके शब्द कुर्वद्भिर्गन्तव्यं, भावासन्ने, पुनर्यतनायां यन्नानात्वं तच्छणुत वक्ष्ये । तत्र प्रथमस्थण्डिले गन्तव्यं, अथ तन्नास्ति, __ मू. (९५७) जदि पढमं न तरेज्जा तो बितियं तस्स असइए तइयं ।
तस्स असई चउत्थे गामे दारे य रत्थाए॥ वृ. यदि प्रथमे स्थण्डिले गन्तुं न शक्नुयात्ततो द्वितीयं व्रजेत्, 'तस्य' द्वितीयस्यासति तृतीयं व्रजेत्, 'तस्य' तृतीयस्य स्थण्डिलस्यासति चतुर्थ स्थण्डिलं व्रजेत्, यदा चतुर्थमपि स्थण्डिलं गन्तुं न शक्नोति तदा ग्रामद्वारे गत्वा व्युत्सृजति, यदा ग्रामद्वारमपि गन्तुं न शक्नोति तदा रथ्यायामेव व्युत्सृजति॥ मू. (९५८) साही पुरोहडे वा उवस्सए मत्तगंमि वा निसिरे।
___अच्चुक्कडंमि वेगे मंडलिपासंमि वोसिरह॥ वृ. यदा रथ्यायामपि गन्तुं न शक्नोति तदा ‘साहीए' खडक्किकायां गत्वा व्युत्सृजति, यदा खडक्किकायां गन्तुं न समर्थस्तदा ‘पुरोहडे' अग्रद्वारे व्युत्सृजेत्, यदा पुरोहडमपि गन्यु नालं तदोपाश्रये मात्रके वाव्युत्सृजेत्, सर्वथा अच्चुक्कडंमि वेगेमंडलीपासंमिवोसिरिति’ सुगमम् । इदं चलोकेऽपि प्रसिद्धं, यदत प्राप्तपुरीषादेर्वेगो न धार्यते । अत्र च कथानकम्-एगो राया तस्स य वेज्जो पहाणो सो मतो, तंमि मए राइणा गवेसावियं एयस्स पुत्तो अत्थि वानवा?, तस्सय कहियं-अत्थि एगा सुया, ताएयसयलं वेज्जयं अहीयं, हक्कारिया आयाया. भणिया य-किं ते भणियं ?. सा भणडअहियं विज्जयं. ततो एयस्संतरे ताए वायकम्म कयं. ततो इयरेहिं विज्ञहिं हसियं, ततो तीए ताणं विज्जाणं राइणो य परिकहणा कया, जहामू. (९५९) तिन्नि सल्ला महाराय, अस्सिंदेहे पइट्ठिया।
वायमुत्तपुरीसाणं पत्तवेगं न धारए॥ वृ. सिलोगो सुगमो । एवं साहुणावि वेज्जवईणं परिकहणा कायव्वा । एतदेव गाथयोपसंहरन्नाह.. मू. (९६०) राया विज्मि मए विज्जसुयं भणइ किं च ते अहियं ?।
अहियंति वायकम्मे विज्जे हसणा य परिकहणा ।। मू. (९६१) एसा परिट्ठवणविही कहिया भे धीरपुरिसपन्नत्ता।
सामायारी एत्तो वुच्छं अप्पक्खरमहत्थं । वृ. सुगमा॥ उष्वरिएत्ति दारं गयं, इदानीं सामाचारी व्याख्यायतेमू. (९६२) सन्नातो आगतो चरमपोरिसिं जाणिऊण ओगाढं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org