________________
मूलं - ९४८
साधुरिति । प्राघूर्णकोऽप्याचार्यवद्व्याख्यात एव द्रष्टव्यः । इदानीं दुर्लभत्ति व्याख्यानयन्नाह
मू. (९४९)
दुल्लभदव्वं व सिआ घयाइ घेतॄण सेस भुअंति । थो दे मिव गेहामि यत्ति सहसा भवे भरियं ॥
वृ. दुर्लभद्रव्यं वा स्याद्-भवेत् घृतादि तद्गृहीत्वा उपभुज्य च यत् शेषं तद् उज्झति, एवं वा पारिष्ठापनिकं भवति । इदानीं सहसदाणत्ति व्याख्यानयन्नाह - 'थोवं देमी' त्यादि, स्तोकं दास्यामीत्येवं चिन्तयन्त्या गृहस्थया सहसा अतर्कितमेव तत् साधुभाजनं भृतं, साधुर्वा चिन्तयति स्तोकं ग्रहीष्यामीति, पुनश्चातर्कितमेव भाजनं भृतं, ततश्चैवमतिरिक्तं भवति, पुनश्च परिष्ठाप्यत इति । एएहिं कारणेहिं गहियमजाया उसा विगिंचणया ।
मू. (९५०)
आलोगंमि तिपुंजी अदाणे निग्गयातीणं ॥
वृ. एभिः पूर्वोक्त कारणैर्यगृहीतं भक्तं सा 'अजातविगिंचणय'त्ति अजाता परिष्ठापनोच्यते, तस्याश्राजातायाः साध्वालोके त्रयः पुञ्जाः क्रियन्ते, किमर्थमित्याहअिद्धाणे निग्गयाईणं' अध्वाने निर्गतास्तदर्थं त्रयः पुत्राः क्रियन्ते, आदिग्रहणात्कदाचित्त एव कारणे उत्पन्ने गृह्णन्तीति । आहएक्क व दो व तिन्निव पुंजा कीरंडत किं पुन निमित्तं ? | विमा निग्गयाणं सुद्धेयरजाणणट्टाए ।
मू. (९५१)
वृ. एको वा द्वौ वा त्रयो वा पुञ्जः किं पुनर्निमित्तं क्रियन्ते ?, उच्यते, 'विहमादि' विहः पन्थास्तदर्थं निर्गतानां साधूनां शुद्धेतरभक्त परिज्ञानार्थं त्रयः पुञ्जकाः क्रियन्ते, आदिग्रहणाद्वास्तव्यानामेव कदाचिदुपयुज्यते इतिकृत्वा परिज्ञानार्थं त्रयः पुञ्जकाः क्रियन्त इति । इयं च गाथाऽनन्तरातीतगाथाया व्याख्यानभूता द्रष्टव्येति ।
मू. (९५२)
२०३
एवं विगिंचिउं निग्गयस्स सन्ना हवेज्ज तं तु कहं ? | निसिरेज्जा अहव धुवं आहारा होइ नीहारो ॥
वृ. ' एवं ' उक्तेन प्रक्रमेण परिष्ठापनार्थं विनिर्गतस्य यदि 'सञ्ज्ञा' पुरीषोत्सर्जने बुद्धिर्भवेत् 'तत्कथं ?' किं तत्र कर्तव्यमिति, अत आह- 'निसिरेज्ज' व्युत्सृजेत्, अथवा किमत्र प्रष्टव्यं ?, धुवमाहारान्नीहारो भवति, ततश्च स्थण्डिले व्युत्सृजनं कर्तव्यं, तत्र स्थण्डिलं पूर्वभणितमेव, तथाऽऽह
मू. (९५३)
• थंडिल्ल पुव्वभणियं पढमं निहोस दोस जयणाए ।
नवरं पुण नाणत्तं भावासन्नाए वोसिरणं ॥
वृ. स्थण्डिलं पूर्वभणितमेव, यदुत अनापातं असंलोकं १ अनापातं ससलोकं २ सापातमसंकलोकं ३ सापातं ससंलोकं ४ अत्र प्रथमो भङ्गको निर्दोषः, द्वयोश्र द्वितीयतृतीयभङ्गकयोर्यतनया व्युत्सृजति, एतत्पूर्वोक्त स्थण्डिलस्य सामान्यमेव, 'नवरं पुण णाणत्तं' ति नवरं केवलमिदं नानात्वं, यदुतान भावासन्नअतिपीडायां व्युत्सृजनमनुज्ञातं, तत्र चानुज्ञा नैव कृताऽऽसीदिह च कृताऽतो नानात्वं, ततचतुर्थभङ्गकासेवनमप्यनुज्ञातमेव द्रष्टव्यमिति । इदानीं भाष्यकारः पूर्वोक्त स्थण्डिलानि प्रदर्शयन्नाहअनावायमसंलोयं अनावायालोय ततिय विवरीयं ।
मू. (९५४)
Jain Education International
आवातं संलोगं पुव्वत्ता थंडिला चउरो ॥
[भा. ३०८ ] वृ. अनापातमसंलोकं च प्रथमो भङ्ग उक्त स्तथाऽन्यदनापातमालोकं च द्वितीयं तृतीयं पुनर्विपरीतं स्थण्डिल - सापातमसंलोकमित्यर्थः, तथाऽन्यदापातं संफोकं च चतुर्थो भङ्गकः, एतानि पूर्वोक्त स्थण्डिलानि
www.jainelibrary.org
For Private & Personal Use Only