SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ ओघनिर्युक्तिः मूलसूत्र वृ. आचार्यस्य प्रायोग्यग्रहणे क्रियमाणे सूत्रार्थयोः स्थिरीकरणं कृतं भवति, यतो मनोज्ञाहारेण सूत्रार्थी सुखेनैव चिन्तयति, अत आचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं, तथा विनयश्चानेन प्रकारेण प्रदर्शितो भवति, गुरुपूजा च कृता भवति, सेहस्य चाचार्य प्रति बहुमानः प्रदर्शितो भवति, अन्यथा सेह इदं चिन्तयति, यदुत न कश्चिदत्र गुरुर्नापि लघुरिति, अतो विपरिणामो भवति, तथा प्रायोग्यदानपतेव श्रद्धावृद्धिः कृता भवति, तथा बुद्धेर्बलस्य चाचार्यसत्कस्य वर्द्धनं भवति, तत्र च महती निर्जरा भवति । मू. (९४४) एएहिं कारणेहि उ केइ सहुस्सवि वयंति अनुकंपा । गुरुअनुकंपाए पुणे गच्छे तित्थे य अनुकंपा ॥ वृ. ‘एभिः’ पूर्वोक्त कारणैः केचित्समर्थस्याप्याचार्यस्यानुकम्पा कर्त्तव्येत्येवं वदन्ति, यतो गुरोरनुकम्पया गच्छे तीर्थे चानुकम्पा कृता भवति । यतचैवमतः प्रायोग्यग्रहणं ग्राह्यमिति । अत आहमू. (९४५) सति लाभे पुन दव्वे खेत्ते काले य भावओ चेव । गहणं तिसु उक्कोसं भावे जं जस्स अनुकंपं ॥ वृ. 'सति' विद्यमाने लाभे द्रव्यतः क्षेत्रतः कालतो भावतश्रोत्कृष्टं ग्राह्यं । इदानीं निर्युक्ति कारो व्याख्यानयन्नाह - 'गहणं तिसु उक्कोसं' ग्रहणं त्रिषु द्रव्यक्षेत्रकालेषु उत्कृष्टं कर्त्तव्यं, भावे तु यद्वस्तु यस्याचार्यस्यानुकूलं यद्गृह्यते । इदानीं भाष्यकृद्व्याख्यानयति, तत्र द्रव्ये उत्कृष्टतां प्रदर्शयन्नाहकलमोतणो उ पयसा उक्कोसो हानि कोदवुब्भज्जी | मू. (९४६) तत्थवि मिउतुप्पतरयं जत्थ व जं अच्चियं दोसु ॥ [भा. ३०७ ] वृ. कलमशाल्योनदः पयसा सह द्रव्यमुत्कृष्टं ग्राह्यं, तदलाभे हान्या तावत् गृह्यते यातव् 'कोद्दवोभज्झी' कोद्दवजाउलयं, तत्राप्ययं विशेषः क्रियते यदुत तदेव जाउलयं मृदु गृह्यते, तथा 'तुप्पतरयं' ति स्निग्धतरं तदेव जाउलयं गृह्यते, उक्तं द्रव्योत्कृष्टं, इदानीं क्षेत्रकालोत्कृष्टप्रतिपादनायाह- ' जत्थ व जं अच्चियं दोस' द्वयोरिति-क्षेत्रकालयोर्यद्रस्तु यत्र पूजितं तत्तत्र गृह्यते. एतदुक्तं भवति यद्यत्र क्षेत्रे बहुमतं द्रव्यं तत्तस्मिन् क्षेत्रे उत्कृष्टमुच्यते तच्च ग्राह्यं, तथा यद्वस्तु यस्मिन् काले बहुमतं तत्तस्मिन् काले उत्कृष्टमुच्यते, भावोत्कृष्टं पुनर्निर्युक्ति कारेणैव व्याख्यातं । उक्तं प्रसङ्गागतम्, इदानीं यदुक्तं आचार्यादीनां गृहीतं सद्यथोद्धरति तथा प्रतिपादयन्नाह मू. (९४७) लाभे सति संघाडो गेण्हड एगो उ इहरहा सव्वे । तस्सप्पणी य पज्जत्त गेण्हणा होइ अतिरेगं ॥ वृ. यदि तत्र क्षेत्रे घृतादीनां स्वभावेनैव लाभोऽइस्त ततस्तत्र लाभे सति आचार्यस्यैक एव सङ्घाटकः प्रायोग्यं गृह्णाति, 'इहरह' त्ति यदा तत्र क्षेत्रे न प्रायोवृत्त्या प्रयोगस्य लाभः तदा सर्व एव सङ्घाटकास्तस्याचार्यस्य प्रायोग्यं पर्याप्त्या गृह्णन्ति, ततश्र तस्याचार्यस्यात्मनश्रार्थाय पर्याप्तग्रहणे सत्यतिरिक्तं भवति, ततश्च तत्परिष्ठाप्यत इति । इदानीं 'गिलाणे ' त्तिव्याख्यानयन्नाह - मू. (९४८) गेलननियमगहणं नाणत्तोभासियपि तत्थ भवे । भासियमुव्वरि विगिंचए सेसगं भुजे ॥ वृ. ग्लानस्य नियमेन प्रायोग्यग्रहणं कर्त्तव्यं, यदि परं नानात्वं 'ओभासियपि ' प्रार्थितमपि तत्र ग्लाने भवति, ग्लानार्थ प्रायोग्यस्य च प्रार्थनमपि क्रियते, ततथ ओभासितं - प्रार्थितं सद् ग्लानार्थ पुनश्र यदुद्धरति ततस्तद् 'विगिच्यते' परित्यज्यते, 'सेसयं भुंजे त्ति शेषं यदनवभासिअं- अप्रार्थितमुद्वरितं तद्भुञ्जीत कथित For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy