SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ मूलं-९३८ २०१ योगकृतभिक्षाशङ्कया स निवृत्त। भिक्षापरिभ्रमणात् । शीर्ष सुगमम् ॥ एवमेव विषकृतेऽपि दृष्टान्तः, गुरोः 'दत्त्वा' समर्पयित्वा कायिकां व्युत्सृजति, तेन च गुरुणा गन्धादिना विज्ञाते. आदिग्रहणादभत्तस्स उप्फंसणेण वा, 'उज्झनं' परित्यागः क्रियते तत्र विधिना. अविधिपरिष्ठापने सति श्रृगालादिवधो भवति । एवं विद्यभिमन्त्रितस्य योगचूर्णकृतस्य तथा विषसंयुक्त स्य गृहीतस्य सतः 'प्राणात्ययेऽपि' अत्यर्थं क्षुत्पीडायामपि सत्यां नियमन-अवश्यन्तयोज्झनीयं (ना कार्या) तस्य च परिष्ठापनविधिं वक्ष्ये । पूर्वार्द्ध पूर्ववत, तद्विषादिकृतं भोजनं 'छारण' भूत्या ‘आक्रम्य' मिश्रीकृत्य चैव परिष्ठापनीयं, सुगमम्। मू. (९३९) दोसेण जेन दुटुं तु भोयणं तस्स सावणं कुज्जा। एवंइवहवोसट्टे वेराओ मुच्चई साहू।। वृ.दोषेन येन-मूलकादिना आधाकर्मादिना वा दृष्टं भोजनं भवति तस्य तिस्रो वाराः श्रावणं कर्त्तव्यं, यदुत मूलकर्मादिदोषैर्दुष्टमिति. एवमुत्तरगुणयोगमन्त्रविषकृतदुष्टानामपि तिस्रो वाराः श्रावणं करोति, एवं विधिना व्युत्सृष्टे सति वैरात' कर्मणो मुच्यते साधुः, अथवा 'वैरात्' जीववधजनितान्मुच्यते साधुरिति॥ आह-इदमुक्तं शुद्धाया भिक्षाया यत्परिष्ठापनं साऽजातापरिष्ठापनिकीत्युच्यते. ततश्चमू. (९४०) जावइयं उवउज्जइ तत्तिअमित्ते विगिंचणा नत्थि। तम्हा पमाणगहणं अइरेग होज्ज उ इमेहिं ।। वृ. यावन्मात्रकमेवोपयुज्यते तावन्मात्रमेव भिक्षाग्रहणं कर्त्तव्यं, यदा चैवं तदा तावन्मात्रकग्रहणे 'विगिंचनं' परिष्ठापनं 'नास्ति' न भवति तस्मात्प्रमाणग्रहणमेव कर्त्तव्यं, ततश्च कुतोऽजातायाः संभवति परिष्ठापनम् ?, अतिरेकग्रहणाभावादिति, एवमुक्ते परेण आह सूरिः- 'अइरेगं होज्ज उ इमेहि 'अतिरिक्तं' शुद्धमपि भक्तं 'एभिः' वक्ष्यमाणकारणैर्भवत्, कानि च तानि वक्ष्यमाणकारणानीत्यत आहमू. (९४१) आयरिए य गिलाणे पाहुणए दुल्लभे सहसदाने। एवं होइ अजाया इमा उ गहणे विही होइ॥ व.कदाचित्कस्मिंश्चित्क्षेत्रे आचार्यप्रायोग्यं दुर्लभं भवति ततश्च सर्व एव सङ्घाटका आचार्यप्रायोग्यस्य ग्रहणं कुर्वन्ति ततच तद् घृतादि कदाचित्सर्व एवं लभन्ते ततस्तदुद्धरति, ततोऽन्येषां च साधूनां पर्याप्त, एवमाचार्यार्थं गृहीतस्य शुद्धस्यापि परिष्ठापना भवति । तथा ग्लानार्थमप्येवमेव गृहीतं सद्वरति, प्राघूर्णकानामप्येवमेव. तथा दुर्लभलाभे सति सर्वैरेव सङ्घाटकैर्गृहीतमुद्ररति. तथा सहसदाणे' अप्रतर्कितदाने सति प्रचुरमुद्भरति, तत एवं भवति अजातापरिष्ठापनिका। तत्र चाचार्यादीनां ग्रहणेऽयं विधिः-वक्ष्यमाणः, कथासावित्यत आहमू. (९४२) जइ तरुणो निरुवहओ भुंजइ तो मंडलीइ आयरिओ। असहुस्स वीसुगहणं एमेव य होड़ पाहणए। वृ. कंचनवं भणंति-यद्यासावाचार्यस्तरुणो निरूपहतपथेन्द्रियश्च ततोऽसौं मण्डल्यामेव भुङ्क्ते सामान्यं, अथ असहू-असमर्थस्ततस्तस्य विष्वक्-पृथग् ग्रहणं प्रायोग्यस्य कर्त्तव्यं, एवमेव प्राघूर्णकऽपि विधिद्रष्टव्यः, यदि प्राघूर्णकः समर्थस्ततो नैव तत्प्रायोग्यग्रहणं क्रियते. अथासमर्थस्ततः क्रियत इति, केचित्पुनरेवं भणन्ति-यदुत समर्थस्याप्याचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं यत एते गुणा भवन्तिमू. (९४३) सुत्तत्थथिरीकरणं विनओ गुरुपूय सेहबहुमाणो। दानवतिसद्धवुड्डी बुद्धिबलवद्धणं चैव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy