________________
૮
ओघनियुक्तिः मूलसूत्रं
•
यद्यदतिरिक्तं संजातं भक्तं पानकं वा तद्भोक्त व्यं- परिष्ठापनकं कल्पते, अत आह प्रकारान्तरेण - अत्र च विधिगृहीते विधिभुक्ते चास्मिन् परद्वये चत्वारो भङ्गका भवन्ति, तद्यथा-विहिगहअि विहिभुत्तं एगो भंगो, विहिगहिअं अविहिभुतं बिइओ, अविहिगहअिं विहिभुत्तं तइओ, अविहिगहिअं अविहिभुत्तं चउत्थो ।। इदानीं भाष्यकारो विधिगृहीताविधिगृहीतयोः स्वरूपं प्रतिपादयन्नाह - उत्त्मदोषादिभिर्जढं त्यक्तं यत्तद्विधिगृहीतं. अथवा यद्वस्तु मण्डकादि यथैव यस्मिन् स्थाने पतितं भवति तत्तथैवास्ते नतु समास्यति इत्येष ग्रहणविधिः । 'असुद्धपच्छायणे अविही' अशुद्धस्य - उद्गमादिदोषान्वितस्य यद्रहणं इदमविधिग्रहणं, अथवा गुडादेर्द्रव्यस्य मण्डकादिना प्रच्छाद्य यदेकत्र पात्रकदेशे स्थापनं तदविधिग्रहणमुच्यते । इदानीमविधिविधिभोजनयोः स्वरूपं प्रतिपादयन्नाए- काकभुक्तं श्रृगालभुक्तं द्रावितरसमित्यर्थः 'सर्वतः परामृष्टम् ' उत्थल्लपत्थल्लणेण भुक्तं 'एसो उभवे अविही' इदं पूर्वोक्त मविधिना भुक्त मच्यते, यथैव गृहीतं पात्रके तथैव भुञ्जतो विधिभुक्तमुच्यते । अधुना भाष्यकृद् व्याख्यानयति तत्राद्यावयवप्रतिपादनायाह-यथा काक उच्चित्योच्चित्य विष्ठादेमध्याद्वल्लादि भक्षयति एवमसावपि, अथवा विकिरति काकवदेव सर्वं तथा काकवदेव कवलं प्रक्षिप्य मुखे दिशो विप्रेक्षते, तथा श्रृगाल इवान्यत्रान्यत्र प्रदेशे भक्षयति । सुरभि यद् 'दोच्चं गं' तीमनं ओदनादिना सह यन्मिश्रीभूतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तत्पिवनं यत्तद् द्रवितरसमुच्यते । तथाऽधस्तादुपरि च यद् 'आमठ्ठे' विपर्यासीकृतं भुङ्क्ते तदेतत्परामटठं, अयमेष भोजनेऽविधिः । कः पुनर्ग्रहणभोजनयोर्विधिः ? इत्यत आह-यथैव गृहीतं गृहस्थेन दत्तं सत्तत्तथैवानीतं यदयं गयहणविधिः, भोजने पुनरयं विधिः-यदुतोत्कृष्टद्रव्यमनुत्कृष्टद्रव्यं च समीकृतरसं भुञ्जीतेत्ययं प्रथमो भङ्गकः शुद्ध इति । तृतीयेऽपि भङ्गकेऽविधिना असामाचार्या गृहीतं विधिना भुक्तं समीकृतरसं सद् भुक्तं तच्च गुरुणानुज्ञातं, शेषौ तु द्वौ भङ्गको नानुज्ञातौ, यस्तु विधिगृहीतमरिधिभुक्तं काकशृगालादिरूपं भक्तं ददाति योऽपि गृह्णाति तयोर्द्वयोरपि 'निज्जुहणा' निर्द्धारणं क्रियते, तथाऽविधिगृहीतमविधिभुक्तं च यो ददाति गृह्णाति वा यतोर्द्धयोरपि निर्द्धारणं क्रियत इति । अथवा एतद्दोषाकरणतया अनासेवनया उपस्थितं दातारं ग्रहीतारं च ज्ञात्वा संगोपायनं क्रियते, कल्याणकं च गुरवो ददति, तच्च ददति 'घट्टयित्वा' तिरस्कृत्य, यदुत त्वया पुनरेवं न कर्त्तव्यं, स चैवं गुरुः किंनिमित्तं करोतीत्यत आह- 'पसंगविनिवारणट्टाए' प्रसङ्गस्यपुनरासेवनस्य निवारणार्थमेवं करोतीति ।
म. (९२२)
मू. (९२३)
घासणा य एसा कहिया भे ! धीरपुरिसपन्नत्ता । संजमत वडगाणं निम्गंथाणं महरिसीणं ॥ एयं घासेसणविहिं जुंजता चरणकरणमाउत्ता । साहू स्ववंति कम्मंच अनेगभवसंचियमनंतं ॥ एत्तो परिवणविहिं वोच्छामि धीरपुरिसपन्नतं । जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ||
मू. (९२४)
[भा. ३०३]
वृ. सुगमाः ॥ इदानीं उब्वरिएत्ति द्वारं भण्यते, अथवा स्वयमेव भाष्यकारः संबन्धं प्रतिपादयन्नाहमू. (९२५) भत्तट्टि उव्वरिअं अहव अभत्तट्टियाण जं सेसं ।
[भा. ३०१]
Jain Education International
[भा. ३०२]
संबंधेणाणेण उ परिठावणिआ मुणेयव्वा ॥
[भा. ३०४] वृ. भक्तार्थिकानां च भुक्तानामुद्धरितं यद् अथवा अभक्तार्थिकानां भुक्तानां पारिष्ठापनिकभोक्तृणां यदुद्वरितं-यच्छेषं तत्परिष्ठापनीयमितिकृत्वा अनेन सम्बन्धेन परिष्ठापनिका विज्ञेया भवतीत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org