________________
मूलं - ८८३
१९३
वृ. असुरसुरं भुङ्क्ते सरडसरडं अकरितो अचवचवं' वल्कमिव चर्वयन् न चबचबावेइ, तथा ‘अद्रुतम्' अत्वरितं. तथा ‘अविलम्बितम्' अमन्थरं अपरिशाटि मनोवाक्कायगुप्तो भुञ्जीत न मनसा विरूपमिति चिन्तयति, वाचा नैवं वक्ति, यदुत को इमं भक्खेइ ? जो अम्हारिसो न होइ, कारण उद्घोस मुण न देइ, एवं त्रिगुप्तस्य भुञ्जानस्य प्रक्षेपणशोधिर्भवति ॥
मू. (८८४)
उग्गमउप्पायणासुद्धं, एसणादोसवज्जिअं । साहारणं अयाणंतो, साहू हवड़ असारओ ॥ उग्गमउप्पायणासुद्धं एसणादोसवज्जिअं । साहारणं वियाणंतो, साहू हवइ ससारओ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जिअं । साहारण अयाणतो, साहू कुणति तेणिअं ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जिअं । साहारणं वियाणंतो, साहू पावइ निज्जरं ॥ अंततं भोक्खामित्ति बेस भुंजए य तह चेच । एस ससारनिविट्टो संसारओ उडिओ साहू ॥
वृ. उद्गमशुद्धं उत्पादनाशुद्धं एषणादोषवर्जितं 'साधारणं' सामान्यं गुडादि अजानानः- अतिमात्रं दुष्टेन भावेन आदनानः योऽसौ पतद्ग्रहो भ्रमति तस्मात् साधुः 'असारक- ' अप्रधानज्ञानदर्शनचारित्राण्यङ्गीकृत्यासारःस भवति । तथा उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्रव्यमित्येवं जानानोऽदुष्टेनान्तरात्मना कवलं गुडादेराददानः साधुर्भवति 'ससारः' ज्ञानदर्शनचारित्रसारवान् भवति । कथं पुनरसारः साधुर्भवति ? अत आह- उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्गुडादीत्येव जाना-नानो दुष्टेन भावेनाददानः साधुः स्तेयं करोति ततोऽसारोऽसौ । स कथं पुनः ससारो भवति ?उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं 'साधारणं' तुल्यमेतत्सर्वेषां गुडादीत्येवं जानानोऽदुष्टान्तरात्मा स्वल्पमाददानः साधुर्निर्जरां करोति अतः ससारो ज्ञानदर्शनचारिभैरिति । इदानीं ससारः कदाचिद् - भोजनार्थमुपविशन् भवति कदाचिदुपविष्टः कदाचिदुत्थितः, एतत्प्रदर्शनायाह- अन्त्यं - प्रत्यवरं वल्लचणकादि तदप्यन्त्यं - पर्युपितं चणकादि अन्त्यमप्यन्त्यमन्त्यान्त्यं भक्षयिष्यामि एवंविधेन परिणामेनोपविष्टो मण्डल्यां भुङ्क्ते यस्तथैव एष साधुः शुभपरिणामत्वात्ससार उपविष्टः ससारश्रोत्थितः, तस्य शुभपरिणामस्याप्रतिपतितत्वात्, एवमेव भङ्गत्रितयं योजनीयं तत्र प्रथमो भङ्गः ससारो निविट्टो ससारो उडिओ १, ससारो निविट्टो असारो उट्टिओ विइओ भंगो २, असारो निविट्टो ससारो उडिओ तड़ओ ३, असारो निविट्टो असारो उडिओ एस चुत्थो ४, सारश्चात्र ज्ञानादि, आदिग्रहणादर्शनं चारित्रं चेति, तेन ज्ञानादिना सहितो यः साधुः स ससारो भण्यते । अत्र च समुद्रवणिजा दृष्टान्तः ॥ एगो समुद्दवणिओ बोहित्थं भंडस्स भरिडं ससारो गओ, ससारो य पउरं हिरन्नाइ विढवेऊणं आगओ । अन्नो पुण सारो भंड गेहऊणो गओ निस्सारो आगओ कवडिया वि रहिओ, तंपि पुव्वेल्लयं हारेऊण आगओ । अन्नो असारो अंगबितिओ निहिरन्नो गओ ससारो आगओ पभूयं विढवेऊण | अन्नो पुन असारो हिरन्नरहिओ गओ असारो वेव आगओ कवडियाएवि रहिओ ।। एवं साधोरपि सारासारयोजना कत्तर्व्या वणिगून्यायेन । एवं तेषां भुञ्जानानां यदि पतद्भहको भ्रमन्नेवार्द्धपथे निष्ठां याति तदा को विधिरित्यत आह
मू. (८८५)
मू. (८८६)
मू. (८८७)
म. (८८८)
26 | 13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org