________________
आधनियुक्तिः मूलसूत्रं . वृ. मण्डली कथमुपविशति ।, अत आह-यथारत्नाधिकतया सामाचारी चात्र कार्या, एषा ‘योक्ता' भणिता. कतमा?. "ठाणदिसिगपगासणया" इत्येवमादिका साऽत्रापि तथैव द्रष्टव्या। उक्तं मण्डलीद्वारम, इदानीं भाजनद्वारप्रतिपादनायाह- 'पुव्वं तु अहाकडगा' 'पूर्व प्रथम' 'यथाकृतानि' प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनार्थं मुच्यते, एतदक्तं भवति-प्रथमप्रतिकर्मा प्रतिग्रहो भ्राम्यते. ततः. क्रमेण 'इतरे' अल्पपरिकर्मबहपरिकर्माणि च मुच्यन्ते। 'भायण'त्ति गयं, इदानीं 'भोयणं'त्ति व्याख्यायतेमू. (८७८) निद्रमहुराणि पुव्वं पित्ताईपसमणट्टया भुंजे।
बुद्धिबलवडणट्टा दुक्खं खु विकिंचिउं निद्धं ॥ . भा. २८४] व. प्रथमा सुगमं । किमर्थं स्निग्धमधुराणि पूर्व भक्ष्यन्ते?, यतो बुद्धेर्बलस्य च. वर्द्धनं भवति, तथा चाह-"घृतेन वर्धते मेघा' इत्यादि, बलवर्द्धनं च प्रसिद्धमेव, बलेन च वृद्धेन वैयावृत्त्यादि शक्यते कर्तुं, दुःख परिस्थापयितुं स्निग्धं-धृतादि भवति यतोऽसंयमो भवतीति॥ मू. (८७९) अह होज्ज निझमहुराणि अप्पपरिकम्मसपरिकम्महिं।
भोत्तूण निद्धमहुरे फुसिअ करे मुचंऽहागडए॥ भा. २८५] वृ. अथ भवेत् स्निग्धानि मधुराणि च द्रव्याणि अल्पपरिकर्मसु बहारिकर्मजनितेषु च पात्रकेषु ततः को विधिरित्यत आह-तान्येव भुक्त्वा स्निग्धमपधुराणि ततः करान प्रोञ्छयति प्रोञ्छयित्वा च करान् 'मुंचाहाकडए'त्ति यथाकृतानि-अपरिकर्माणि पात्रकाणि समुद्दिशनार्थं मुच्यन्ते। भायण'त्ति गयंमू. (८८०) कुक्कुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स।
लंबणतुल्ले गिण्हइ अविगियवयणो य राइनिओ॥ [भा. २८६] वृ. ततः पतद्ग्रहकात्कवलं गृह्यान् कुक्कुड्यण्डकमात्रं गृह्याति, अथवा 'खुक्तागलंबनासिस्स' क्षुल्लकेन लम्बनकेन-हस्तेन अशितुं शीलं यस्य स क्षुल्लकलम्बनाशी तत्तुल्यान् कवलान् गृह्णाति. स्वभानेनैव लघुकवलाशिनस्तुल्यान् कवला गृह्णाति ‘अविकियवयणो य राइनिओ' अविकतवदनो रत्नाधिकः, न भावदोषेण मुखमत्यर्थं बृहत्कवलप्रक्षेपार्थं निर्वादयति, किं तर्हि ?, स्वभावस्थै नैव मुखेनेति। अथवाऽयं ग्रहणविधिःमू. (८८१) गहणे पक्खेवंभि असामायारी पुणो भवे दविहा। गहणं पायंमि भवे वयणे पक्खेवणा होइ॥
भा. २८७] वृ. 'ग्रहणे' कवलदाने प्रक्षेपे च सामाचारी पुनरियं भवति द्विविधा, तत्र ग्रहणं पात्रकविषये भवेत् पात्रकात्कवलोत्पेक्षपः, वदनविषयं च प्रक्षेपणं कवलस्य बवति । तत्र पात्रकात्कथं भक्षयभिमुह्यते ? मू. (८८२) कडपयरच्छेएणं भोत्तव्वं अह व सीहखइएणं । एगेहि अनेगेहिवि वज्जेत्ता घूमइंगालं ॥
भा. २८८] वृ. तत्र कटकच्छेदेन भोक्तव्यं यथा कलिञ्जस्य खण्डलकं छित्वाऽपनीयते, एवमसावपि भुङ्क तथा प्रतरच्छेदेन वा भोक्तव्यं तरिकाच्छेदेनेत्यर्थः, अथवा सिंहभक्षितेन, सिंहो हि किल एकदेशादारभ्य तावभङ्क्ते यावत्सर्वं भोजनं निष्ठितं तचैकेन बहुभिर्वा भाक्त व्यं, वर्जयित्वा घूमाङ्गारकं, द्वेषरागा वर्जयित्वेत्यर्थः । इदानीं वदनप्रक्षेपणशोधिं दर्शयन्नाहमू. (८८३) असुरसुरं अचवचवं अदुयमविलंबिअं अपरिसाडिं।
मनवयणकायगुत्ता भुंजइ अह पक्खिवणसोहिं॥ [भा. २८९]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org