SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मूलं - ८७१ मू. (८७१) ठणदिसिपगासणया भायणपक्खेवणा य भावगुरू । सो व य आलोगो नाणत्तं तद्दिसा ठाणे | वृ. स्थानं वक्त व्यं उपविशने दिग् वक्त व्या प्रकाशमुखे भाजनं भोक्त व्यं, भाजनक्रमो वक्ष्यमाणः प्रक्षेपणं वदने वक्त व्यं, भावालोको वक्तव्यः, गुरुर्वक्तव्यः, स एवालोकः पूर्वोक्तः, नानात्वं त्वत्र यदि परं दिशः स्थानस्य च, अत्र दिक्पदमन्यथावक्ष्यति स्थानं च ॥ इदानीं भाष्यकारः स्थाननानात्वां दर्शयतिमू. (८७२) निक्aमपवेस मोतुं पढमसमुद्दिस्सगाण ठायंति । सज्झाए परिहानी भावासन्नवमाईया ॥ १९१ [भा. २८१] वृ. प्रथमसमुद्दिष्टानां ग्लानादीनां निर्गमप्रवेशौ मुक्त्वा उपविशन्ति, किमर्थं ? तत्र यदि ते मार्ग रुद्धवा मण्डल्यां तिष्ठन्ति ततः पूर्वोक्तानां स्वाध्यायपरिहानिर्भवति तथा 'भावासन्नस्य' सञ्ज्ञादिवेगधारणा सहिष्णोः पीडा भवति। एवमादयोऽन्येपि दोषाः । मू. (८७३) पुव्वमहो राइनिओ एक्को य गुरुस्स अमिमहो ठाइ । गिues व पणा व अभिमुह इहरहाऽपन्ना ॥ [भा. २८२ ] वृ. पूर्वाभिमुखो रत्नाधिक उपविशति मण्डल्या, तस्यां च मण्डल्यामेकः साधुर्गुरोरभिमुख उपविशति, किमर्थं ?, कदाचित्किञ्चिद्गुरोरतिरिक्तं भवति तद् गृह्याति दातव्यं वा किञ्चिद्भवति तद्ददाति मण्डलीस्थविरेणार्पितं, एवमर्थमभिमुख उपविशति, इतरथा - यद्यभिमुखो नोपविशति ततोऽवज्ञा-परिभवः कृतो भवति, पृष्ठ्यादि दत्त्वोपविशति ततोऽप्यवज्ञादिकृता दोषा भवंति ॥ मू. (८७४) जो वे खमओ अतिउच्चाओ व सो बहिं ठाइ । पढमसमुद्दिट्ठो वा सागारियरक्खणट्टाए । वृ. यस्तु पुनः क्षपकोऽर्द्धमासादिना भवेद् अतिश्रान्तो वा प्राघुर्णकादिः स बहिर्मण्डल्यास्तिष्ठति, प्रथमसमुद्दिष्टो वा साधुः शीघ्रतरेण येन भुक्तं स सागारिकरक्षणार्थं बहिस्तावन्मण्डल्यास्तिष्ठति ॥ मू. (८७५) एक्केक्स्स य पासंभि मल्लयं तत्थ खेलमुग्गाले । कट्टिए व छुब्भइ मा लेवकडा भवे वसही ॥ वृ. तत्र च साधूनां भुञ्जानानामेकैकस्य साधोः पार्श्वे मल्लकं भवति, तत्र खेलश्लेष्म उद्गालयेत्तस्मिन् मल्लके श्लेष्मनिष्ठीवनं कुर्वन्ति, तथा तत्र भुञ्जत- कदाचित्कण्टोऽस्थिरखण्डं वा भवति स तत्र क्षिप्यते, अथ तु भुवि क्षिप्यतेऽस्थिकण्टकादि ततो वसतिर्लेपकृता- अनायुक्ता भवति, अतस्तत्परिहारार्थं मल्लकेषु क्षिप्यते । तथाऽमुमपरं भुञ्जानानां विधिं प्रतिपादयन्नाह - मू. (८७६) Jain Education International मंडलभायण मायण ग्रहणं सोहिय कारणु व्वरिते । भोणविही उ एसो भणिओ तेलुक्क दंसीहि ॥ वृ. मंडलिभायणभोयण गहणं कर्त्तव्या, भाजनानि च पूर्व अहाकडाइ भुञ्जन्ति, भोजनं च स्निग्धमधुरं पूर्वं भोक्त व्यं, ग्रहणं च पात्रकात् कुक्कड्यण्डकमात्रं कवलं गृह्णाति, तथा ग्रहणस्यैव शुद्धिर्वक्तव्या, अथवा शुद्धिर्भुनस्य यथा भवति तथा वक्त व्यं, कारणे भोक्तव्यं, तथा 'उव्वरिए 'त्ति अतिरिक्ते विधिवक्त व्यः । अयं भोजनविधिः सुगमः इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽहमू. (८७७) मंडल अहराइनिआ सामायारीय एस जा भणिआ । पुव्वं तु अहाकडगा मुच्चति तओ कमेनियरे ॥ For Private & Personal Use Only [भा. २८३] www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy