________________
आघनियुक्तिः मूलसूत्रं उदकमपवृत्त्य पानकगलनं क्रियते। अथपुनस्तत्र कीटिकामकोटिकादयः प्लवमाना दृश्यन्ते ततस्तत्र गलिते को विधिः ? इत्यत आह. मू. (८६६) मूइंगाईमक्कोडएहिं संसत्तगं च नाऊणं।
गालेज्ज छव्वएणं सउणीघरएण व दवं तु ॥ वृ. मुइंगा-कीटिका मोंटकाचतैः संसक्तं ज्ञात्वा गालयेत् 'छब्बएणं' वंशपिटकेन शुकनिगृहकेन वा गालयेत् तद् द्रवं। मू. (८६७) इय आलोइयपट्टविअगालिए मंडलीइ सट्टाणे।
सज्झायमंगलं कुणइ जाव सव्वे पडिनियत्ता॥ वृ. 'इयत्ति पूर्वोक्त विधिना आलोचिते सति प्रस्थापिते स्वाध्याये गलितेच पानके पुनश्च मण्डल्या स्वस्वस्थाने उपविश्य स्वाध्यायमण्डलं करोति-स्वाध्याय एव मण्डल स्वाध्यायमङ्गलं तत्करोति यावत् सर्वे साधवः प्रतिनिवृत्ता भवन्तीति । एवं यदि सहिष्णवस्तता योगपद्येन भुञ्जते, अथासहिष्णवस्तत्र केचिद्भवन्ति ततः को विधिरित्याहमू. १८६८) कालपुरिसे व आसज्ज मत्तए पक्खिवित्तु तो पढमा।
अहवावि पडिग्गहगं मुयंति गच्छं समासज्ज ॥ वृ. सचासहिष्णुर्णीष्मकालाद्यङ्गीकृत्य भवति, ततएव वा पुरुषः कदाचित् क्षुधातॊ भवति, तमाश्रित्य मात्रके प्रक्षिप्यभक्तं प्रथमालिका तावद्दीयते अथवहवः क्षुधालवस्ततः पतद्ग्रहकं मुच्यते तेभ्यो रक्षणार्थं गच्छं 'समासज्न'त्ति गच्छमल्पं बहुं वा ज्ञात्वा तदनुरूपं पतद्ग्रहं भुश्चति । पुनश्च मिलितेषु साधुषु मण्डलीस्थविरः प्रविशति, किं कृत्येत्यत आहमू. (८६९) चित्तं बालाईणं गहाय आपुच्छिऊण आयरिअं।
जमलजननीसरिच्छो निवेसई मंडलीथेरो॥ व. चित्तंबालदीनां गृहीत्वा प्रष्ट्राऽऽचार्यमण्डलीस्थविरः प्रविशति, किंविशिष्टः? इत्यत आह- जमलजननीसरिच्छो निवेसई’ उपविशतिमण्डलीस्थविर इति, सचमण्डलीस्थविरोगीतार्थो रत्नाधिकोऽलुब्धश्च भवति । अनेन च पदत्रयेणाष्टौ भङ्गा सूचिता भवन्ति. तत्र तेषां मद्ये येशुद्धाऽशुद्धाश्च तान प्रदर्शयन्नाहमू. (८७०) जइ लुद्धो राइनि होइ अलुद्धोवि जोवि गीयत्थो।
ओमोवि ह गीयत्थो मंडलिराइणि अलुद्धो॥ वृ. यद्यसौ मण्डलीस्थविरो लुब्धो रत्नाधिकच ततस्तिष्ठति-न प्रविशति, अनेन च लुब्धपदन द्वितीयचतुर्थषष्ठाष्ठामा भङ्गा अशुद्धाः प्रदर्शिता भवन्ति । 'अलुद्धोवि जोवि गीयत्थो ओमोवि ह'त्ति अलुब्धोऽपि यदि गीतार्थ ओमः-लघुपर्यायः समण्डल्यां परिविशति, अनेन च ग्रन्थेन तृतीयोभङ्गकः कथितो भवति, अयंच प्रथमभङ्ककाभावे भवति, अत्र च भङ्कके गीतार्थपदग३हणेन यत्र यत्र भङ्गकेऽगीतार्थपदं स सर्वो दुष्टो ज्ञातव्यः । गीयत्थो मंडलिराइणिउत्ति अलुद्धो'त्ति यस्तु पुनर्गीतार्थो रत्नाधिकोऽलुब्धश्च स मंडल्यामुपविशति, अनेन च ग्रन्थेन प्रथमो भङ्गकः शुद्ध: प्रदर्शितो भवति, सर्वथा यत्र यत्र लुब्धपदमगीतार्थपदं च स परिहार्यः, ओमराइनियपदं च यद्यगीतार्थः लुब्धपदं च न भवति ततोऽपवादे शुद्धं भवति, प्रथमंतु शुद्धमेव ॥ इदानीं ते मिलिताः सन्त आलोके भुञ्जन्ते, स चालोको द्विविधोद्रव्यतो भावतश्च, तंत्र द्रव्यतः प्रदीपादिः, भावतः सप्तप्रकारस्तं दर्शयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org