________________
१८९
मूलं-८६१ एतदर्थ मण्डली क्रियते येन बहवः प्रतिजागरकाभवन्तीति। बालोऽपि भिक्षामटितुमसमर्थः, स च वहूनां मध्ये सुखेनैव कथनं नु नाम वर्तेत ?. अता मण्डली भवति । वृद्धोऽप्येवमेव. सेह:-शक्षकः, स चैकः सन् भिक्षाविशुद्धिं न जानाति ततस्तस्यानीय दीयते. आएसो-प्राधूर्णकस्तस्य चागतस्य सर्व एवोपकुर्वन्ति, स चोपकारः सर्वैरेव मिलित्तैः कर्तुं शक्यते नत्येकेन. गुरोश्च सर्वैरेवोपकर्तुं शक्यते न त्येकेन सूत्रार्थपरिहानेः, तथा असहवग्गो'त्ति असमर्थो-राजपुत्रादिः स च भिक्षामटितुं सुकुमालत्वान्न शक्नोति ततश्च सर्व एव मिलिता उपकुर्वन्ति, तस्मात् 'साधारणोग्गहा' साधारणथासावुपग३हश्च साधारणोपग्रहस्तस्मात् साधारणोपग्रहत्कारणान्मण्डली कर्त्तव्या, अथवा मण्डलीविशेषषणमेतत्, उपगृह्यातीत्युपग्रहा-भक्तादिः स साधारणः-तुल्यो यस्यां सा साधारणोपग्रहा मण्डली भवित । 'अलद्विकारणा मंडली होइ' इति कदाचित्कश्चित्साधुरलब्धिको भवति ततश्च तेऽन्ये साधवस्तस्मै आनीय प्रयच्छन्ति अत एतत्कारणान्मण्डली भवति। इदानी भिक्षागतानां साधूनां यो वसतिरक्षपालस्तेन किं कर्त्तव्यमित्यत आहमू. (८६२) नाउ नियट्टणकालं वसहीपालो य भायणुग्गाहे।
परिसंठियच्छद वेगण्हणट्ठया गच्छमासज्जा॥ वृ. ज्ञात्वा भिक्षागतानां निवर्तनकालं वसतिपालो 'भाजनं नन्दीपात्रं तत्प्रत्युपेक्ष्योद्ग्राहयतिसङ्घट्टितेनास्ते इत्यर्थः, किमर्थः?, परिसंस्थिताच्छद्रवग्रहमार्थम्, एतदक्तं भवति-तत्रानीय साधवः पानकं प्रक्षिपन्ति, पुनश्चतत्र परिस्थितं-स्वच्छीभूतं सत् ततोऽन्यत्र पात्रके क्रियते येन तत्स्वच्छमार्यादीनां योग्य भवति, पात्रकादिप्रक्षालनं च क्रियते । 'गच्छमासज्ज'त्ति 'गच्छमाश्रित्य गच्छस्य प्रमाण ज्ञात्वा पात्रकमुद्ग्राहयन्ति, एतदुक्तं भवति-यदि महान् गच्छस्ततः पानकगलनार्थं महाप्रमाणं पात्रकमुद्ग्राहयति, तथा द्वे त्रीणि चत्वारि पञ्चादीनि यावत। मू. (८६३) असई य नियत्तेसु एक्कं चउरंगुलूणभाणेसु।
पक्खिविय पडिग्गहगं तत्थऽच्छदवं तु गालेज्जा ।। वृ. अथ तत्र रक्षपालः समर्थो नास्ति यः पात्रकमुद्ग्राहयति, अथवा असईय'त्ति यदि नन्दीपात्रं नास्ति यत्रोदकमानीतं स्वच्छीकरणार्थं क्रियते ततोऽसति तस्मिन् नन्दीपात्रे तदेकं पतद्भहं प्रक्षिप्य, क्व?, अत आह-‘चउरंगुलूणभाणेसु' चतुर्भिरङ्गुरूनानि यानि भाजनानि तेषु प्रक्षिप्य पतद्भहं पुनस्तस्मिन् क्षणीभूते स्वच्छं द्रवं गालयेत. अत्र याचं नियमो द्रष्टव्यः यदुत-भिक्षां तावत्साधवः पर्यटन्ति यावत्पात्रकं चतुर्भिरङ्गलैख्नमास्त इति । आह-किं पुनः कारणं तद्रवगलनं क्रियते? मू. (८६४) आयरियअभावियपाणगट्ठया पायपोसघुवणट्ठा।
होइ य सुहं विवेगो सुह द्रायमणं च सागरिए॥ वृ. आचार्यपानार्थं अभावितसेहादिपानार्थं च गलनं क्रियते । तथा पादधावनार्थं 'पोस'त्ति अधिष्ठानं तस्य प्रक्षालनार्थं तथा भवति च सुखेन विवेकः-त्यागोऽतिरिक्त स्य तस्यानकस्य, तथा सुखेन वाऽऽचमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियते इति । कियन्ति पुनः पात्रकाणि गलितद्रवस्य भ्रियन्ते ? मू. (८६५) एक्कं व दो व तिन्नि व पाए गच्छप्पमाणमासज्ज ।
अच्छदवस्स भरेना कसट्टबीए विगिंचेज्जा ।। वृ. एकं द्वे त्रीणि वा पात्रकाणि भ्रियन्ते, गच्छप्रमाणं ज्ञात्वा चतुष्प्रभृतीन्यपि भ्रियन्ते स्वच्छद्रवस्य, तत्रच गलिते सति कसट्ट-कचवरं वीजानि च-गोधूमादीनि विगिश्चेत्' परित्यजेत. एवं तावत् पात्रकर्णेनापि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org