________________
भूलं - ८५०
भोज्यन्ते, यतस्तेषां शबलं चारित्रं, शबलचरित्रैः सह न भुज्यते, बालवृद्धा अन्यसहिष्णुत्वात्प्रथममेव भुञ्जतेऽतस्तेऽप्येकाकिन इति, एवमाद्या मण्डल्यामसमुद्दिशका भवन्ति, आदिग्रहणात्कुष्ठव्याध्याद्युपद्रुता इति । ते च भुञ्जानाः सन्त आलोके भुञ्जते, स चालोको द्विविधो भवतीत्येतदेवाहदुविहो खलु आलोको दव्वे भावे य दव्वि दीवाई । सत्तविहो पुन भाव आलोगं तं परिकहेऽहं ॥
मू. (८५१)
वृ. द्विविध आलोको - द्रव्यालोको भावालोकच, तत्र द्रव्यालोकः प्रदीपादिः, भावविषयः पुनरालोकः सप्तविधः, तं च कथयाम्यहं तत्र भावालोकस्येयं व्युत्पत्तिः- आलोक्यत इत्यालोक-स्थानदिगादिनिरूपणमित्यर्थः । तं च सप्तविधमपि प्रतिपादयन्नाह -
मू. (८५२)
१८७
ठाणदिसिपगासणया भायणपक्खेवणे य गुरुभावे । सत्तविहो आलोको सयावि जयणा सुविहियाणं ।।
वृ. तेथामण्डलिसमुद्दिशकैर्निष्क्रमप्रवेशवर्जित स्थाने भोक्तव्यं तथा कस्यां दिशि आचार्यस्योपवेष्टव्यमित्येतद्रक्ष्यति, तथा सप्रकाशे स्थाने भोक्त व्यं, भाजने च विस्तीर्णमुखे भोक्तव्यं, प्रक्षेपणं च कवलानां कुर्कुट्यण्डकमात्राणां कर्तव्यं, तथा गुरुश्चक्षुः पथे भोक्त व्यं, तथा भावो ज्ञानादि तत्-संवहनार्थं भोक्तव्यमित्येतद्वक्ष्यति । एवमयं सप्तविध आलोकः सदाऽपि च यतनातस्मिन सप्तविधेऽ प्यालोके यतना सुविहितानाम् । इदानीं भाष्यकारो व्याचष्टे प्रतिपदं, तत्राद्यावयवव्याचिख्यासयाऽऽहनिक्खमपवेसमंडलि सागारियठाणपरिहियठ्ठाइ ।
1
मू. (८५३)
मा एक्कासणभंगो अहिगरणं अंतरायं वा ॥
[भा. २७५] बृ. निष्क्रमप्रवेशौ वर्जयित्वा भोजनार्थमुपविशंति, तथा मण्डलीप्रवेशं च वर्जयन्ति, तता सागारिकस्थानं च परिहृत्य भुञ्जते, मा भूत् सागारिके प्राप्ते सति एकाशनभङ्गः स्यादिति, 'अधिकरणं' रादिर्वा भवति अन्येनय प्रव्रजितेन सह अस्थाने उपविष्टस्य भुञ्जतोऽन्तरायं च भवति, कथं ?, स साधुरन्यस्य सत्के स्थाने भुङ्क्ते उपविष्टः सोऽपि साधुरागतः प्रतीक्षमाण आस्ते, एवं चान्तरायं कर्म बध्यते ।
इदानीं दिशाद्वारप्रतिपादनायाहमू. (८५४)
पच्चरसिपरंमुहपट्टिपक्ख एया दिसा विवज्जेत्ता ।
ईसाणग्गेर्डय व ठाएन गुरुस्स गुणकलिओ ॥
Jain Education International
[भा. २७६ ] वृ. उरसोऽभिमुखं प्रत्युरसं गुरोरभिमुखं वर्जयित्वेत्यर्थः, पराङ्मुखथ नोपविशति गुरो-, तथा पृष्ठतथ गुरोर्नोपविशति, पक्षके च नोपविति, एवमंता दिशो वर्जयित्वा ईशान्यां दिशि गुरोराग्रेय्यां वा दिशि 'तिष्ठेत्' उपविशेद्भोजनार्थं गुणकलितः साधुर्यः इदानीं 'पगासणय'त्ति व्याख्यायते
मू. (८५५)
भक्खिकंटगट्टाईण जाणणट्टा पगासभुंजणया । अट्टियलग्गणदोसा वग्गुलिडोसा जढा एवं ॥
[भा. २७७]
वृ. कथं नु नाम मक्षिका ज्ञायते दृश्यते तथा कण्टको वा कथं नु नाम दृश्यते अस्थि वा उपलभ्यते ?, एवमर्थं 'प्रकाशे' सोद्योतस्थाने भुज्यते, आदिग्रहणाद्वालादिपरिग्रहस्तच्च दृश्यते, एवं च प्रकाशे भुञ्जनेन योऽसा गलकादौ अस्थिलगनदोषस्तथा कण्टकलगनदोषश्च गलकादौ स परिहृतो भवति तथाऽन्धकारे मक्षिकाभिक्षणजनितो यो वल्गुलिव्याधिदोषः स परिहृतो भवति । इदानीं 'भायण' त्ति द्वारमुच्यतेजे चेव अंधयारे दोसा ते चेव संकडमुहंभि ॥
मू. (८५६)
For Private & Personal Use Only
www.jainelibrary.org