________________
ओघनियुक्तिः मूलसूत्रं । संसत्तकंटगाई सोहेउमुवस्सगं पविसे ॥ वृ. एवं साधुरुद्गत्मोत्पादनैषणाभिर्द्विचत्वारिंशदपराधा भवन्ति तैः समदानं भैक्षं "शोधयित्वा विवच्य ततः ‘पड्डपन्ने' लब्धे सतिभक्तादौ वसंति प्रयाति। इदानीं तदभक्तं गृहीतं सच्छोधयित्वा वसतिं प्रविशति. केषु स्थानेषु?, अत आह-गृहीत्वा भक्तमुपाश्रयाभिमुखो व्रजेत.शून्यगृहे तभक्तं प्रत्युपेक्ष्य ततो वसति प्रविसति, तदभावे देवकुले वा, ‘असई य' गृहादीनामभावे उपाश्रयद्वारे संसक्तं त्रसैः कण्टकैर्वा यद्वयाप्तं तत शोधयित्वा-प्रोज्झय संसक्तादिभक्तं तत उपाश्रयं प्रविशति । एवं तस्य प्रत्युपेक्ष्यमाणस्य कदाचित्संसक्तं भवति तत्र किं करोतीत्यत आह. __मू. (७९३) संसत्तं तत्तोच्चिअ परिद्ववेत्ता पुनो दवं गिण्हे। .
कारण मत्तय गहि पडिग्गहे छोटु पविसणया॥ वृ. यदि तत्र संसक्तं भक्तं पानकं वा भवेत्ततस्तस्मादेव स्थानात्प्रतिस्थाप्य पुनरप्यन्यद्रवं गृह्णाति. तथा ग्लानदिकारणन च मात्रके यद्भहीतमासीत्तत्पतद्भहे प्रक्षिप्य प्रविशति, यतस्तस्य साधुभिराख्यातं यदुत ग्लानस्यान्यल्लब्धतो निष्कारण-मात्रकोपयोगंपरिहरन् पतद्भहे प्रक्षिप्य प्रविशति, निष्कारणमात्रकोपयोगे च प्रमादी भवति । एवमसौ परिशुद्धे सति भक्ते प्रविशति उपाश्रयं ।
अथाशुद्धं भवति ततः परिष्ठाप्य किं करोतीत्यत आहमू. (७९४) गामे य कालभाणे पहुच्चमाणे हवंति भंगट्ठा।
काले अपहप्पंते नियत्तई सेसए भयणा॥ वृ. भङ्गा भवन्ति, तेषां च भङ्गकानां मध्ये यस्मिन् भङ्गके कालो न पर्याप्त तस्मिन्निवर्त्तत एव, शेषेषु चतुर्ष भङ्गेषु 'भजनां' विकल्पनां करोति सेवनां वा करोति । इदानी भजनां दर्शयन्नाह__ मू. (७९५) अन्नं च वए गाम अन्नं भाणं व गेण्ह सइ काले।
पढमे बितिए छप्पंचमे य भय सेस य नियत्ते॥ वृ. अन्यं ग्राम्यं वा व्रजति काले पर्याप्यमाणे, अन्यं च भाजनं गृह्याति पर्याप्यमाणे काले सति, एवं प्रथम भङ्गे द्वितीये च षष्ठे पञ्चमभकके च 'भजनां' सेवनां करोति काले सति, शेषभङ्गेषु येषु कालोन पर्याप्यते तेषु 'निवर्तन' गन्तव्यं भिक्षाया इत्यर्थः । स च पर्याप्यमाणः कालो द्विविधः-जघन्य उत्कृष्टश्च, तत्र जघन्यप्रतिपादनायाहमू. (७९६) वोसिट्टमागयाण उव्वासिअमत्तए य भमितिअं।
___पडिलेहियमत्थमणं सेसथमिए जहन्ना उ॥ वृ. सज्ञां व्युत्सृज्यागतानां मात्रकं च यस्मिन तोयं गृहीत्वा गत आसान्निर्लेपनार्थं तस्मिन्नुद्वासिते. शोषिते सति भूमित्रिक च-कायिकीभूमौ द्वादश स्थण्डिलानि संज्ञाभूमौ द्वादश स्थण्डिग्लानि कालभूमा त्रीणिस्थण्डिलानि, एवमरिमन भूमित्रितये प्रत्युपेक्षिते सति यदाऽस्तमनं भवति तस्मिन् प्रदेशे 'अत्थमिए'त्ति शेषोपधिं अस्तमिते आदित्ये प्रत्युपेक्षते यदा अयमित्थंभूतो जधन्यः काल इति। मू. (७९७) भुत्ते वियारभूमी गयागयाणं तु जह य ओगाहे।
चरमाए पोरिसीए उक्कोसो सेस भज्झिमओ॥ वृ.भुक्ते सति विचारभूमिं गत्वाऽऽगतानां यथा ओगाहे' आगच्छति चरमा पौरुषी-चतुर्थः प्रहरः अथवा चरमपी रुषी-पादोनचतुर्थप्रहरो यथाऽऽगच्छति । अस्या वेलायामयुमुत्कृष्टः कालः, शेषस्त्वन्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org