________________
मूलं-७९७ .. मध्यमः काल इति । तेन च भिक्षामटित्वा विनिवृत्त्य प्रविशता वसतौ किं कर्त्तव्यमत आहमू. (७९८) पायमज्जणनिसीहिआय तिन्नि उ करे पवेसंभि।
अंजलि ठाणविसोही दंडग उवहिस्स निक्खेवो॥ - वृ. बहिरेव वसते- पादौ प्रमार्जयति निषीधिकात्रितयं करोति, प्रविशन् पुनश्च गुरोः पुरस्तादञ्जलिना नमस्कारं करोति ‘नमो खमासमणाणं"ति. तथा प्रविष्टश्च स्थानं विशोधयति तत्र दण्डकस्योपधेश निक्षेप करोति । इदानीमेतामेव गाथा भाष्यकारो व्याख्यानयन्नाहमू. (७९९) एवं पडुपन्ने पचिसओ उ तिन्नि व निसीहिया होति। अग्गद्दारे मज्से पवेस पाए य सागरिए ।
[भा. २६२] वृ. एवं प्रत्युत्पन्ने-लब्धे सति भक्ते प्रविशतस्तिस्त्रो निषीधिका भवन्ति, क्व ?-अग्रद्वारे प्रथमा तथा द्वितीया मध्यप्रदेशे वसतेः प्रवेशे च मूलद्वारस्य तृतीयां निषीदिकां करोति पादौ च प्रमार्जयति यदि कथित सागारिको न भवति. अथ तत्र सागारिको भवति ततो वरण्डकाभ्यन्तरे प्रमार्जनं करोति, अथ मध्यमेऽपि भवतिद्वितीयनिषीधिकास्थानेऽपि भवति ततोमध्ये प्रविश्य प्रमार्जयति पादौ. तेनच कारणेन पश्चाद-भाष्य. कारेण पादप्रमार्जनं व्याख्यातं येन तदनियतं वर्तते, निषीधिकास्वकृतास्वपि कारणवशात्संभतीति।
इदानीमञ्जल्यवयवंव्याख्यानयन्नाहमू. (८००) हत्थुस्सेहो सीसप्पणामणं वाइओ नमोक्कारो। गुरुभायणे पणामो वायाए नमो न उस्सेहो॥
भा. २६३] व.हस्तस्योत्सेधं नमस्कारार्थं करोति, शीर्षप्रणमनं करोति, वाचा च "नमो खमासमणाणं"ति, इत्येवं नमस्कारं करोति अथ तद्गुरु भिक्षाभाजनं भवति मात्रकं च गुरुगृहीतमङ्गलीभिः, ततश्चैवं गुरुणि भाजने सति शिरसा प्रणामं करोति वाचा च नम इत्येवं ब्रूते, न हस्तोच्छ्रयं करोति, यतोऽसौ गुरोमात्रकस्याधो हस्तो दत्तः साधारणार्थमतोऽक्षणिकस्ततश्च नोच्छ्यं करोति । इदानीं स्थानविशोधिं व्याख्यानयनाह. मू. (८०१) उवरिं हेट्ठा य पमज्जिऊण लट्ठि ठवेज्ज सट्ठाणे। . पट्टे उवहिस्सुवरिंभायणवत्थाणि भाणेसु॥
भा. २६४] वृ. उपरि-कुड्यस्थाने अधस्ताच्च-भुवं प्रमृज्य पुनश्च स्वस्थाने यष्टिं स्थापयेत्. पुनश्च ‘पट्टकं' चोलपट्टकमुपधेरुपरि स्थापयेत-मुश्चति 'भाजनवस्त्राणि च' पटलानि 'भाजनेष' पात्रोपरि स्थापयति ॥ मू. (८०२) जइ पुण पासवणं से हवेज तो उग्गहं सपच्छागं। . दाउं अन्नस्स सचोलपट्टओ काइयं निसिरे॥
भा. २६५] वृ. यदि पुनस्तस्य साधोः प्रश्रवणं' कायिकादिर्भवति ततश्च ‘अवग्रहं' पतद्भह ‘सपच्छागं' सपटलं 'दातुं' अर्पयित्वा अन्यस्य साधोः पुनश्च सह चोलपट्टकेन-चोलपट्टकद्वितीयः कायिकांव्युत्सजति। कायिकां व्युत्सृज्य कायोत्सर्ग करोति, तत्र च को विधिरित्यत आहमू. (८०३) चउरंगुलमुहपत्ती उज्जुयए वामहत्थि रयहरणं ।
वोसट्टचत्तदेहो काउस्सग्गं करेजाहि॥ वृ. चतुर्भिरङ्गुलेर्जानुनोपरि चोलपट्टगं करोति नाभेश्वाधचतुर्भिरङ्गुलै- पादयोश्चान्तरं चतुरङ्गुलं कर्त्तव्यं, तता मुखवस्त्रिकामुज्जुगे-दक्षिणहस्तेन गृह्याति वामहस्तेन च रजोहरणं गृह्याति, पुनरसो व्युत्सृष्टदेहः प्रलम्बितबाहुस्त्यक्त देहः साधुपद्रवेऽपि नोत्सारयति कायोत्सर्ग, अथवा व्युत्सृष्टदेही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org