________________
मूलं - ७४३
हस्ताद्रह्यते न त्वेकान्तेनैवाग्रहणं किन्तु ग्रहणमपि तत्प्रदर्शयति, तत्राद्यावयवभजना
मू. (७४४)
भिक्खामेत्ते अवियालणं तु बालेण दिज्जमाणमि । संदिट्टे वा गहणं अइबहुयवियालणुन्नाओ ||
वृ. बालो यदि भिक्षामात्रं परोक्षेऽपि ददाति ततो भिक्षामात्रे दीयमानेऽविचारणया, गृह्णाति, अथासौ बालो गृहपतिना प्रत्यक्षमेव ' संदष्टिः' उक्तो यथा प्रयच्छास्मै साझवे भिक्षां, ततोऽसौ साधुर्गृह्याति, अथासावतिबहु प्रयच्छति ततः, साधुर्विचारयति, यदुत किमित्यद्यातिबहु दीयते ?, एवमुक्ते सति यद्यसौ गृहस्थ एवं भणति-यदुताद्य प्राधूर्णकादिवशाद्बहु संस्कृतं, ततोऽसौ साधु गृह्याति । उक्त व्यक्त यतना; मू. (७४५) अप्पहुसंदिट्टे वा भिक्खामित्ते व गहणऽसंदिट्टे । थेरपहु थरथरंते धरणं अहवा दढसरीरे ॥
वृ.अप्रभुः-भृतकादिर्यदि सन्दिष्टः- उक्तो भवति प्रभुणा ततस्तस्य हस्ताद्वद्यते, यदा पुनर्न संदिष्टःनोक्तः स प्रभुणा यथा दातव्यं त्वया. तत्रासन्दिष्टे सति भिक्षामात्रस्यैव ग्रहणं करोति । अप्रभुयतनोक्ता, स्थविरयतनोच्यते-स्थविर- सन् प्रभुर्यदि ददाति, किंविशिष्टः ? -कम्पमानः परेण धृतः सन् ततो गृह्यते, अथासौ स्थविरः प्रभुर्यदि दृढशरीरो ददाति तथाऽपि गृह्यते । इदानीं पण्डकादीनां यतनादर्शनायाहमू. ( ७४६ ) पंड अप्पडिसेवी मत्तो सड्डो व अप्पसागरिए ।
खेत्ताइ भद्दगाणं करचरबिट्टप्पसागरिए ॥
वृ. पण्डकस्य ददतो गृह्यते यद्यसावप्रतिसेवी भवति न कुत्सितं कर्म आचरति । दारं । श्राद्धकस्य च मत्तस्य हस्ताद्रह्यते, यद्यसावल्पसागारिकः स भवेत्, वाशब्दादल्पमदश्च यदि स्यात् । तथा क्षिप्तचित्तदीप्तचित्तयक्षाविष्टानां हस्ताद्वह्यते यदि प्रकृत्या भद्रका भवन्ति-सादुवासनावन्त इत्यर्थः । द्वारत्रितयं । तथा कररहितचरणरहितानां हस्ताद्बह्यते, कर्थं ?, चरणरहितो यद्युपविष्टो ददाति अल्पसागारिकं च यदि भवति, कररहितोऽपि यद्यल्पसागारिके ददाति ततो गृह्यते नान्यथा । द्वारद्वितयं । इदानीमन्धादियतनाप्रदर्शनायाहमू. (७४७) ड्ड व अन्नभण अंधे सवियारणा व बद्धभि । तोसिए अभिन्ने वेला थणजीवियं थेरा ॥
वृ.अन्धस्य च हस्ताद्गृह्यते यदि श्रद्धावानन्येनाकृष्यमाणो ददाति । बद्धस्य च हस्ताद् गृह्यते यदि स सविचारो भवति-परिष्वष्वितुं शक्नोति । 'त्वग्दोषदुष्टस्यापि ' कुष्ठिनोऽपि हस्ताद गृह्यत् यद्यसवभिन्नकुष्ठी भवति-गलत्कुष्ठो न भवतीति । वेलेति- गुर्विण्या यदि वेलामासस्ततस्तस्या हस्तान्न गृह्यन्ति स्थविरकल्पिका इतरत्र गृह्यन्ति, जिनकल्पिकादयस्तु यः प्रभुत्यापन्नासत्त्वा भवति तत एवारभ्य न गृह्यन्ति । तथा स्थविराः स्थविरकल्पिकाः स्तनोपजीवी यो बालस्तद्युक्ता या बालवत्सा तस्या हस्तान्न गृह्यन्ति, जिनकल्पिकादयस्तु यावपि बालस्तावदपि तां बालवत्सां परिहरन्ति न तस्य हस्ताद् गृह्यन्ति । द्वारद्वयं । इदानीं कण्डयन्त्यादियतनोच्यतेमू. (७४८)
१६९
उक्खित्तऽपच्चवाए कंडे पीसे वछूढ भज्जन्ती ।
सुक्कं व पीसमाणी बुद्धीय विभावए सम्मं ॥
वृ.तत्र कण्डयन्त्या हस्ता गृह्यते यद्युत्क्षिप्तं मुशलमास्ते साधु प्राप्तस्तनोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा यदि ददाति । पीसे वत्ति - पेषयन्त्या हस्ताद् गृह्यते यदि तत्पेषणीयमचेतनं- धानादि तथा यत् सचित्तं पूर्वं यदि प्रक्षिप्तं तत्पिष्टं अन्यदद्यापि न प्रक्षिप्यते साधुश्च तत्रासवर उपस्थितो भिक्षार्थं ततस्तस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org