SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ ओघनियुक्तिः मूलसूत्रं मू. (७३८) अप्पभु भयगाईया उभएगतरे पदोस पहु कुज्जा। येरे चलंत पडणं अप्पभुदोसा य ते चेव ॥ [भा. २४२] वृ.अप्रभवो-भृतकादयस्तेषां हस्ताभिक्षा न ग्राह्या, यत-'उभयोः' प्रव्रजितकभृतकयोः प्रद्वेषं कुर्यात, एकतरस्य वाप्रव्रजितस्य भृतकस्य वोपरि पद्वेषं कुर्यात् प्रभु-इदानीं स्थविरद्वारमुच्यते-स्थविरस्यापि हस्ताद्भिक्षा न ग्राह्या, यतस्तस्य चलतः कम्पमानस्य पतनं भवति, अप्रभुदोषश्चत एव भवन्ति. एतदुक्तं भवति-स्थविरः प्रायेणाप्रभुर्भवति परिभूतत्वादिति । इदानीं पण्डकद्वारमुच्यतेमू. (७३९) आयपरोभयदोसा अभिक्खगहणंमि खुब्भण नुप्से। लोगदुगुंछा संका एरिगसा नूनमेतेऽवि ॥ [भा. २४३] वृ. नपुंसकान्न गृह्यते यत आत्मनः परत उभयतश्च देषाः संभवन्ति, आत्मशब्देन साधुगृह्यते, ततको दोषः ?, क्षोभणं स्यात् बहुमोहनपुंसकदर्शनेऽभीक्ष्णं, तत्र भिक्षाग्रहणे चतद्वाक्षुभ्यते अभीक्ष्णं साधुदशनादिना, उभयकृतो या दोषः, लोकच जुगुप्सते शंकते च. नृनमतेऽपि नपुंसकानीति मत्तद्वारमाहमू. (७४०) अवयास भाणभेदो वमनं असुइत्ति लोगउक्ताहो। . खेत्ते य दित्तचित्ते जक्खाइडे य दोसा उ॥ भा. २४१] वृ. सुरोपानेन यो मत्तस्तस्य हस्ताभिक्षा न गृह्यते, किं कारणं?, यतो मत्तो भिक्षां प्रयच्छन् कदाचिदवयासं करोति आलिङ्गतीत्पर्थः कदाचिद्भाजन-पात्रकं भिनति वमन वा-छर्दनं करोति, तथाऽशुचिरितिकृत्त्वा लोक उक्ताहो भवतिप्रवचनोपघात- । इदानीं तृतीयद्वारमच्यते-व्याक्षिप्तचित्ते दीप्तचित्ते यक्षाविष्ये एत एव दोषा आलिङ्गनभाजनभेदवमनाशुच्चिप्रभृतयो भवन्तीति। मू. (७४१) करच्छिन्न असुइ चरणे पडणं अंधिल्लए य छक्काया। निलयाऽसुइ पडणं वा तद्दोसी संकमो असुइ॥ भा. २४५] वृ. छिन्नकरो यदि भिक्षां ददाति ततो न गृह्यते यतोऽशुचिदोषो लोके भवति । द्वारं । तथा यस्यापि चरणश्छिन्नस्ततोऽपिनगृह्यते यतः तस्य प्रयच्छतः पतनं भवति। अन्नदपिन गृह्यते यतोऽसौ प्रयच्छन्षट् कायान् व्यापादयति । दारं । निगडितादपि न गृह्यते भिक्षा, यतोऽसावशुचिर्भवति, पतनं च तस्य निगडबदस्य स्यात्। त्वग्दोषदूषितस्यापि हस्तान्न गृह्यते यतः कदाचित्कुष्ठसङ्क्रम- स्यात् अशुच्चिचासौ वर्तते । मू. (७४२). गुव्विणि गब्भे संघट्टणा उ उटुंति निवेसमाण य। बालाई मंसउंडग मज्जाराई विराहेज्जा ।। [भा. २१६] वृ. गुर्विणीहस्तान्न गृह्यते यतस्तस्या गर्भे संघट्टनं भवति कथम् ?, उत्तिष्ठन्त्याश्योपविशन्त्याथ। दारं। बालवत्साया अपि हस्तान्न गृह्यते भिक्षा, यताबालं मुक्त्वा यदि भिक्षां ददाति ततस्तं बालं मंसुण्डकादिबुद्ध्या' मांसपिण्डादिबुद्धया, आदिग्रहणान्नवनीतबुद्धया वा मार्जारादिविराधयेत। मू. (७४३) बीओदगसंघटण कंडणपीसंत भज्जणे डहणं। कत्तंती पिंजंती इत्थं लित्तंभि उदगवहो॥ - [भा. २४७] वृ.कण्डयन्त्याः पिंषन्त्याश्च हस्तान्न गृह्यते यतस्तत्र यथासोन एकस्या बीजसंघट्टनकृतो दोषः अपरस्या उदकसंघट्टनकृतो दोषः, इति द्वारद्वयम् । याऽपि यवादीनां भर्जनं करोति तस्या अपि हस्तान्न गृह्यते यतस्तत्रयवा दिदहनकृतो दोषो भवति। तथा कर्त्तन्त्याः पिञ्जन्त्याच हस्तान्न गृह्यते यतस्तयोर्निष्ठी-वनलिप्तौ हस्तौ भवतस्तत्प्रक्षालने उदकवधः, द्वारद्वयं ॥ इदानीं यदक्तमासी भजनया-विकल्पेनैषाम-व्यंक्तादीनां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy