________________
१५८
ओघनियुक्तिः मूलसूत्र
उस्सग्ग काउ गमने मत्तयगहणे इमे दोसा ॥
वृ. उत्सर्गस्तावद्भिक्षार्थं गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यं यस्तु विस्मरणालुः स जघन्येन चालपट्टकमादाय गच्छति, उपलक्षणं चात्र चोलपट्टकोऽन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वयं च गृहीत्वा गच्छति । उक्तोपकरणयतना. इदानीं मात्रकयतनां प्रतिपादयन्नाह मात्रकं गृहीत्वा गन्तव्यं, अगृहीत्वा वोत्सर्गमिति उपयोगं कृत्वा व्रजति, अथ मात्रकं न गृह्णाति गच्छंस्ततश्च मात्रकाग्रहणे एते च दोषाः वक्ष्यमाणाः, अत्र च यदुत्सर्गग्रहणं कृतं तद्विधिप्रदर्शनार्थं न तु पुनः स्वस्थानमिति ।
इदानीं मात्रका - ग्रहणे दोषान् प्रदर्शयन्नाहमू. (६८२)
आयरिए य गिलाणे पाहुणए दुल्लहे सहसलाभे । संसत्तभत्तपाने मत्तगगहणं अणुन्नायं ॥
वृ. आचार्यर्थं ग्लानार्थ प्राघूर्णकार्य वा दुर्लभं वा किञ्चिल्लभ्यते तदर्थ, 'सहसा' अकस्मात्किञ्चित्कदाचिल्लभ्यते तदर्थं तथा संसक्त भक्त पानग्रहणार्थं मात्रकग्रहणमनुज्ञातम |
मू. (६८३)
पाउग्गायरिपाई कह गिण्हउ मत्तए अगहियंमि ।
एस विराधनाया दवभाणे जं दवेण विना ॥
[भा. २२९] वृ. प्रायोग्यमाचार्यादीनां क्व गृह्णातु मात्रके अगृहीते सति ?, अग्रहणाच्च या तेषामाचार्यादीनां विराधना सा तेनाङ्गीकृता भवति, तथैवं मन्यसे द्रवभाजने गृह्णातु ततश्चैवं द्रवेऽगृहीते तेन विना या विराधना सा तदवस्थैव, आदिग्रहणाद् ग्लानप्राघूर्णका अपि व्याख्याता एव ।
मू. (६८४)
दुल्ल हदव्वं य सिया घयाइ गिण्हे उवग्गहकरं तु ।
पउरऽन्नपाणलंभो असंथरे कत्थ य सिया उ ॥
[भा. २३०]
वृ. दुर्लभं वा द्रव्यं घृतादि 'स्यात्' भवेत् ततस्तत्र घृतादि गृह्यते यत उपग्रहं करोति-अवष्टम्भं करोति तत्, सहसा-आकस्मिकप्रचुरान्नपानलम्भः स्यात्ततः असंस्तरतां प्रव्रजितानामात्मानं कृच्छ्रेण यापयतां कुत्रचित् स्याद्ग्रहणमिति । तथा चमू. (६८५)
संसत्तभत्तपाने मत्त सोहेउ पक्खिवे उवरिं ।
संसत्तगं च नाउं परिद्ववे सेसरक्खट्टा ॥
[भा. २६१] वृ. संसक्त भक्त पानग्रहणे सति मात्रके 'शोधयित्वा' प्रत्युपेक्ष्य सक्त काञ्जिकादि पात्रकस्योपरि प्रक्षिपत् । अथ तत्पानकादि गृहीतं मात्रके क्नितु अशुद्धसंसक्तं जातं, ततश्चैवं ज्ञात्वा विधिना तस्मिन्नेव क्षण परिष्ठापयति, किमर्थं ?, शेषभक्त रक्षणार्थं, मा भूत्तद्गन्धेन शेषस्यापि संसक्तिः स्यात्, तस्मान्मात्रकं ग्रहीतव्यं, एभिश्र कारणैर्न गृह्णाति -
मू. (६८६)
गेन कज्जतुरिओ अनभोगेणं च लित्त अग्गहणं ।
अनभोगगिलाणट्टा उस्सग्गादीणि नवि कुज्जा ॥
वृ. ग्लानकार्येण त्वरितो गतः ततश्रवं न गृह्णाति, अनाभोगेन वा निर्गतो यदि, लिप्तं वा लेपन तत् मात्रकं यदि, ततत्रैवाग्रहणं मात्रकस्य संभवतीति । उक्ता मात्रकयतना, इदानीं उत्सर्गयतनाप्रतिपादनायाह- अनाभोगेन उत्सर्ग- उपयोगं न कुर्यात. ग्लानार्थं वा त्वरित उत्सर्गं न कुर्यात्, आदिग्रहणादावश्यकं च न कुर्यादिति । उत्सर्ग- उपयोगं न कुर्यात्. ग्लानार्थं वा त्वरित उत्सर्गं न कुर्यात्, आदिग्रहणादावश्यकं न कुर्यादिति । उत्सर्गयतनोक्ता इदानीं "जस्स जोगी" अस्य विधिरुच्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org