SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मूल-६७६ १५७ ततस्तस्यामनोजस्य विवेकः-परित्यागः क्रियत. अथासौ बहगुणसंपन्नः किन्तु स एवैको दोषः रटनशील इति एषणायां चबलवांस्तता नासौ परित्यज्यते। भणिया अमणुन्नजयणा. अधुना यदक्तम्- “एगानियस्स" इत्येवमादि तेषां यतनोच्यते, आह-किं पुनः कारणमुत्क्रमेण स्त्र्यादीनां पदानां यतनो च्यते ?. उच्यते. गर्वितकथिकादयः प्रज्ञापिताः सन्तः कारणवशादेकाकिनोऽपि भिक्षामटन्ति, ततश्चैकाकिनामटतां यद्यपि स्त्रीकृता दोषा भवन्ति तथाऽपि तत्रेयं यतना. इदानीं या गाथोपन्यस्ताऽऽसीत यदुत "एगानियस्सदोसा" इत्यादिका, तत्र यतनां प्रतिपादयन्नाहमू. (६७७) इत्थीगहणे धम्म कहइ वयठवण गुरुसमीवंभि। ___इह चेवोवर रज्जू भएण मोहोवसम तीए॥ वृ. एवं तस्यकाकिनो गतस्य सतः स्त्रीग्रहणे सति-स्त्रिया गृहीतः सन धर्मकथां करोति. यदुत नरकगमनाय मैथुनासेवत्येवमादिकां, अथ कथितेऽपि धर्मन मुश्चति तताभणति यद्रुत व्रतानि गुरुसमीप स्थापयित्वाऽऽगच्छामीति. एतदभिधाय नश्यति. अथ तथाऽपि न लभ्यते गन्तुं ततो भणति इहवापवरके व्रतमोक्षणं करामीति तत्र च प्रविशति. उल्लम्बनार्थं रज्जं च गृह्णाति. ततस्तेन भयेन कदाचिन्मोहोपशमो भवति. मोहनरसोभयेन ह्रियते, अथवमपिन मञ्चति ततो म्रियत एवेति। उक्तास्त्रीयतना, इदानीं श्वादियतनोच्यतेमू. (६७८) साणा गोणा इयरे परिहरऽणाभोगकुक्तकडनीसा। वारइ य दंडएणं वारावे वा अगावहिं॥ वृ. श्वानो गवादयश्च येषु गृहेषु तानि परिहरति, अथानाभोगेन कथमपि प्रविष्टः प्रत्यनीकैश्च ग्रहीतुमारब्धस्ततः कुड्यकटनिश्रया तिष्ठति, कुड्यं कटं वा पृष्ठे करोति अग्रतो दण्डकेन वारयति अगारैर्वा वारयति । उक्ताश्वयतना, इदानीं पडिजीययतनोच्यतेमू. (६७९) पडिनीयगेहवज्जण अनभोगपविट्ट बोलनिक्खमणं । मज्झे तिण्ह घराणं उवओग करेउ गेण्हेज्जा॥ वृ. एकाकिना प्रत्यनीकगृहे न प्रवेष्टव्यं, अथानाभोगेन प्रविष्टः प्रत्यनीकैच ग्रहीतुमारब्धस्ततो बोलं करोति उच्छन्दयति येन लोको मिलति, तत आकुले निष्क्रामति । उक्ता प्रत्यनीकयतना, अधुना भिक्षाविशोधियतनोच्यते-मध्य स्थितस्त्रयाणामपि गृहाणामुपयोगंदत्त्वा पङ्क्त्या स्थितानां भिक्षां गृह्णाति, उक्ताभिक्षाविशोधियतना, अधना पञ्चमहाव्रतयतनोच्यते. तत्र भिक्षायामुपयोगंददता प्राणातिपातसंरक्षणं कृतमेव, इदानीं द्वितीयमहाव्रतयतनां प्रतिपादनायाहमू. (६८०) वेंटल पुट्टा न याणे आयन्नातीणि वज्जए ठाणे। सुद्धं गवेस उंछं पंचऽइयारे परिहरंतो॥ . वृ. वेण्टलं-निमित्तादि पृष्टः सन्नवंभणति-नजाने, एवं भणता द्वितीयमहाव्रतयतना कृता भवति।इदानीं तृतीयमहाव्रतयतनां दर्शयन्नाह-आयन्नाईणि वज्जए ठाणे' तत्र भिक्षार्थं प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत्, यत्र हरिण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीयं, एवं तृतीयमहाव्रतयतना कृता भवति। इदानी पञ्चममहाव्रतयतनां प्रतिपादयन्नाह-'शुन्द्रम उद्रमादिदापरहितं गवेषयति' अन्वेषयति उम्छ' भक्तं पञ्चाप्यतीचारान रक्षन् । उक्ता पश्चममहाव्रतयतना, चतुर्थमहाव्रतयतना तूक्तै व, “इत्थिग्गहणे धम्म" इत्येवमादिना, उक्ता सङ्घाटकयतना, इदानीमुपकरणयतनाप्रतिपादनायाह मू. (६८१) जहन्नण चोलपट्टा वीसरणालू गहाय गच्छेज्जा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy