________________
१५४
आनियुक्तिः मूलसूत्रं लभते-निरुद्धा ध्रियत, सा एवंविधा त्रिप्रकारा स्त्री एकाकिनं माधुं प्रविष्टं दृष्ट्वा गृहे द्वारं ढङ्कयित्वा गृह्णीयात्. तत्र यद्यसा तां स्त्रियमिच्छति ततः संयमभ्रंशः अथ नेच्छति तत उक्ताहः. सैव स्त्री लोकस्य कथयति. यदुतायं मामभिभवतीति, ततश्चोक्ताहः । प्रतिद्वारगाथा व्याख्याता। कैः पुनः कारणैरसौ एकाकी भवति?. तत्राहमू. (६६२) गारविए काहीए माइल्ले अलस लुद्ध निद्धम्मे।
दल्लभअत्ताहिठिय अमणुन्ने वा असंघाडो॥ वृ. 'गारविए'त्ति गर्वेण लब्धिसंपन्नोऽहमितिकृत्वा एकाकीभवति, तथा काहीए'त्ति भिक्षार्थ प्रविष्टो धर्मकथां करोति महती वेलां तिष्ठति ततस्तेन सह न कश्चित्प्रयाति ततश्चैकाकीभवति, तथा मायावानेकाकीभवति. स हि शोभनं भुक्त्वाऽशोभनमानयति.स च द्वितीयं नेच्छत्यत एकाकीभवति. 'अलसः' अन्येन सह प्रभूतं पर्यटितमसमर्थस्तत एकाक्येवानीय भक्षयति, गच्छवैयावृत्त्येऽलसः स एकाकीभवति. ‘लुद्ध'त्ति लुब्धा विकृतीः प्रार्थयति. ताश्च द्वितीये सति न शक्यन्ते प्रार्थयितुमत एकाकीभवति. निद्धर्मः अनेषणीयं गृह्णाति ततो द्वितीय नेच्छति. 'दल्लभत्ति दर्लभ दर्भिक्ष एकाकीभवति. तत्र हि एककएव गच्छति येन पृथक पृथग भिक्षा लभ्यते, तथा 'अत्ताहिट्ठिय'त्ति आत्माधिष्ठितो यदात्मना लभते तदाहारयति अत्तलद्धित्ति जं भणिअं, अथवा अमनोज्ञो-न कश्चित्प्रतिभाति रटनशीलत्वात्ततश्चैकाकी हिण्डते. एवमसङ्घाटको भवति । इदानीं एतामेव गाथां भाष्यकारो याख्यानयतिमू. (६६३) संघाडगरायणिओ अलद्धिओमो यलद्धिसंपन्नो। जेट्टग्ग पडिग्गहगं मुह गारवकारणा एगो॥
[भा. २२३] वृ. कस्यचित्सङ्घाटकस्य योऽसौ रत्नाधिकः-पर्यायज्येष्ठः 'अलद्धिक'त्ति अलब्धिकः-लब्धिरहितः - 'ओम'त्ति पर्यायलघुर्द्वितीयः स च लब्धिसंपन्नः, ततो योऽसौ पर्यायेण लघुलब्धिमान् स भिक्षामटन्नग्रतो गच्छति रत्नाधिकश्च पृष्ठतो व्रजति, पुनश्च मण्डल्यां भोजनकाले आचार्या एवं भणन्ति, यदुत ज्येष्ठार्यस्याग्रतः पतद्रहं मुश्च. पुनरसा ओमराइणिऔ चिन्तयति, यदतास्यां वेलायामयं ज्येष्ठायः सञ्जातो न तु भिक्षावेलायां ज्येष्ठार्यः सञ्जातः, अहं लभे यावता ज्येष्ठार्यस्य प्रथम समर्प्यते, ततश्चानेन गर्वकारणेन गर्वकारणेन एकाकी भवति एकाक्येव हिंडति। 'गारविए'त्ति गयं, 'काहीउत्ति व्याख्यायतेमू. (६६४) काहीउ कहेइ कहं बिइओ वारेइ अहव गुरुकहणं। एवं सो एगागी माइल्लो भहगं भुजे॥
[भा. २२४] वृ. भिक्षार्थं प्रविष्टः कथको धर्मकथां कुर्वन्नास्ते, ततश्च तस्य द्वितीयो वारयति-मा कृथा धर्मकथां ग्लानादयः सीदन्तीति अथवाऽऽगत्य गुरोः कथयति यदतायं धर्मकथां कुर्वस्तिष्ठति, गुरुरपित निवारयति. यदि वारितोऽपि कथयति तदा स एवमेकाक्येव संजायते । काहिए त्ति गयं, मायावी भद्रकं भुङक्त अत एव एकाकी गच्छति ॥ "माइल्ले'त्ति गयं. 'असले'त्ति व्याख्यायते. मू. (६६५) अलसो चिरं न हिंडइ लुन्द्रा आहासए विगईओ। निद्धम्मो नेसणाई दुल्लहभिक्खे व एगागी॥
भा. २२५] वृ. अलसश्चिरं न हिण्डते कतिपयां भिक्षां गृहीत्वाऽऽगच्छति । अलसे'त्ति गयं लुन्द्रो'त्ति भन्नति. लुब्धा विकृतीः प्रार्थयते, ततथैकाक्येव याति। 'लुद्धेत्ति गयं निम्मे'त्ति भण्यते, निर्धर्मा अनेषणीयादि गृह्णाति. अपरसाधुप्रेरितथैकाकीभूयैवाटति। णिद्धमेत्ति गयं, 'दुल्लभे'त्तिभण्यते. दुर्भिक्षे-दुर्लभभिक्षायां संघाटनच्छति एकाक्येव भिक्षयति, ततश्चकाक्येव भवति. 'दल्लभे तिगतं, 'अत्ताहिट्ठिय'त्ति व्याख्यायते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org