________________
मूलं - ६४७
भाष्यकृत्संबन्धं करोतिमू. (६४८)
लित्तंमि भायणंमि उ पिंडस्स उवग्गही उ कायव्वो ।
जुत्तस्स एसणाए तमहं वाच्छं समासेणं ॥
[भा. २१२]
वृ. लिप्ते भाजने सति ततः पिण्डस्योपग्रहां- ग्रहणं कर्त्तव्यं, किंविशिष्टस्य पिण्डस्य ? - एषणायुक्तस्य. अतस्तामवैषणां प्रतिपादयन्नाह -
मू. (६४९)
नामं ठवणादविए भावंमि य एसणा मुणेयव्वा ।
दमि हिरन्नाई गवेसगहभुंजणा भावे ।।
१५१
वृ. नामस्थापने सुगमें, द्रव्यं द्रव्यविषया, यथा हिरण्यादेर्गवेषणां करोति कश्चिद् भावे - भावविषया त्रिविधा - गवेषणैषणा - अन्वेषणषणा ग्रहणैषणैषणा-पिण्डादानैषणा ग्रासेषणा ।
सा च गवेषणषणा एभिर्द्वाररैभिगन्तव्या
मू. (६५० )
पमाण का आवस्सए य संघाइए य उवकरणे । मत्त काउस्सग्गो जस्स य जोगो सपडिवक्खो ।।
वृ. प्रमाणं कतिवारा भिक्षार्थ प्रवेष्टव्यमिति, एतद्वक्ष्यति, 'काले' त्ति कस्यां वेलायां प्रवेष्टव्यं ?. भिक्षा गवेषणीया इत्यर्थः, ‘आवस्सए' त्ति आवश्यकं कायिकादिव्युत्सर्गं कृत्वा भिक्षाटनं कर्तव्यं गवेषणमित्यर्थः, 'संघाडए' त्ति सङ्घाटकयुक्ते न हिण्डनीयं नैकाकिना, 'उवगरणे' त्ति भिक्षामटता सर्वमुपकरणं ग्राह्यमाहोश्वित्स्वल्पं, 'मत्तगे' त्ति भिक्षामटता - गवेषयता मात्रकग्रहणं कर्त्तव्यं, कायोत्सर्गः भिक्षार्थं गच्छता उपयोगप्रत्युयः कार्यः, तथा च यस्य योगः- भिक्षार्थं गच्छन्निदं वक्ति यस्य योगो येन वस्तुना सह संबन्धो भविष्यति तद्ग्रहीष्यामीत्यर्थः, 'सपडिवक्खो' त्ति सर्व एवायं द्वारकलापः सप्रतिपक्षोऽपि वक्त व्यः, सापवादोऽपीत्यर्थः । इदानीं भाष्यकारः प्रतिपदमेतां गाथा व्याख्यानयति, तत्र “पमाणे "त्ति व्याख्यामू. (६५१) दुविहं होइ पमाणं काले भिक्खा पवेसमाणं च । सन्ना भिक्खायरिआ भिक्खे दो काल पदमद्धा ॥
[भा. २१३]
वृ. द्विविधं प्रमाणं भवति, 'कालो' त्ति एवं कालप्रमाणं कालनियमः - वेलानियम इत्यर्थः, तथाऽन्यद्भिक्षार्थं प्रविशमानानां 'प्रमाण' वारालक्षणं भवति, तत्र भिक्षाप्रवेशप्रमाणप्रतिपादनायाह- 'सन्नाभिक्खायरिया भिक्खे दो' भिक्षार्थं वाराद्वयं प्रविशति, एकमकालसञ्ज्ञायाः पानकनिमित्तं द्वितीयं भिक्षाचर्याकाले प्रविशतीति । जदि पुन तड़यवारं भिक्खायरिअं करेड़ ततो खेत्तं चमढिज्जड़ उक्ताही य हवइ, जहा नत्थ एएसिं भिक्खाहिंडणे नियमों. तम्हा दांन्नि वाराउ हिंडियव्वं, एयं च पुब्वभणियमेव पुणा पुणो पविस सङ्ख्यकुलाणि चमढिज्जंतित्ति, तेन भासकारेण बहुवारा पविसणे दोसा न दंसिआ । उक्तं भिक्षाप्रवेशवाराप्रमाणं, भिक्षाकालप्रतिपादनायाह- 'काले पढमद्धा' काल इति भिक्षाकालस्तस्मिन् प्रविशितव्यं, तथा 'पढमदा' इति प्रथमपौरुष्यां यदर्द्ध तस्मिंश्र भिक्षार्थं प्रविशितव्यं, उक्तं कालप्रमाणम् ।
मू. (६५२)
आरेण भद्दपंता भद्दग उडवण भंडण पदोसा । दासीणपरकरणं ठवियगदोसा य भमि ||
[भा. २१४] वृ. यदि पुनरर्द्धपौरुष्या आरत एवं प्रत्यूषसि एव भिक्षार्थं प्रविशति ततो भद्रककृता एते दोषाः 'उडवणं भंडणपओसा' उट्टावणं पसुत्तमहिलाए करेड. जहा पव्वतियगा आगया तं उट्ठेत्ता देसुत्ति, अहवा सा आलस्सेण न उडेइ तओ भंडणंकलहो होज्जा, अथवा सा चैव पओसज्जा, प्रद्वेषं गच्छतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org