________________
१५०
ओघनियुक्तिः मूलसूत्र
लेपयतोऽपि न विभूषादोष इति ॥ इदानीं मुद्रिकादिबन्धान् व्याख्यानयति तत्संबन्धं प्रतिपादयन्नाह - भिज्जिज्ज लिप्पमाणं लिनं वा असइए पुणा बंधो। मुद्दिअनावाबंघो न तेणएणं तु बंधिज्जा ।।
मू. (६४३)
वृ. भिद्येत्तल्लिप्यमानं पात्रकं वा लिम्पितं वा सद्भिद्येत ततोऽन्यस्थाभावे पुनरपि बध्यते -सीव्यते. तत्र मुद्रिकाबन्धस्येयं नौबन्धः पुनर्द्विविधो भवति, स्तेनकबन्धः पुनर्गुप्तो भवति. मध्येनैव पात्रककाष्ठस्य दवरको याति तादद्यावत्सा राजिः सीविता भवति, तेन स्तेनकबन्धेन दुर्बलं पात्रं भवत्यतोऽसौ वर्जनीयः । इदानीं स लेप उत्तममचमजघन्यभेदेन त्रिविधो भवत्यत आहमू. (६४४)
खरअयसिकुसुंभसरिसव कमेण उक्कोसमज्झिमजहन्ना । नवनीए सप्पिवसा गुडेन लेपो अलेवो उ ॥
वृ. स्वर इति - खरसन्नयं तिलतिल्लं तेण कओ उक्कांसो लेवा, अयसि - कुसुंभिआ तेण य मज्झिमो लेवो. सरिसवतेल्लेण य जहन्नओ होइ, अनेन क्रमेणोत्कृष्टो मध्यमो जघन्य इति । कः पुनर्लेपो न भवतीत्यत आह-नवनीतेन सर्पिषा-घृतेन वसया गुडेन लवणेन च, एभिः रसैरलेपः- एभिर्लेपो न भवतीति । उक्तो नव्यपिण्डः, इदानीं पिण्डस्यैकार्थिकान्युच्यन्ते
मू. (६४५)
पिंड निकाय समूहे संपिंडण पिंडणा य समवाए । समोसरण निचय उवचय चए य जुम्मे य रासी य ॥
वृ. पिण्डो निकायः समूहः संपिण्डनं पिण्डना च समवायः समवसरणं 'सृ गतौ' सम्यग् - एकत्र गमनं समवसरणं, निचय उपचयः चयन जुम्मश्र राशिः पिण्डार्थः । प्रतिपादितो द्रव्यपिण्डः, भावपिण्डमू. (६४६) दुविहो य भावपिंडो पसत्थओ होइ अप्पसत्थो य ।
दुग सत्तट्टचउक्कग जेणं वा बज्झए इयरो |
वृ. द्विविधो भावपिण्डः - प्रशस्तभावपिण्डोऽप्रशस्तभावपिण्डथ, तत्राप्रशस्तं प्रतिपादयन्नाह - 'दुयसत्तअ' इत्यादि, दुविहो रागो य दोसा य सत्तविहो सत्त भट्टाणाणि, एतानि च तानि - इहलोकभयं परलोकभयं आयाणभयं अकम्हाभयं आजीवियाभयं मरणभयं असिलोगमयं, “इहपरलोयायाणमकम्हाआजीवमरणमसिलो "त्ति । अट्ट कम्मपयडीओ नानावरणाइयाउ, अहवा अट्ठ मयट्टाणाणि - जाड़कुलबलरूवे तवईस्सरिए सए लाभे । चउव्विहो कोहमाणमायालोहरूवो । रागद्वेषावेव पिण्डः औदयिको भावोऽनन्तकर्मपुदभलनिर्वृत्तः पिण्डः, एवं सप्तभिर्भयस्थानैर्यो जन्यते कर्मपिण्डः एवमन्यत्रापि योज्यं, ‘येन वा' बाह्येन वस्तुना इतरः- आत्मा बध्यते कर्मणाऽष्टप्रकारेण सोऽप्रशस्तः । इदानीं प्रशस्तं भावपिण्डं प्रतिपादयन्नाहमू. (६४७) तिविहो होड़ पसत्थो नाणे तह दंसणे चरिते य ।
मत्तू अप्पसत्यं सत्यपिंडेण अहिगारो ॥
वृ. त्रिविधः प्रशस्तां भावपिण्डः- ज्ञानविषयः दर्शनविषयः चारित्रविषयश्च, तत्र ज्ञानपिण्डा ज्ञानं स्फाति नीयते येन, तथा दर्शनं स्फातिं नीयते येन, चारित्रं स्फातिं नीयते येन स बाह्याभ्यन्तरश्च पिण्डः, मुक्त्वाऽप्रशस्तं प्रशस्तपिण्डेनाधिकारः । अयं च भावपिण्डः केन पिण्ड्यते ?- प्रचुरीक्रियते, 1 शुद्धेनाहारोपधिशय्यादिना, अत्र चाहारेण प्रकृतं स एव प्रशस्तो भावपिण्डः. कारणे कार्योपचारात. जानादिपिण्डकारणमसौ, स चाहार एषणाशुद्धो ग्राह्यः, अनेन संबन्धेनागता एषणा प्रतिपाद्यते । अथवा पूर्वमिदमुक्तं - 'पिंडं च एसणं च वोच्छं' तत्र पिण्ड उक्तः, इदानीमंषणा प्रतिपाद्यते. अथवा स्वयमेवायं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org