________________
१४८
ओघनियुक्तिः मूलसूत्र
आतपे कृत्वा पुनः परिवर्त्तयति - आतपाभिमुखं करोति, एवं शोषणा तस्य नवलेपस्य पात्रकस्य, धाते च छारगुण्डिते तत्र पात्रके पुनर्लेपो दीयत इति । इदानीं भाष्यकार एतामेव गाथा व्याख्यानयति, तत्र लित्ते छगणियारो' त्ति इदं व्याख्यातमेव द्रष्टव्यं, शेषं व्याख्यानयन्नाह -
मू. (६३३)
दाउ सरत्ताण पत्ताबंध अबंधनं कुज्जा । साणाक्खणट्टा मज्ज छाउण्हसंकमणा ॥
[ भा. २१०] वृ. दत्त्वा तत्र पात्रके सरजस्त्राणं पात्राबन्धं पुनश्चाबन्धगं कुज्जेति तत्र ग्रन्थिं न ददाति किमर्थम ?, अत आह-‘साणादिरक्खणट्टा' श्वानादिरक्षणार्थं ग्रन्थिं न ददाति, इदमुक्तं भवति-ग्रन्थिना दत्तेन सता कर्पटकदेशे गृहीतः सन् शुना माजरिण वा नीयते, पुनश्च तत्पात्रकं प्रमृज्य भुवं छायात उष्णे सङ्क्रामयति. एतदुक्तं भवति - अपराक्तच्छायाक्रान्तं सन् पुनरुष्णे स्थापयति ।
मू. (६३४)
तद्दिवसं पडिलेहा कुंभमुहाईण होड़ कायव्वा । छन्ने निसंकुज्नाकयकज्जाणं विउस्सग्गो ।।
[ भा. २११ ]
वृ. यस्मिन् दिवसे पात्रकं लेपयति तस्मिन् दिवसे 'कुम्भमुखादीनां घटग्रीवादीनां प्रत्युपेक्षणं कृत्वा ततश्च गृह्णाति, येन लिप्तं पात्रकं बहिस्तस्यां ग्रीवायां तस्मिन् दिवसे क्रियते, निशायां तु छन्ने तत्पात्रकं कुर्याद् • आत्मसमीपे, कृते च कार्ये व्युत्सर्गः कर्त्तव्यस्तेषां घटग्रीवादीनां तस्मिन्नेव दिवसे येन परिग्रहकृतो दोषो न भवेत्, अन्यस्मिन् दिवसेऽन्यानि भविप्यन्ति । अथ लेपशेपः कचिदास्ते ततस्तस्य को विधिरित्यत आहमू. (६३५) अट्टगहेउं लेवाहियं तु सेसं सरूवगं पीसे ।
अहवावि नत्थि कज्जं सरूवमुज्झे तओ विहिणा ॥
वृ. कदाचित्तत्रान्यत्र वा पात्रकेऽष्टको दातव्यो भवति, ततस्तदर्थं अष्टकनिमित्तं करेण तं लेपाधिकं शेषं सख्तं पेष्यते, अथ तेन लेपशेषेण न किञ्चित्कार्यमस्ति ततः सरूतमेव विधिना परित्यजेत् छारेण गुण्डयित्वेत्यर्थः । इदानीं तत्पात्रकं कस्यां पौरुष्यां बाह्यतः स्थापनीयं ? कस्यां चाभ्यन्तरं प्रवेशयितव्यमित्येतत्प्रदर्शयन्नाह
मू. (६३६)
पढमचरिमा सिसिरे गिम्हे अद्धं तु तासि वज्जेज्जा । पायं ठवे सिनेहातिरक्खणट्टा पवेसो वा ॥
वृ. ‘शिशिरे' शीतकाले प्रथमपौरुषीं वर्जयित्वा सत्पात्रकं बहिरातपे स्थाप्यते. चरमायां चतुर्थ प्रहरे शिशिरपौरूष्यां यत्पात्रकमभ्यन्तरे प्रवेशयेत्, 'गिम्हे अद्धं तु तासि वज्जेज्ज' त्ति ग्रीष्मकाले तयो:प्रथमचरमपौरुष्योरर्द्धं वर्जयेत्, ततः पात्रकं स्थापयेत् प्रवेशयेद्धा, एतदुक्तं भवति - ग्रीष्मे अर्द्धपौरुष्यां गतायां सत्यां पात्रकं बहिः स्थापयेत् तथा चरमप्रहरार्द्धे गते सति तत्पात्रकं प्रवेशयेत, किमर्थं ?'सिनेहाइरक्खणट्टा' एतदुक्तं भवति - शिशिरे प्रथमप्रहरः चरमप्रहरश्च स्निग्धः कालस्तास्मिंश्र पात्रकं न क्रियते, लेपविनाशभयात्, तथोष्णकाले च प्रथमप्रहारर्द्धे चतुर्थप्रहरार्द्धे च न स्थाप्यते, सोऽपि स्निध एव कालः, अतीवोष्णे स्थापनीयं येन रुह्यत इति ।
मू. (६३७)
Jain Education International
उवओगं च अभिकखं करेड़ वासाडरक्खणट्टाए । वावारेइ व अन्ने गिलाणमाईसु कज्जेसु ॥
वृ. तस्मिँश्रातपस्थापिते 'उपयोगं' निरूपणं 'अभीक्ष्णं' पुनः पुनः करोति, किमर्थमित्यत आह'वासाडरक्खणड्डा' वर्षादिरक्षणार्थं, आदिग्रहणात् श्वादिरक्षणार्थं च, अन्यान् वा साधून व्यापारयति
For Private & Personal Use Only
www.jainelibrary.org