________________
मूलं-६२७
१४७ वारया वारया एकं २ वाउंडू स्थापयेत अन्यच्चकं मसणयति एवं तावद्यावन्मसणानि संजातानि भवंति। यदा पुनरकमेव लिप्तमुत्कृष्टलेपेन भवति तदा रुढे सति 'आनेइ तमेव दिनं'ति तस्मिन्नेव दिवसे द्रवं-पानकमानयति ‘रएउं' रङ्गयित्वा पात्रकं तदेव 'अभत्तट्टित्ति उपोषित एवं करोति।
अथासौ ग्लानादीनां वैयावृत्त्यकरः स्यात्ततःमू. (६२८) अभत्तट्ठियाण दाउं अन्नेसिं वा अहिंडमाणाणं ।
हिंडज्ज असंथरणं असहू घेत्तुं अरइयं तु॥ वृ. अथ तत् पात्रकं न रूढं ग्लानादयश्च सीदन्ति सोऽपि वैयावृत्त्यकरस्ततो ये अभक्तार्थिकाःउपवासिकाः साधवस्तेभ्यो ‘दत्त्वा' समर्प्य भिक्षार्थं व्रजति। अन्नेसिं वा अहिंडमाणाणं' अन्ये वा ये भिक्षा नाटन्ति तेषामहिण्डमानानां भोक्तृणां समर्प्य हिण्डत। असंथरणे'त्तिग्लानादीनामसंस्तरणे-असंतरणए होतए एवमसा करोति । असहुत्ति अथासौ स्वयमेवासहिष्णुरुपवासं कर्तुं ततः घेत्तुं अरइयं तु त्ति गृहीत्वाऽन्यसाधुसत्कं पात्रं 'अरइयं तु'त्ति अरनितं तस्मिन दिवसे पूर्वलिप्तमित्यर्थः तद्गृहीत्वा हिण्डेत। यदा पुनरेवंविधः साधुनास्ति कश्चिद्यस्य तन्नवलेपं पात्रकं समर्प्य भिक्षामटति, आत्मना च त्रीणि पश्चकाणि संवाहयितं न शक्नोति. कानि त्रीणि ?, एकं नवलपंपात्रकं अन्यो भक्तपतद्गृहस्तृतीयमशुद्धार्थं मात्रक, तदा को विधिरित्यत आह. मू. (६२९) न तरेज्जा जइ तिन्नी हिंडावेउं तओ अ छारेणं ।
उच्चन्नेउं हिंडइ अन्ने य दवं सि गेण्हंति ॥ वृ. 'न तरेत्' न शक्नुयात् यदि त्रीणि पात्रकाणि हिण्डयितुं ततो नवलेपं पात्रकं छारेण-भूतिना अवचूर्ण्य-गुण्डयित्वा एकत्र प्रदेशे स्थापयित्वा हिण्डते। 'अन्ने य दवं सि गिण्हंति'त्ति अन्ये साधवस्तदर्थं द्रवपानकं गुह्णन्ति । तथा चमू. (६३०) लेत्यारियाणि जाणि उ घट्टगमाईणि तत्थ लेवेणं ।
संजमफाइनिमित्तं ताई भूमीइ गुंडेज्जा॥ वृ. 'लेत्थारियाणि' लिप्तानि, केन?, लेपेनेति संबन्धः, यानि घट्टकादीनि, तत्र घट्टको-येनपाषाणकेन पात्रं नवलेपं मसृणं क्रियते, आदिग्रहणाच्छरावं चीरं चलेपलिप्तं. एतानि लेपेन सर्वाण्येव लिप्तानितत्र पात्रकं लिम्पतः, ततश्च तानि घट्टकादीनि भृत्या गण्डयति. येन तत्र प्रतिष्ठापितानां सत्तां कीटिकाद्यपघातो न भवेत् । किमर्थं पुनरेवं क्रियते ?, अत आह-'संजमफातिनिमित्त'मिति संयमवृद्ध्यर्थमिति। म. (६३१) एवं लेवग्गहणं आनयणं लिंपणा य जयणा व ।
- भणियाणि अतो वोच्छं परिकम्मविहिं तुलेवस्स। वृ. 'एवम्' उक्तन न्यायन लेपग्रहण तथा तस्यैवानयन लिम्पना च पात्रकस्य यतना च ग्रहण लेपस्यैतानि भणितानि, अतः परं वक्ष्ये परिकर्मविधिं लिप्तस्य पात्रकस्य। स चायं परिकर्मविधिःमू. (६३२) लित्ते छगणिअछारो धनेन चीरेणऽबंधिउं उण्हे।
अंछण परियत्तण घट्टणे य धोवे पुणो लेवो॥ वृ. लिप्त तत्र पात्रके सति 'छगणियछारो'त्ति गोमयछारेण तत्पात्रकं गुण्ड्यते. पशाच्च घनन 'चीरण' पात्रकबन्धन वेष्टयित्वा रजस्त्राणेन च परिवेष्ट्य 'अंबधिउंति पात्रकबन्धग्रन्थिमदत्त्वा तत एवंविधं कृत्वा 'उण्हत्ति उष्ण स्थापयति, अंगण'त्ति ततोऽङ्गुल्या लिप्तस्य रङ्गितस्य पात्रकस्याकर्षणं-समारणं करोति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org