________________
१३९
मूल- १८७
मिश्रोऽपि पिण्डो नवप्रकारः प्रतिपादितः, अचित्तोऽपि नवप्रकारः प्रतिपादित एव, इदानीं दशमो भेदोऽचित्तो लेपपिण्ड उच्यते स चैतेषामेव पृथिव्यादीनां नवानां भेदानां संयोगेन भवति एतदेव प्रदर्शयन्नाह - मू. (५८८) अह होइ लेवपिंडो संजोगणं नवण्ह पिंडाणं । नायव्वो निप्पन्नो तख्वणा तस्स कायव्वा ॥
वृ. अथ भवति लेपपिण्डः संयोगे नवानां पिण्डानां निप्पन्नो ज्ञातव्यः कथं ?. दुचक्का गडिआ. तत्थ अक्खे मक्खि पुढविकायस्स रजो लग्गति, आउक्काओ नदीए उत्तरओ लग्गड़, तेउकाओ तत्थ लोहं घंसति, वायू तत्थेव यत्राग्रिस्तत्र वायुना भाव्यम् । वणस्सई अक्खो बितिचउ संपातिना पाणा पडंति, पंचिंदियाणवि वरत्ता घस्सति । एवं संजोएण निष्पन्नो लेवो, इदानीं तस्य प्ररूपणा कर्त्तव्या । अव्वकालिअलेवं भांति लेवेसणा नवि अ दिट्टा |
मू. (५८९)
3
तं वत्तव्वा लेवा दिट्टी तेलुक्कदंसीहिं ॥
वृ. पर आह- अर्वाक्कालिकं लेप केचन प्रतिपादयन्ति, सदोषत्वाल्लेपस्य, तथा लेपषणा च समये न क्वचिद् दृष्टा, यतो द्विविधैव एषणा प्रतिपादिता वस्त्रेषणा पात्रैषणा च ततश्रायमर्वाक्कालिको यतो न युक्त्या घटते नापि समयं दृष्ट इति । एवमुक्ते आहाचार्य:- 'ते वत्तव्वा' न एवं भणनीयाः - इदं वक्तव्याः, यदुत लेपा दृष्टस्त्रैलोक्यदर्शिभिः-जिनः, एतदुक्तं भवति-पात्रैषणां प्रतिपादयता लेपैषणा उक्तै व द्रष्टव्या, अन्यथा तद्व्यतिरेकेण पात्रग्रहणानुपपत्तेः, पात्रं हि लेपादिसंस्कृतमेवोपयोगभाग् भवति नान्यथेति । आयापवयणसंजमउवधाओ दीसई जओ तिविहो ।
मू. (५९०)
तम्हा वदंति केई न लेवगहणं जिना बिंति ||
[भा. १९२] वृ. पर आह-आत्मप्रवचनसंयमोपघातो दृश्यते यतस्त्रिविधस्तस्माद्वदन्ति केचन न लेपग्रहणं जिना ब्रुवते । इदानीं पर एवात्मोपघातादि दर्शयन्नाह
मू. (५९१)
रहपडणउत्तिमंगाइभंजण घट्टणे य करघाओ । अह आयविराधनया जक्खुल्लिहणे पवयणंमि ॥
[ भा. १९३] वृ. तस्य साधोर्लेपं गृह्णतो दुःस्थितस्य पतनेनोत्तमाङ्गादिभङ्गो भवति, घट्टने च चलने सति रथस्य करस्य - हस्तस्य घातो भवति - संपीडनं भवतीत्यर्थः, अथैषाऽऽत्मविराधनोक्ता इदानीं प्रवचनोपघातं प्रदर्शयन्नाह-‘जक्खल्लिहणे पवयणमि' यक्षः श्वा स हि यक्षोऽक्षप्रदेशमुल्लिहति ततश्रु तस्मिन यक्षोल्लिहने सति 'प्रवचने' प्रवचनविषये उपघातो भवति । इदानीं संयमविराधनाप्रदर्शनायाहगमनागमन गहणाताणे संयम विराधनया ।
|
मू. (५९२)
महिसरिउम्मुगहरिआ कुंथू वासं रओ वसिया ||
[भा. १९४ ] वृ. लेपार्थं गमने च आगमने च ग्रहणे च लेपस्य संयमविराधना भवति, कथं ? महिसरिउम्मुगहरिआकुंथु' त्ति तत्र गच्छतो मही सचित्ता भवति, तथा सरिदुत्तरणेऽप्कायविराधना भवति, तथा ग्रहणे चाग्रिविराधना भवति, स हि गृह्णन् कदाचिदुल्मुकं चालयति ततश्चाग्निविराधना, यत्राग्निस्तत्र वायुना भाव्यं, तथा कदाचिदसौ गन्त्री हरितकुन्थुकादिमध्ये व्यवस्थिता भवति ततश्रासौ लेपं गृह्णन तानि विराधयति. अथवाऽनया भय्या संयमविराधना भवति 'वासं रओ व सिआ' तत्र गतस्य कदाचिद्वर्षं भवति ततश्राप्कायविराधना अथ रजः संपातो भवति ततश्च पृथिवीकायविराधना भवति एतमुक्ते सरिराहदोषाणं परिहारो चोयग ! जयणाड़ कीरई तेसिं ।
मू. (५९३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org