________________
१३६
ओ नियुक्तिः मूलसूत्रं तत आत्मनः क्षालयत्युपधिं । इदानीं कानि प्रथम क्षालनीयानि ? इत्याह- 'पुव्वमहाकडे त्ति यान्येकखण्डानि अतूर्णितानि च तानि यथाकृतानि पूर्व प्रक्षालयति, 'इयंरे दुवे पच्छ' त्ति इतरौ द्वौ वस्त्रभेदौ पश्चात्प्रक्षालयन्ति, एकान्यल्पपरिकर्माणि-यानि कचिन्मनाक् तूर्णितानि अन्यानि बहुपरिकर्माणि यानि द्विधा सीवितानि तूर्णितानि च, अल्पपरिकर्माणि च क्षालयित्वा ततो बहुपरिकर्माणि क्षालयति ।
मू. (५७४)
अच्छोsपिट्टणासु त न धुवे धांव पतावणं न करे। परिभोगमपरिभोगे छायातव पेह कल्लाणं ॥
वृ. इदानीं स साधुः प्रक्षालयन् कर्पटानि नाच्छोटयति रजकवत्, नापि च पिट्टयति काष्ठपिट्टनेन स्त्रीवत्, किन्तु हस्तेन मनाग् यतनया धावनं करोति, धौतानि च वस्त्राणि नातपे प्रतापयति, मा भूत्तत्र काचित षट्पदी, स्यात् कानि पुनरातपे कार्याणि कानि वा न ? इत्याह- परिभोगमपरिभोगे' त्ति तानि कर्पटानि द्विविधानि भवन्ति-परिभोग्यानि अपरिभोग्यानि च, तत्र यथासङ्ख्येन छायातपयोः कार्याणि, परिभोग्यानि छायायां शोष्यन्ते मा भूत्तत्र षट्पदी स्यात्. अपरिभोग्यान्यातपे, 'पेहे' त्ति तानि च कर्पटानि शुष्यन्ति सन्ति निरुपयत्यपहरणभयात्। ‘कल्लाणगं' ति पश्चात्तस्य प्रक्षालनप्रत्ययमेककल्याणकं प्रायश्चित्तं दीयते । उक्तोऽप्कायःमू. (५७५) इट्टगपागाईणं बहुमज्झे विज्जुयाइ निच्छइओ । गाई मुम्मुरमाई य मिस्सो उ ॥
वृ. असावपि त्रिविधः, तत्र सचित्त इष्टकापाकादीनां बहुमध्ये विद्युदादिको नैचयिको भवति, अङ्गारादिश्चेतरो व्यावहारिकः मुर्मुरादिकः - उल्मुकादिर्मिश्रो भवति ।
इदानीमचिताग्रिकायस्योपयोगमचित्ता-ग्रिशरीरोपयोगं च दर्शयन्नाह -
मू. (५७६)
ओदनवंजणपानगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई पिप्पलमाई य परिभोगो ॥
वृ. ओदनं - कूरादि व्यञ्जनं- तिम्मणं पानकं - आचाम्लं आयामं अवश्रावणं उष्णोदकं कुल्माषाश्र, एतानि अग्ग्रेर्निर्वत्र्त्यानि कार्याणि, ततश्चैभिरुपयोगः क्रियते । इदानीमनिनिर्वर्त्तितशरीरोपभोगं दर्शयन्नाह-डगलकाइष्टकाखण्डा अतीव पक्काः सरक्खो भस्म सूच्यः पिप्पलकः- क्षुरकः, एवमादिभिरचित्तैरग्रिशरीरैरूपयोगः क्रियते, अग्रिशरीराणि च द्विविधानि भवन्ति- बद्धेल्लयाणि मुक्केल्लयाणि च तत्रात्र मुक्केल्लयाणि द्रष्टव्यानि । इदानीं वायुकाय उच्यते. असावपि त्रिविधः सचित्तादिरूपः, तत्र नैश्रयिकसचित्तप्रतिपादनायाहT मू. (५७७) सवलयघनतनुवाया अतिहिमअतिदुद्दिणे य निच्छइओ ।
ववहार पायमाई अकंतादी य अच्चित्तो ॥
वृ. सह वलयैर्वर्त्तन्त इति सवलयाः घनवाताश्च तनुवाताश्च सवलयाश्च ते घनतनुवाताच २ ते निश्चयतः सचित्ताः । तथाऽतिहिमपाते यो वायुरतिदुर्दिने च यो वायुः स नैश्रयिकः सचित्तः, व्यवहारतः पुनः प्राच्यादिपूर्वस्यां यो दिशि, आदिग्रहणादुत्तरादिग्रहणं, एतदुक्तं भवति-अतिहिमअतिदुर्दिनरहितो यः प्राच्यादिवायुः स व्यवहारतः सचित्तः । इदानीमचित्तः 'अक्कंताई य अचित्तो' त्ति यः कर्दमादावाक्रान्ते सति भवति सोऽचित्तः, स च पञ्चधा अक्कते धंते पीलिए सरीरानुगए समुच्छिमे, तत्थ अक्कतो चिक्खिलाइसु. धंतो दतियाइसु, पीलिओ पोत्तचम्माईसु, सरीराणुगओ ऊसासनीसासवाऊ उदरत्थाणीओ. संमुच्छिमी तालियंटाई हिं
ओ । इदानीं मिश्र उच्यते, आह- किं पुनः कारणं मिश्रः पश्राद्व्याख्यायते ?, उच्यते, अचित्तेनैव साधुर्व्यवहारं करोति स च गृहीतः सन्नेव मिश्रीभवति, अस्यार्थस्य प्रदर्शनार्थं पश्चान्मिश्र उच्यते ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International