________________
मूलं - ५६८
ततोऽजीर्णं भवति । इदानीमुपधिप्रक्षालनकाले कानि न विश्रामणीयानि ? इत्याहपायस्स पडोयारं दुनिसज्जे तिपट्टपोत्तिरयहरणं । एते न उ विस्सामे जयणा संकामणा धुवणा ॥
मू. (५६९)
वृ. पात्रस्य ‘पडोपारं’ परिकरणं पात्रबन्धादिकं न विश्रामवेत्. तथा 'दुन्नि नितज्जे' तिरजोहरणमिषधाबद्धं एका और्णिका बाह्यनिषद्या द्वितीया मध्यवर्त्तिनी क्षोमनिषधा इदं द्वयं न विश्रामणीयं 'तिपट्ट' त्ति एकः संस्तारक पट्टको द्वितीय उत्तरपट्टकः तृतीयश्रोलपट्टकः 'पोत्ति' त्ति मुखवस्त्रिका रजोहरणं प्रतीतमेव एतानि न विश्रामयेत्, यतो नाम्यान्यनुपभोग्यानि सन्ति । तत्र च षट्पदसङ्क्रमणं कथमित्याह- 'जयणा संकमणा' यतना वस्त्रान्तरितेन हस्तेनान्यस्मिन् वस्त्रे षट्पदी: सङ्क्रमयति ततो धावनं करोति ।
शेषमुपधिं विश्रामयतो विधिमाह
मू. (५७० )
अब्भिंतरपरिभोगं उवरिं पाउणइ नातिदूरे य । तिन्नि यतिन्नि य न एवं निसि उं काउं पडिच्छेज्जा ॥
वृ. 'अब्भिंतरपरिभोगं' क्षोमकल्प शेषकल्पयोरुपरि प्रावृणोति, कतराः ?, त्रयस्तिस्त्र इति वक्ष्यति, तथा नातिदूरे नात्यासत्रे तमेव कल्पं रात्रित्रयमेव स्थापयति, 'तिन्नि य तिन्नि य' त्ति पदद्वयं योजितमेव द्रष्टव्यं 'एक्कं निसिउं काउं' ति एकां रत्रिमात्मोपरि कीलकादौ स एव कल्पः स्थाप्यते । 'पडिच्छेज्ज' त्ति एवं सप्त दिनानि परीक्षा कार्या । अथवा 'परिक्खेज्ज' त्ति एवं सप्तवाराः कृत्वा पुनश्च शरीरे वस्त्रं प्राकृत्य परीक्षणीयं, यदि षट्पद्यो न लगन्ति ततः प्रक्षालनीयमिति ॥
मू. (५७१)
8
केई एक्क्क्कनिसिं संवासेउं ति पद्दिच्छंति । पाउणियजयणलग्गति छप्पया ताहे धोवेज्जा |
वृ. केचनाचार्या एवमाहुः - 'एक्वेक्कानिसिं संवादेउं 'ति अयमत्रार्थः तमभ्यन्तरं कल्पं क्षोममितरकल्पयोरुपरि एकां रात्रिं प्रावृणोति, पुनरपरस्यां रात्रावात्मासन्ने स्थाप्वति, पुनरपरस्यां रात्रौ आत्मोपरि कीलकादौ लब्वमानं करोति, एवं त्रिरात्रं यावत्परीक्ष्यते, पश्राच्च तं कल्पं पुनः प्रावृणोति, प्रावृते च कल्पे यदि न लगन्ति षट्पद्यस्तदा धावयेत् प्रक्षालयेत् । ते च प्रक्षालयन्तःमू. (५७२)
निव्वोदगस्स गहणं केई भाणेसु असुर पडिसेहो ।
गहिभायणेस गहणं ठियवासे मीसिअं छारो ||
वृ. ते च साधवचीरप्रक्षालनार्थं नीव्रोदकस्य ग्रहणं कुर्वन्ति, तत्राह - 'केई भाणेसु' त्ति केचनैवं ब्रुवते यदुत "भाजनेषु पात्रेषु नीव्रोदकग्रहणं कार्य. आचार्य आह- 'असुड़' लोका एवं भणन्ति, यदुत - अशुचय एते, ततश्च प्रतिषेधं कुर्वन्ति । क्व पुर्नग्राह्यमित्यत आह- 'गिहिभायणेसु' गृहस्थसत्केषु भाजनेषु - कुण्डादिषु भाजनेषु गृह्यते, कदा?- 'ठियवास' स्थित प्रवर्षण थक्के वरिसियब्वे, 'मीसगं' ति अथात्र प्रवर्षति पर्जन्ये गृह्यते ततो गृह्णतो मिश्रं भवत्यन्तरिक्षोदकपातात् तस्मात्स्थिते प्रवर्षण ग्राह्यं गृहीते च क्षारः क्षेपणीयो येन सचित्ततां न याति । कस्य पुनः प्रथममुपधिः प्रक्षालनीय इत्यत आहगुरूपच्चक्खाणगिलाणसंहमाईण धावणं पुव्वं ।
मू. (५७३)
तो अप्पणा पुब्वमहाकडे य इतरे दुवे पच्छा ॥
वृ. प्रथमं गुरोरुपधिः प्रक्षाल्यते ततः 'पच्चक्खाय' त्ति प्रत्याख्याता - अनशनस्थस्तस्योपधिः प्रक्षाल्यते समाधानार्थं ततो ग्लानस्य पश्रात्संहस्य मा भून्मलपरीषहपीडया चित्तभङ्गः, एवमेतेषां पूर्वमुपधिः क्षाल्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org