SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मूलं - ५५६ पृथिवीकायः पौरूषीत्रयं यावन्मिश्रो भवति । उक्तो मिश्रः, इदानीमचित उच्यते, स चैवं भवतिसीउण्हखारखत्ते उग्गीलोणूस अंबिले नेहे । मू. (५५७) वक्कतजोणिएणं पओयणं तेणिमं होंति । वृ . शीतशस्त्राभिहतः उष्णशस्त्राभिहितः क्षारः - तिलक्षारादिस्तेनाभिहतो यः क्षत्रशस्त्रेणाभिहतः, क्षत्रंकरीषविशेषः, अग्रिशस्त्राभिहतः लवणशस्त्राभिहतः (अवश्यायवशस्त्राभिहितः ) का िकशस्त्राभिहतः, स्नेहन-घृतादिना शस्त्रेणाभिहतः सन् योव्युत्क्रान्तयोनिकः, अथवा 'विक्कतजांणिएवि य' केचित्पठन्ति, तत्रायमर्थः-व्युत्क्रान्ता-अपगता योनिः स्वयमेव यस्व पृथिवीकायस्य तेन च 'इदं' वक्ष्यमाणं प्रयोजनं भवति । किं तत्प्रयोजनमित्यत आह मू. (५५८) अवरद्विग विसबंधे लवणेन व सुरभिउबलएणं च । अच्चित्तस्स उ गहणं पओयण होड़ जं चऽन्नं ॥ वृ. अवरदिगा- लृता फोडिआ तस्यां लूतास्फोटिकायामुत्थितायां दाहोपशमार्थमचेतनेन पृथिवीकायन परिषेकः क्रियते यदिवा अवरद्धिगा सर्पदंशस्तस्मिन परिषेकादि क्रियते, दंशे विषे वा पतिते सति तयाऽचेतनया मृत्तिकया बन्धो दीयते, लवणेन वा प्रयोजनमचितेन भवति, 'सुरहितोक्लएणं व' त्ति गन्धारोहकेणापि किञ्चित्प्रयोजनं भवत्यामादौ, एभिः प्रयोजनैरचेतनस्य पृथिवीकायस्य ग्रहणं भवति - प्रयोजनं भवति । इदं च वक्ष्यमाणलक्षणमन्यत्मू. (५५९) १३३ ठाणनिसीयतुयट्टण उच्चाराईणि चेव उस्सग्गो । घट्टगडगलगलेवो एमाइ पओयणं बहुहा वृ. स्थानं-कायोत्सर्गः सोऽचेतने पृथिवीकाये क्रियते निषीदनम् उपवेशनं त्वग्वर्त्तनं - निमज्जनं च क्रियते उच्चारादीनां वोत्सर्गः क्रियते, 'घट्टग 'त्ति घट्टकः- पाषाणकः येन पात्रकं लेपितं सद् घृष्यते, तथा डगलकाः अपानप्रोञ्छनार्थं लेपक पात्रकाणां एवमादि प्रयोजनमचित्तेन पृथिवीकायः, इदानीमप्काय उच्यते, असावपि त्रिविधः सचित्तमिश्राचित्तभेदः, तत्र सचित्तप्रतिपादनायाहघनउदहीघनवत्लया करगसमुद्दद्दहाण बहुमज्झे । मू. (५६०) अह निच्छयसच्चित्तो ववहारनयस्स अगडाई ॥ वृ. घनोदधयो रत्नप्रभापृथिव्यादीनां घनवलयानि च करकाश्च एतेषु निश्रयतः सचित्तोऽप्कायः समुद्रबहुमध्ये-मध्यप्रदेशे द्रहमध्ये च निश्रयसचेतनः, व्यवहारनयस्य पुनरगडादौ - कूपादौ योऽप्कायः स व्यवहारतः सचितः । इदानीं मिश्रप्रतिपादनायाह मू. (५६१) 'उसिणोदगमनुवत्ते दंडे वासे य पडिअमेत्ते य । मोत्तॄणाएसतिगं चाउलउदगं बहुपसन्नं ॥ वृ. उष्णोदकमनुद्धृत्ते दण्डे मिश्रं भवति, तत्थ मुज्झे जीवसंघाओ पिंडीभूओ अच्छइ पच्छा उव्वत्ते सो परिणमइ, सो जाव परिणमई ताव मीसो वासे य पडियमित्ते वर्षे च पतितमात्रे मिश्रो भवत्यप्कायः, तन्डुलोदके व्यवस्था का ?. तदुच्यते. 'मात्तृण' इत्यादि. तदपि मिश्रं बहु प्रसन्नं सदचेतनं भवति आदेशत्रितयं मुक्त्वा तदनेकान्तान् ॥ के च ते आदेशाः ?. मू. (५६२) Jain Education International एसतिगं बुब्बु बिन्दू तह चाउला न सिज्झति । मात्तृण तिन्निवेए चाउलउदगं बहु पयन्नं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy