________________
૬૩૨
ओघनियुक्तिः मूलसूत्रं
तथा काष्ठकर्मणि वेति, तदैकमेव काष्ठं पिण्ड एष इत्येवं कल्प्यते तदाऽसद्भावस्थापना, यदा तु एकत्र बहूनि मिलितानि पिण्डत्वेन कल्प्यन्ते तदा सद्भावस्थापना, एवं 'पुस्ते ' धीउल्लिकादौ पुत्तलिकादिष्वपि एवं चितकर्मण्यपि, यदैकचित्रकर्मणि पुत्तलपिण्ड इति स्थाप्यते तदाऽसद्भावपिण्डस्थापना यदा त्रिप्रभृति पिण्डबुद्ध्या कल्प्यते तदा सद्भावस्थापना, एवं सद्भावपिण्डसमद्भावपिण्डं च जानीहि । इदानीं द्रव्यपिण्डस्य ज्ञशररीभव्यशरीरव्यतिरिक्त स्य प्रतिपादनायाह
मू. (५५२)
तिविहो य दव्वपिंडी सच्चित्तो मीसओ य अच्चित्तो । अच्चित्तो य दसविहो सच्चित्तो मीसओ नवहा ॥
वृ. त्रिविधो द्रव्यपिण्डः - सचित्तोऽचित्तो मिश्रश्रेति, तत्र योऽसावचितः स दशविधः सचित्तो नवप्रकारः मिश्रच नवधा ॥ तत्राचित्तपिण्डप्रतिपादनायाह
मू. (५५३)
पुढवी आउक्काए तेरवाऊवणस्सई चैव । बिअतिअचउरो पंचिंदिया य लेवो य दसमो उ ॥
वृ. पृथिवीकायपिण्डः अप्कायपिण्डस्तेजस्कायपिण्डः वायुकायपिण्डः वनस्पतिकायपिण्डः द्वीन्द्रियपिण्डः त्रीन्द्रियपिण्डः चतुरिन्द्रियपिण्डः पचेन्द्रियपिण्डः पात्रकार्थं लेपपिण्डचेति दशमः । एवमयं दशप्रकारोऽचित्तपिण्ड, इदानीं योऽसौ अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीतिकृत्वा (ऽतः) स एव प्रथमं सचितः प्रतिपाद्यते, तथोपन्यासोऽपि सचित्तस्यैव प्रथमं कृतः, तथा योऽसौ सचित्तो मिश्रश्च एकैको नवप्रकार उक्तः सोऽप्यनेनैव क्रमेण व्याखयातो भवतीतिकृत्वा पूर्वं सचित्तं व्याख्यानयन्नाहपुढविक्काओ तिविहो सच्चित्तो मीसओ य अचित्तो ।
मू. (५५४)
सच्चित्तो पुन दुविहो निच्छयववहारिओ चेव ॥
वृ. पृथिवीकायस्त्रिविधः सचित्ता मिश्रोऽचित्तश्च तत्र सचित्तो द्विविधः - निश्चयसचित्तो व्यवहारसचित्तश्र ।
मू. (५५५)
Jain Education International
निच्छयओ सच्चित्तो पुढविमहापव्वयाण बहुमज्झे । अच्चित्तमीसवज्जो सेसो ववहारसच्चित्तो ॥
वृ. निश्रयतः सचित्तः पृथिवीनां- रत्नशर्कराप्रभृतीनां संबन्धीयः 'महापर्वतानां' हिमवदादीनां च 'बहुमध्ये ' मध्यप्रदेशभागे। इदानींव्यवहारसचित्तप्रतिपादनायाह-अचित्तवर्जः मिश्रवर्जच. एतदुक्तं भवति योऽचित्तो न भवति न च मिश्रः स व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादि नास्ति । उक्तः सचित्तः पृथिवीकायः, इदानीं मिश्रपृथिवीकायं प्रतिपादयन्नाहमू. (५५६) खीरदुमहेट्ठ पंथे कट्टोल्ला इंधने यमीसो य । '
पोरिसि एगदुगतिगं बहुइंधनमज्झथोवे अ ।
वृ. क्षीरद्रुमाः-उदुम्बरादयस्तेषामधो यः पृथिवीकायः स मिश्रः, ते हि क्षीरद्रुमा मधुरस्वभावा भवन्ति, पथि च मिश्रपृथिवीकायः 'कट्ठोल्लो' त्ति हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्कश्च क्वचिन्मिश्रपृथिवीकायः ‘इंधने' त्ति इन्धनंगोमयो भण्यते, तत्थ कुम्भकारेण सद्रवो आनिओ तेन मिलितो संतो पृथिवीकायो मिश्रो भवति, कियत्कालं यावद् ? अत आह- 'पोरिसीएगद्गतिगं' यथासङ्ख्येन च 'बहुइंधणमज्झिंधणथोविंधण' यदि बहु इन्धनं स्वल्पः पृथिवीकायस्ततः पौरुषीमात्रं यावत् मिश्रो भवति, मध्ये तु इन्धने अर्द्धमिन्धनस्य अर्द्ध पृथिवीकायस्य यत्र स पौरुषीद्वितयं यावन्मिश्रः, स्वल्पेन्धनस्तु
For Private & Personal Use Only
www.jainelibrary.org