SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मूलं-५४६ साहू खवंति कम्मं अनेगभवसंचिअमनंतं ॥ वृ. एतं प्रत्युपेक्षणाविधिं युञ्जन्तः' कुर्वाणाः चरणकरणयोगयुक्ताः सन्तः साधवः क्षपयन्ति कर्म, किंविशिष्टम् ? अनेकभवसश्चितम्' अनेकभवोपात्तम् 'अनन्तम्' अनन्तकर्मपुद्गलनिवृत्तत्वात्तदनन्तमिति, अनन्तानां वा भवानां हेतुर्यत्तदनन्तं क्षपयन्तीति । उक्तं मार्गप्रत्युपेक्षणाद्वारं, तत्प्रतिपादनाच्चोक्तं प्रत्यपेक्षणाद्वारमिति प्रतिलेखनाद्वारं समाप्तं ॥ इदानी पिण्डद्वारप्रतिपादनायाहमू. (५४७) पिंडं व एसणं वा एत्ता वोच्छं गुरुवएसेणं। गवेसणगहणघासेसणाए तिविहाए विसुद्धं ॥ वृ. पिण्डं वक्ष्ये एषणां च, एषणा गवेषणा तां च अतः परं वक्ष्ये, गुरुपदेशेन न स्वमनीषिकया, सा चैषणा त्रिविधा भवति-गवेषणैषणा ग्रहणेषणा ग्रासैषणा चेति, अनया त्रिविधयाऽप्येषणया विशुद्धः-शुचिर्यः पिण्डस्तं वक्ष्य इति योगः। यथोद्देशं निर्देश' इतिन्यायात्प्रथमं पिण्डमेव व्याख्यानयन्नाहमू. (५४८) पिंडस्स उनिक्खवो चउक्कओ छक्कओ य कायव्वो। निक्खेवं काऊणं परूवणा तस्स कायव्वा॥ वृ.तत्र पिण्डनं-पिण्डः, 'पिण्ड सङ्घाते', पिण्ड इत्यस्य पदस्य निक्षेपः कर्त्तव्यः सच निक्षेपकश्चतुष्ककः क्रियते षट्को वा, एवं निक्षेपं कृत्वा प्ररूपणा-व्याख्या तस्यैव पिण्डस्य कर्त्तव्या॥ तत्र चतुष्ककनिक्षेपंमू. (५४९) नाम ठवणापिंडो दव्वपिंडो य भावपिंडो य। एसो खलु पिंडस्स उ निक्खेवो चउव्विहो होइ॥ वृ. नामपिण्डः स्थापनापिण्डो द्रव्यपिण्डो भावपिण्डश्चेत्येष तावच्चतुष्कको निक्षेपः, यदा पुनः क्षेत्रपिण्डः कालपिण्डव निक्षिप्यते तदाऽयमेव षट्को वा भवति, तत्र नामपिण्ड:-पिण्ड इति नाम यस्य स . नामपिण्डः। तच्चमू. (५५०) गोन्नं समयकयं वा जं वावि हवेज्ज तदुभएन कयं। ___ तं बिंति नामपिंडं ठवणापिंडं अओ वोच्छं॥ ७. तच्च नाम गोन्नं भवति यथा गुडपिण्ड इति. तथाऽन्यत्समयकृतं भवति, समयः-सिद्धान्तस्तेन कृतं, यथा “से भिक्खू वा भिक्खणी वा गाहावडकुलं पिंडवायपडियाए पविठू समाणे जं जाणेज्जा अंबपानगं वा” इत्यादि, यद्यप्यसा पानकस्य द्रवस्वभावस्य (कृत) प्रविष्टस्तथाऽप्यसौ पिण्डार्थं प्रविष्ट इत्युच्यते, एष समयसिद्धः पिण्डः, यद्धा नाम भवेत्तदुभयन कृतलोकलोकोत्तरकृतं वा यन्नाम भवेत्, यथा गाहावइकुलं पिंडवायपडियाए पविट्ठण पिंडो चैव सत्तुगाणं करओ लद्धओ गुडपिंडो वा' तत्र लोके गुडपिण्डकः गुडपिण्डक एवोच्यते, समयेऽप्येवमेव पिण्डक उच्यते, एवमेवंगुणविशिष्टं सर्वमेव नामपिण्डंब्रुवते, अत ऊर्ध्वं स्थापनापिण्डं वक्ष्य इति। मू. (५५१) अक्ख वराडए वा कट्टे पोत्थे व चित्तकम्मे वा। सब्भावमसम्भावा ठवणापिंडं वियाणाहि ॥ वृ. स्थापना द्विविधा सदभावस्थापना असद्भावस्थापना चेति, तत्राक्षविषया सद्भावस्थापना असद्भावस्थापना च भवनि. कथं ?, यदा एक एवाक्षः पिण्डकल्पनया बुद्ध्या कल्प्यते तदाऽ-सदभावस्थापना, यत्र पुनस्त एवाक्षारित्रप्रभृतय एकत्र स्थाप्यन्ते तदा सदभावस्थापना, एवं वराटंकषु' कपर्दकषु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy