________________
मूलं-५३२
१२९
नाशङ्कां स्त्र्याद्यभिलषणरूपां कुर्वते यतस्ते प्रसभं प्रयान्तीति, अनाकुलगमनं वा करोति, एकत्र मिलिता गच्छन्तीत्यर्थः कुरुकुचा च पूर्ववत्कार्या । उक्तं स्थण्डिलद्वारम्, इदानीमवष्टम्भद्वारं प्रतिपादयन्नाहमू. (५३३) अव्वोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई । म्हापस, अवट्टंभो न कप्पई ॥
वृ. अवष्टम्भः स्तम्भादौ न कर्त्तव्यः, यतः प्रत्युपेंक्षितेऽपि तत्र पथादपि 'अव्यवच्छिन्नाः' अनवरतं त्रसाः प्राणा भवन्ति, ततश्च तत्र प्रत्युपेक्षणा न शुद्ध्यति, 'तम्हा हट्टपहट्टस्स' दृष्टो-नीरोगः प्रहृष्टः- समर्थस्तरुणस्तस्य एवंविधस्य साधोरवष्टम्भो 'न कल्पते' नोक्तः । इदानीं के ते त्रसाः प्राणिन इत्येतत्प्रदर्शनायाहमू. (५३४) संचर कुंथुद्देहिअलूयावेहे तहेव दाली अ । घरकोइलिआ सप्पे विस्संभरउंदूरे सरडे ।।
वृ. तत्रावष्टम्भे-स्तम्भादौ संचरन्ति-प्रसर्पन्ति, के ते ? - कुन्थवः सत्त्वा उद्देहिकाथ लूता- कोलियकः तत्कृतो वेधो-भक्षणं भवति तथा च दाली - राजिर्भवति तस्यां च वृथिकादेराश्रयो भवति, तथा गृहको क लिका' घरोलिका उपरिष्टान्मूत्रयति, तन्मूत्रेण चोपघातो भवति चक्षुषः, सर्वो वा तत्राश्रितो भवेत, विश्वम्भरो जीवविशेष उंदुरो वा भवेत्, 'सरटः' कृकलाशः, स च दशनादि करोति । इदानीं भाष्यकारो व्याख्यानयन्नाहमू. (५३५) संचारगा चउद्दिसि पुव्विं पडिलेहिएवि अन्नंति ।
उद्देहि मूल पडणे विराधना तदुभए भेओ ।।
[भा. १८६ ]
वृ. ‘सञ्चारकाः’ कुन्थ्वादयः पूर्वोक्ताश्रतसृषु दिक्षु तस्मिन्नवष्टम्भे परिभ्रमन्ति, पूर्वं प्रत्युपेक्षितेऽवि तत्र स्तम्भादाववष्टम्भेऽनुयन्ति आगच्छन्ति । उद्देहि'त्ति कदाचिदसौ स्तम्भादिरवष्टम्भो मूल उद्देहिकादिभक्षितः ततश्चावष्टम्भं कुर्वतः पतति, पुनश्च विराधना 'तदुभए' भवति आत्मनि संयमे च भेदश्च पात्रकादेर्भवति ।
मू. (५३६)
लूयाइचमढणा संजमंमि आयाए विच्छुगाईया । एवं घरकोइलिआ अहिउंदुरसरडमाईसु ॥
[भा. १८७] वृ. लूतादिचमढने - मर्दने संयमे - संयमविषया विराधना भवति, आत्मविराधना च वृत्रिकादिभिः क्रियते । एवं गृहकोलिका (अहि) उन्दरसरडादिविषयां संयमविराधना आत्मविराधना च भवति । उक्त उत्सर्गः इदानीमपवाद उच्यतेमू. (५३७)
अतरंतस्स उ पासा गाढं दुक्खति तेनऽवट्टंभे ।
संजय भे सेल छुहाकुक्त विट्टीए ।
वृ. ‘अतरंतस्स' अशक्नुवतो ग्लानादेः पार्श्वानि गाढं अत्यर्थं दुःखंति तेन कारणेनावष्टम्भं कुर्वन्ति, अत आह-संयतपृष्ठे स्तम्भे वा 'सेल'त्ति पाषाणमये स्तम्भे सुधामाष्टर्ये कुड्ये वाऽवष्टम्भं कुर्वीत, उपधिकां विण्टिकां वा कुड्यादौ कृत्वा ततोऽवष्टम्भं करोति । उक्तमवष्टम्भद्वारम्, इदानीं मार्गद्वारं प्रतिपादयन्नाहमू. (५३८) पंथं तु वच्चमाणा जुगतरं चक्खुणा व पडिलेहा । अड़दूरचक्खुपाए सुहुमतिरिगच्छग्गय न पेहे ॥
1
वृ. पथि व्रजन् 'युगान्तरं' युगं चतुर्हस्तप्रमाणं तन्मात्रान्तरं चक्षुषा प्रत्युपेक्षेत, किं कारणं ? यतोऽतिदूरचक्षुःपाते सति सूक्ष्मांस्तिर्यग्गतान् प्राणिनः 'न पेहे' न पश्यति, दूरे दूरे प्रहितत्वाच्चक्षुषः । अच्चासन्ननिरोहे दुक्खं दट्टुपि पायसंहरणं ।
मू. (५३९)
2619
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org